अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ।। २४ ।।
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ।। २४ ।।
भाष्यम्
को विशेषस्तवान्येभ्यः? इत्यत आह– अव्यक्तमिति ।। कार्यदेहादि-वर्जितम् । तद्वान् इव प्रतीयस इत्यत आह– व्यक्तिमापन्नमिति ।। कार्यदेहा-द्यापन्नम् ।।
भावप्रदीपिका
नन्वेवं ब्रह्मादिभक्तानां क्षयिष्णुफलत्वेऽपि त्वद्भक्तानां क्षयिष्णुफलत्वमित्यत्र तव को विशेषः ? इत्याशङ्कां परिहर्तुमुत्तरश्लोकाद्यपादमवतार्य व्याचष्टे– क इति । ब्रह्मादीनां कार्यदेहादिमत्त्वाद्युक्तं तद्भक्तानां क्षयिष्णुफलत्वम् । मम तदभावात् मद्भक्तानामनन्ततेत्यर्थः । यदि कार्यदेहादिशून्यो भवान्, तर्हि कथं तथा प्रतीयते ? इत्या-शङ्कोत्तरत्वेन श्लोकमवतार्य सप्रमाणकं व्याचष्टे– तद्वानिति ।।
भावप्रकाशिका
ननु देहवत्त्वेनान्तवत्त्वाद्देवनान्तद्यजान्तानेव प्राप्तानां फलमन्तवच्चेत्, भगवतोऽपि देहवत्त्वाविशेषादयं दोषः किं न स्यात् ? इति भावेनाशङ्क्य, अकार्यदेहत्वान्नायं दोष इत्युत्तरश्लोकस्थाव्यक्तशब्देन परिहरति– क इति । कथं तर्हि कंसादयः कार्यदेहवन्तमिव पश्यन्ति ? इत्याशङ्क्य, बह्वागमविरुद्धत्वात् भ्रान्ता एव त इत्येवं श्लोकशेषमवतार्य व्याचष्टे– तदित्यादिना ।।
प्रमेयदीपिका
अव्यक्तम् इति श्लोकस्य प्रकृतेन साक्षात् सङ्गत्यभावात् तं सङ्गमयितुमाह – क इति।। अन्येभ्यः ब्रह्मादिभ्यः । ‘येन तान् प्राप्तानामन्तवत्फलत्वेऽपि त्वां प्राप्तानामनन्तफलता’ इति शङ्काशेषः । कथमनेनोक्तशङ्कापरिहार इत्यत आह– कार्येति ।। अनेन यथाश्रुतं पदं पठित्वा व्याख्यातम् । वस्तुतस्तु ‘अव्यक्तं माम्’ इत्यनुवादात् ‘अव्यक्तोऽहम्’ इति यत्सिद्धं तस्येदं व्याख्यानमिति ज्ञातव्यम् । इदानीमुत्तरस्य सङ्गतिमाह– तद्वानिति ।। कार्यदेहादिमान् इवेति मृदूक्तिः, वस्तुतस्त्वेवेति । ‘अतो न तद्वर्जितः’ इति शेषः । प्रकृतोपयोगितया व्याचष्टे– कार्येति ।।
भावबोधः
।। यथाश्रुतमिति । ‘अव्यक्तोऽह’मिति विधायकवाक्यनुवादान्यथानु-पपत्त्या अर्थतः सिद्धमिति प्रथमान्तपदं मुखतो न श्रुतमित्यर्थः । प्रतीतिश्चाज्ञानमूलेत्यनेन ‘अबुद्धयः’ ‘मन्यन्ते’ इतिपदद्वयमुक्तार्थं भवति । ननु याथार्थ्यस्य प्रमाणधर्मत्वात् कथमर्थगतत्व-मित्यत आह– प्रमाणेति ।। २३,२४ ।।
भावदीपः
भाष्ये ‘अव्यक्तम् ’इति प्रतीकग्रहणात् ‘कार्यदेहवर्जितम्’ इति व्याख्यैव युक्ता, प्रथमान्तव्याख्या त्वयुक्ता । ‘अव्यक्तः’ इति विधायकपदाभावादिति हृद्याशङ्क्यार्थलब्धस्येयं व्याख्येत्याह– अनेनेत्यादिना ।। आक्षेपलाभायाऽह– इति मृदूक्तिरित्यादि ।।
भावरत्नकोशः
।। प्रकृतेन अन्यदेवताभक्तानाम् अन्तवत्फलम्, मद्भक्ता-नामनन्तरमिति पूर्वप्रकृतेन । मुखतः सङ्गत्यनवभासात् ‘साक्षात्’ इत्युक्तम् । तत् प्रकृतं वचनम्, प्रकृतं वा । ‘अन्तवत्फलत्वादि’ इति पाठे तु आदिशब्देनाल्पमेधस्त्वग्रह इति आहुः । ‘अनन्त-फलता’ इति बहुव्रीहिः । अनेन ‘कार्यदेहादिवर्जितः’ इति भाष्येण । यथाश्रुतम् ‘अव्यक्तम्’ इति द्वितीयाविभक्त्यन्तं गीतापदं व्याख्यातं प्रातिपदिकार्थवर्णनेन । गीताऽऽनुगुण्याद् द्वितीयान्ततया भाषणमेवोचितम्, न तु प्रथमान्ततयेत्यत उक्तं– वस्तुतस्त्विति ।। ‘अबुद्धयो अव्यक्तं मां मन्यन्ते’ इत्यन्वयायोगादनुवादोऽयमिति तावद् वक्तव्यम् । अनुवादश्च पुरोवादसापेक्षः । न च ‘अव्यक्तोऽहम्’ इत्येवमाकारकं पुरोवादवाक्यमितःपूर्वं श्रुतमस्ति । तदभावे च को विशेषस्तवा-न्येभ्य इति शङ्का न शाम्यति । सति तु तस्मिन् शाम्यति । अतोऽनुवादेन विनोक्तशङ्कायाः परिहाराभावाद् ‘अव्यक्तोऽहम्, इतरे त्वतथाविधाः’ इत्यतो युक्ते फलस्यानन्ततासान्तते इति परिहारो गीताचार्याभिप्रेत इति वक्तव्यम् । अत्र च‘अव्यक्तमपि मां व्यक्तिमापन्नं मन्यन्ते’ इत्यनुवादो ज्ञापकः । तदन्यथानुपपत्त्या च यत्सिद्धं ‘अव्यक्तोऽहम्’ इति वाक्यं प्रथमान्तम्, तस्य कार्यदेहादिवर्जित इति व्याख्यानं युक्तमेवेति भावः । यद्वक्ष्यति ‘न तद्वर्जितः’ इति शेष इति ।
‘अव्यक्तमिति कार्यदेहादिवर्जितम्’ इति भाष्यपाठो भूम्ना लक्ष्यते । तत्र ‘अव्यक्तं माम्’ इत्यनुवादाद् ‘अव्यक्तोऽहम्’ इति यत्सिद्धं तस्यैव व्याख्यानम् ‘कार्यदेहादिवर्जितः’ इति कार्यम् । ‘तद्वानिव प्रतीयसे’ इति वक्ष्यमाणप्रथमान्ताक्षेपानुगुण्यादित्यत आह– अनेनेति ।। यथाश्रुतं गीतागतम् ‘अव्यक्तम्’ इति द्वितीयान्तमेव पदं ‘कार्यदेहादिवर्जितम्’ इति द्वितीयान्तपदेन भाष्ये व्याख्यातमित्यर्थः । तथाऽप्युक्तशङ्कापरिहारो न स्फुटप्रतिभासः ? इत्यतो द्वितीयान्तभाष्यभाव-माह– वस्तुतस्त्विति ।। तस्येदं व्याख्यानं ‘तात्पर्यगत्या’ इति योज्यमित्यपि व्याचक्षते । कार्य-देहादिमत्सादृश्यप्रतीतावपि कथं तद्वर्जितत्वाक्षेपः । विरोधाभावादित्यत उक्तम्– मृदूक्तिरिति ।।
आक्षेपपरत्वस्फोरणाय वस्तुतस्विति । ‘तद्वानेव प्रतीयसे’ इति निर्गलितस्य साध्यमाह– अत इति ।।
भावदीपिका
।। यथाश्रुतं द्वितीयान्तमव्यक्तपदम् । पठित्वा ‘अव्यक्तम्’ इति प्र्रतीग्रहणेन । व्याख्यानमिति ।। ‘कार्यदेहादिवर्जितम्’ इत्यनेनेत्यर्थः । यत् विधिरूपं वाक्यम् । तस्येदमिति ।। ततश्च ‘कार्यदेहादिवर्जितम्’ इति वाक्यविन्यासो द्रष्टव्यः । एवं विधिवाक्याध्याहारे ‘को विशेषस्तवान्येभ्यः’ इति शङ्कापरिहारहेतुः कार्यदेहराहित्यरूपो विशेषोऽभिहितो भवति । अन्यथा ‘अव्यक्तम्’ इत्याद्यसङ्गतप्रयोगोक्त्या शङ्कापरिहारालाभादित्याशयः । एवेतीति ।। तथा च कार्यदेहादिमानेव प्रतीयसे यतः, अतः कार्यदेहादिवर्जितत्वं यत् ‘अव्यक्तोऽहम्’ इत्यनेनोक्तं तदसदित्यर्थः । कार्येतीति ।। तथा च ‘अव्यक्तं मां व्यक्तिमापन्नमबुद्धयो मन्यन्ते, कार्यदेहादि-मत्त्वप्रतीतिरज्ञानमूला’ इति गीतार्थो द्रष्टव्यः ।।