युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबद्ध्यते ।। १२ ।।
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबद्ध्यते ।। १२ ।।
भाष्यम्
पुनर्युक्त्यादिनियमनार्थं युक्तायुक्तफलमाह– युक्त इति ।। युक्तः योगयुक्तः
।। १२ ।।
भावप्रदीपिका
न केवलं संन्यासयोगाभ्यां पुरुषार्थसिद्धेस्तौ कार्यौ । किन्त्वन्यथाऽनर्थाच्चेत्यभिप्रायेणोत्तरश्लोकमवतार्य व्याचष्टे– पुनरिति । युक्तिः योगः । आदिपदेन संन्यासः कर्मफलं त्यक्त्वा इत्युक्तः । युक्तायुक्त इति युक्तसंन्यासस्यायुक्तसंन्यासि-फलमित्यर्थः ।। १२ ।।
भावप्रकाशिका
इतोऽपि संन्यासयोगाववश्यानुष्ठेयौ नैव त्याज्यौ कथञ्चिदिति भावेनोत्तरश्लोकमवतारयति – पुनरिति । युक्तिः योगः । आदिशब्देन संन्यासः ‘कर्मफलं त्यक्त्वा’ इत्युक्तः । तत्सहिता युक्तिः कार्येति तयोर्नियमनम् इत्यर्थः ।। १२ ।।
प्रमेयदीपिका
तथाऽपि ‘युक्तः’ इत्येतत् पुनरुक्तमित्यत आह– पुनरिति ।। युक्तिः योगः । आदिपदेन सन्न्यासः । युक्तायुक्तः इत्युपलक्षणम् । ‘सन्न्यास्यसन्न्यासी’ इत्यपि ग्राह्यम् । प्राक् सन्न्यासयोगौ मिलितावेव फलं साधयतः, नान्यतरत्यागेनान्यतर इति नियमज्ञापनार्थं तयोः फलमुक्तम् । इदानीं तु तावेव मोक्षसाधनम्, न तु तदुभयपरित्यागे-नान्यदिति नियमज्ञापनाय योगसन्न्यासवतस्तदुभयाभाववतश्च मुक्तिसंसारविस्तारलक्षणं फल-माहेत्यर्थः ।युक्तशब्दस्य सहिताद्यर्थनिवारणाय अर्थमाह– युक्त इति ।। १२ ।।
भावरत्नकोशः
।। पुनरुक्तम् ‘संन्यासस्तु’ इत्यनेन । आदिपदेन संन्यास-ग्रहणानुसारेणाह–युक्तायुक्तेत्युपलक्षणमिति । अनेन कथं पुनरुक्तिपरिहारः ? इत्यत आह– प्रागिति ।। ‘संन्यासस्तु’ इत्यादावित्यर्थः । तयोः संन्यासयोगयोः, फलं ब्रह्माधिगतिरूपं पापालेपरूपं च । योगसंन्यासवतः योगश्च संन्यासश्च तदुभयवतः । ‘नैष्ठिकीम्’ इति शान्ति-शब्दितमुक्तिविशेषणात् ‘निबध्यते’ इति ‘नि’शब्दश्रवणाच्चाह– मुक्तिसंसारविस्तारलक्षणमिति । सहिताद्यर्थेति । आदिपदेन न्याय्यलभ्यादिग्र्रहः । तथा च अमरः ‘युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् । न्याय्यं च’ इति ।। १२ ।।
गीताक्षरार्थस्तु - प्राक् संन्यासयोगौ मिलितावेव फलं साधयतः, नान्यतरपरित्यागेनान्यतर इति नियमज्ञापनार्थं तयोः फलं ‘ब्रह्माधिगच्छति’ ‘कुर्वन्नपि न लिप्यते’ इत्यादिनोक्तम् । इदानीं तु ‘तावेव मोक्षसाधनम्, न तु तदुभयत्यागेनान्यत्’ इति नियमज्ञापनाय योगसंन्यासवतः तदुभया-भाववतश्च मुक्तिसंसारविस्तारलक्षणं फलमुच्यते– युक्त इति । कर्मफलं कर्मफलकामनां त्यक्त्वा युक्तः भगवदर्पणबुद्ध्या कर्मानुष्ठानरूपयोगयुक्तः, नैष्ठिकीम् ‘निष्ठोत्कर्षे व्यवस्थायां नाशेऽन्ते व्रतयाञ्चयोः । स्यान्निर्वहणनिष्पत्त्योः परमायां गतौ तथा’ इति कोशवचनात् निष्ठा उत्कर्षः परमा गतिर्वा, तस्यां भवां नैष्ठिकीं शान्तिम्, ‘सामर्थ्यबलदुर्गादिदेवतासु च कथ्यते । शक्तिः शान्तिस्तु कल्याणमारामः’ इति दर्पणकोशात्, ‘शान्तिर्मोक्षोऽथ निर्वाणम्’ इत्यभिधानाच्च, कल्याण-शब्दितमोक्षम् आप्नोति । अयुक्तः योगहीनस्तु कामकारेण ‘कामकारेण चैके’ इति सूत्रतत्त्वप्रदीपिकायाम् ‘कामितकरणं कामकारः’ इति व्याख्यानात्, कामितकरणेन कामप्रेरित-तयेति यावत् । फले क्षुद्रफले स्वर्गादौ सक्तो निबध्यत इत्यत्र पूर्वार्धे योगसंन्यासवतो मुक्ति-लक्षणफलोक्तिः । उत्तरार्धे तदुभयाभाववतः संसारविस्ताररूपं फलमभिहितमिति तावेव मोक्षसाधनम्, न तु तदुभयत्यागेनान्यदिति ।। १२ ।।
भावदीपिका
नन्वादिपदेन संन्यासस्य गृहीतत्वात् तदनुसारेण ‘संन्यासी’ ‘असंन्यासी’ इति च वक्तव्यम् । अतो न्यूनता? इत्यत आह– युक्तायुक्तेत्युपलक्षणमिति ।। गीतायां ‘कर्मफलं त्यक्त्वा’ इत्यनेन संन्यासिनः, ‘कामकारेण फले सक्त’ इत्यसंन्यासि-नश्चोक्तत्वादित्यवधेयम् । ननु ‘योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति’ इति फलमप्युक्तमेवेति चेत्, तत्राह– प्रागिति ।। नान्यतरेति ।। तथा चायोगव्यवच्छेदेन नियमः पूर्वं समर्थित इति भावः ।। तावेवेत्यादि ।। तथा चात्र अन्यत्र योगव्यवच्छेदेन नियमः समर्थ्यत इति भावः ।। १२ ।।
भावप्रकाशः
।। पुनरुक्तमिति ।। सन्न्यासस्त्वित्यादिनेति शेषः । कथमनेन पुनरुक्तिनिरास इत्यत आह– प्रागिति ।। सन्न्यासस्त्वित्यादावित्यर्थः । सन्न्यासस्त्वित्यादिवाक्यानां सन्न्यासयोगयोः मध्येऽन्यतरत्यागेनान्यतरस्य फलसाधकत्वव्यवच्छेदे तात्पर्यम् । युक्त इत्यस्य तु तदुभयातिरिक्तसाधनव्यवच्छेदे तात्पर्यमिति न पुनरुक्तिरिति भावः । सहिताद्यर्थेति ।। आदिपदात् न्याय्यसङ्ग्रहः । युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् । न्याय्यं चेत्यमरोक्तेरिति भावः ।। १२ ।।