मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।। १२ ।।

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।। १२ ।।

भाष्यम्

तेषां फलमाह– मोघाशा इति ।। वृथाशाः । भगवद्द्वेषिभिः आशासितं आमुष्मिकं न किञ्चिदाप्यते । यज्ञादिकर्माणि च वृथैव तेषाम् । ज्ञानं च । केनापि ब्रह्मरुद्रादिभक्त्याद्युपायेन न कश्चित् पुरुषार्थ आमुष्मिकस्तैराप्यत इत्यर्थः । वक्ष्यति च ‘तानहं द्विषतः क्रूरान्’इत्यादि ।।

भावप्रदीपिका

नन्वेवं निर्दोषं चेत्, कथं तेषां न दुर्गतिरित्युक्तम् ? इत्यत उत्तरश्लोकार्धम् अवतारयति– तेषामिति ।। भगवद्द्वेषिकंसादीनां सम्पदादिदर्शनात् कथं मोघाशत्वम् ? इत्यत आह– भगवदिति ।। मोघकर्माणः इत्येतद्व्याचष्टे– यज्ञादीति ।। एतदेव प्रमाणैः साधयति– वक्ष्यति चेत्यादिना ।।

प्रमेयदीपिका

किञ्च तेषां फलम् इत्यस्य परिहारो न दृश्यते । अत आह– तेषामिति ।। अनर्थत्व प्रदर्शनाय व्याचष्टे– वृथेति ।। सम्पदादिप्राप्तिदर्शनात् कथमित्यत आह– भगवदिति ।। युद्धादिकर्मणां साफल्यदर्शनात् कथं मोघकर्माणः? इत्यत आह– यज्ञादीति ।। ज्ञानं तत्वविषयं तेषां नास्त्येव । अतः कथं तस्य मोघत्वमुच्यते? इत्यत आह– ज्ञानं चेति ।। ‘ज्ञानं च तेषां वृथैव’ इत्यस्य ‘केनापीत्यर्थः’ इति सम्बन्धः । अनेन ज्ञानपदमुपलक्षणमिति चोक्तं भवति । न केवलं पुरुषार्थानवाप्तिः । अपि तु दुःखावाप्तिश्चेति भावेन तत्र प्रमाणान्याह– वक्ष्यति चेति ।।

भावदीपः

किञ्च ‘तेषां फलम्’ इति चशब्दबलाद् ‘यथा’पदमाकृष्यत इति भावेनोक्तम्– ज्ञानं च तेषां वृथैवेत्यस्येति ।। अनेनेति ।। ‘भक्त्याद्युपायेन’ इति कथनेन ‘मोघज्ञानमोघभक्तिमोघवैराग्यादिमन्तः’ इत्युक्तं भवतीत्यर्थः ।। न केवलं पुमर्थहेतुत्वरूपं मोघ-पदतात्पर्यभूतमिति चार्थः ।।

भावरत्नकोशः

‘का च तेषां गतिः’ इति भाष्यमर्थतोऽनुवदति– किञ्च तेषां फलमितीति ।। विषयज्ञानस्य फलदर्शनात् कथं मोघत्वम् ? इत्यतः ‘ज्ञानं तत्त्वविषयम्’ इति वक्तव्यम् । तत्तु तेषां नास्त्येव । ‘सर्वथापि तु त एवोभयलिङ्गात्’ इत्यधिकरणेऽयोग्यानां तत्त्वज्ञानाभावस्य स्थितिरिति भावेनोक्तम्– ज्ञानं तत्त्वविषयं तेषां नास्त्येवेति ।। भाष्ये चशब्दः ‘तेषां वृथैव’ इत्यस्यानुकर्षणार्थ इति भावेनाह– ज्ञानं च तेषां वृथैवेत्यस्येति ।। तस्यैव विवरणम् ‘केनापि’ इति योज्यम् । अनेन ‘भक्त्याद्युपायेन न कश्चित्पुरुषार्थ आमुष्मिक’ इति च कथनेन । न केवलं ‘ज्ञानं भक्तिः विरक्तिश्च मोघाः’ इत्युपलक्षितम् । किन्तु ‘ज्ञानसाध्यम् आमुष्मिकफलं न किमपि तेषाम्’ इति च । ज्ञानपदेनैव ज्ञानफलमुप-लक्षितमिति चार्थः । स्थितस्य ज्ञानस्य फलनिष्पादकत्वमिह ज्ञानशब्दार्थो न विवक्षितः । किन्तु तत्त्वज्ञानस्यानवाप्तिः, ज्ञानफलत्वेन प्रसिद्धं यद् आमुष्मिकफलं तस्यालाभश्चेति भावः ।

भावदीपिका

।। साफल्येति ।। वीरस्वर्गरूपफलसद्भावादिति भावः । उपलक्षणमिति ।। गीतायां ज्ञानपदं भक्त्याद्युपलक्षकमित्यर्थः ।।

भावप्रकाशः

ज्ञानं चेत्यतः परमध्याहार्यं दर्शयन् व्यवहितत्वात् सम्बन्धं दर्शयति– ज्ञानञ्चेति ।।

Load More