कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ।। ११ ।।
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ।। ११ ।।
भाष्यम्
एवञ्चाचार इत्याह– कायेनेति ।। ११ ।।
भावप्रदीपिका
इतश्च युक्तावेव योगसंन्यासौ फलदौ, इतरत्यागेनेत्यभिप्रायेण उत्तरश्लोकमवतारयति– एवं चेति ।। ११ ।।
भावप्रकाशिका
तत्त्वदर्शिनामपि शुकादीनां संन्यासकर्मयोगयोराचरण-दर्शनाच्च नैकतरोऽपि त्याज्य इति भावेनोत्तरं श्लोकमवतारयति– एवं चेति । प्रसिद्धं हि तेषामपि स्वाश्रमोचितं मानसवाचकादिकं कर्म पुराणादिषु । ‘केवलैः’ कर्माहङ्कारादिरहितैः कायादिभिः, ‘आत्मशुद्धये’ संसारमोक्षायेत्यर्थः ।। ११ ।।
प्रमेयदीपिका
‘कायेन’ इत्यनेनापि सन्न्यासयोगयुक्तस्याऽऽत्मशुद्धिलक्षणः पापालेप उच्यत इत्यत आह – एवञ्चेति ।। उभयसमुच्चयरूप एवेत्यर्थः । अन्यत्र तात्पर्यान्न पुनरुक्तिरिति भावः । आचारकथनमपि नियमसमर्थनार्थमिति ज्ञातव्यम् ।। ११ ।।
भावदीपः
।। उभयसमुच्चयरूप इति ।। सप्तम्यन्तम् ।। ११ ।।
भावरत्नकोशः
चशब्द एवार्थ इति भावेनाह– उभयसमुच्चयरूप एवेति ।। संन्यासयोगरूपोभयसमुच्चयरूप एव आचार इत्यर्थः । उक्तशङ्कां निरसितुं भाष्यभावमाह– अन्यत्रेति ।। अन्यत्र आचारसद्भावे । आचारकथनस्य प्रयोजनमाह– आचारेति ।। प्राक् संन्यासयोगमेलननियममात्रमुक्तम् । अत्रेदानीं तत्राचाररूपप्रमाणमुच्यते । तच्चोक्तनियमसमर्थनार्थ-मित्यर्थः ।। ११ ।।
गीताक्षरार्थस्तु ‘संन्यासयोगौ मिलितावेव महाफलहेतू’ इत्यत्र तदुभयसमुच्चयानुष्ठानरूप एव आचारोऽस्तीत्युच्यते कायेनेति । बुद्ध्या ‘द्वादशैवेन्द्रियाण्याहुः मनोबुद्धी तु द्वादशे’ इति वचनाद् बुद्धिरूपेन्द्रियेण । ‘बुद्ध्यत अनया’ इति बुद्धिः वागिति द्वितीयभाष्यरीत्या बुद्धिः वाक् अत्र ग्राह्या । अत एव प्राचीनटीकायां प्रसिद्धं हि तेषामपि स्वाश्रमोचितं मानसवाचिकादिकं कर्मेति वाचकशब्दप्रयोग इत्यपि आहुः । केवलैः कामाहङ्कारादिहीनैः इन्द्रियैः योगिनोऽपि तत्त्वदर्शिनः शुकादयोऽपि सङ्गं फलस्नेहं च त्यक्त्वा आत्मशुद्धये मनसः पापालेपलक्षणफलाय, प्राचीन-टीकारीत्या जीवस्यान्यथाकारपरित्यागेन स्वरूपाविर्भावरूपमुक्तय इति वा कर्म स्नानसन्ध्यावन्दन-तत्त्वनिश्चयार्थश्रवणकीर्तनादिरूपं कुर्वन्तीति ।। ११ ।।
भावदीपिका
ननु नात्र पापालेप उच्यते, किन्तु आत्मशुद्धिरेव ? इत्यत आह– आत्मशुद्धिलक्षण इति ।। आत्माशुद्धिरेव हि पापमिति भावः ।। उच्यत इति ।। तथा च पुनरुक्तिरिति भावः ।। उभयसमुच्चयरूप एवेति ।। संन्यासयोगयोरुभयोः समुच्चयेनानुष्ठानरूप आचार इत्यर्थः ।। अन्यत्रेति ।। आचारकथन इत्यर्थः । नन्वाचारकथनमपि किमर्थमित्यत आह– आचारेति ।। नियमेति ।। संन्यासयोगयोरन्वयव्यतिरेकाभ्यां यः साहित्यनियमः ‘संन्यासस्तु’ इत्यादिश्लोकेनोक्तः तत्समर्थनार्थमित्यर्थः ।। ११ ।।
भावप्रकाशः
नन्वाचारकथनं व्यर्थमित्यत आह– आचरकथनमपीति ।। प्राङि्नयममात्रमुक्तम् । इदानीं तु तत्राचाररूपं प्रमाणमुच्यतेऽतो न वैय्यर्थ्यमिति भावः । अत एव समर्थनार्थमित्युक्तम् ।। ११ ।।