तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ।। ४१ ।।
तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ।। ४१ ।।
भाष्यम्
हृताधिष्ठानो हि शत्रुर्नश्यति ।। ४१ ।।
भावप्रदीपिका
नन्विन्द्रियनियमनेन कथं पाप्मनोऽस्य वध उच्यते ‘तस्मात्’ इत्यनेन ? इत्यत आह– हृतेति ।। ४१ ।।
भावप्रकाशिका
‘यत इन्द्रियाण्यधिष्ठानानि तस्य, अतस्तानि नियम्य, तं जहि’ इतीन्द्रियनियमनस्य तद्वधहेतुत्वमुच्यते । तत्कथम्? इत्यत आह– हृताधिष्ठानो हीति ।। ४१ ।।
प्रमेयदीपिका
तस्मात् त्वम् इतीन्द्रियाणां निग्रहः कामहननोपाय-तयोपदिश्यते । तदुपपादयति– हृतेति ।। नश्यति नाशयितुं शक्यो भवति ।। ४१ ।।
भावरत्नकोशः
अधिष्ठानानाम् आहृतिमात्रेण शत्रुनाशे तन्नाशोपायतया वक्ष्यमाणज्ञानाख्यायुधोपदेशवैयर्थ्यम् इत्यतो ‘नश्यति’ इत्यस्य तात्पर्यमाह– नश्यति नाशयितुं शक्यो भवतीति ।।
गीताक्षरार्थस्तु– यस्मादेवं विमोहयति कामः तस्मात् पाप्मानं ब्रह्महत्यादिपापहेतुं ज्ञानं गुरूपदेशमात्रजनितं विज्ञानं शास्त्रजनितं ज्ञानं च नाशयतीति कर्तरि ल्युः ल्युड् वा । ज्ञान-विज्ञानयोर्नाशनं नाशो यस्मादिति बहुव्रीहिर्वा । तम् एनम् अन्वादेश एनादेशः । कामं प्रजहि परित्यज्य । हृताधिष्ठानो हि शत्रुर्नाशयितुं शक्यो भवतीत्युपपत्तिसूचको हिशब्द इति स्वामिनः । इन्द्रियजयः कामहननोपाय इति ।। ४१ ।।
भावदीपिका
दुर्गाद्यधिष्ठानग्रहणमात्रेण शत्रोर्नाशादर्शनादाह– नाशयितुं शक्य इति ।। अनायासेन तन्नाशः कर्तुं शक्यत इत्यर्थः ।। ४१ ।।