ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ।। ३ ।। संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ।। ४ ।।

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।

सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ।। ३ ।।

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।

ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ।। ४ ।।

भाष्यम्

भवन्तु त्वदुपासका एवोत्तमाः । इतरेषां तु किं फलमित्यत आह– ये त्वित्यादिना ।। अनिर्देश्यत्वं चोक्तं भागवते मायायाः ‘अप्रतर्क्याद-निर्देश्यादिति केष्वपि निश्चयः’ (भाग.१.१७.१९) इति । ईश्वरस्तु दैवशब्दे-नोक्तः ‘दैवमन्ये परे’ (४.२५) इत्यत्र । उक्तं च सामवेदे काषायणश्रुतौ ‘नासदासीन्नो सदासीत्तदानीम्’ इति । ‘न महाभूतं नोपभूतं तदाऽसीत्’ इत्यारभ्य ‘तम आसीत्तमसा गू•मग्रे’ इति । ‘तमो ह्यव्यक्तमजरम-निर्देश्यमेषा ह्येव प्रकृतिः’ इति ।

भावप्रदीपिका

अनिर्देश्यत्वं परब्रह्मधर्मः, कथमव्यक्तस्येत्यत आह– अनिर्देश्यत्वं चेति । अत्रेश्वरः अनिर्देश्यपदोक्तः किं न स्यात् इत्यत आह– ईश्वरस्त्वति । श्रुतावपि मायाया अनिर्देश्यत्वं सिद्धमित्याह– उक्तं चेति ।

प्रमेयदीपिका

एवं तर्हि ‘मय्यावेश्य’(१२.२) इत्यनेनैव मदुपासका एव उत्तमा इति प्रश्नस्योत्तरं जातम् । किमुत्तरेण वाक्येन? इत्यत आह– भवन्तु इति ।। आक्षेपगर्भोऽयमभ्युपगमः । न युक्तं त्वदुपासकानामेवोत्तमत्वमिति भावः । तदुपपादनाय पृच्छति– इतरेषामिति ।। अव्यक्तोपासकानां किं फलं मोक्षोऽस्ति वा न वा । नचेदुदाहृतवाक्यविरोधः । आद्ये कथं त्वदुपासकानामुत्तमत्वम्? फलसाम्यादिति भावः ।।

नन्वेषां विशेषणानां ब्रह्मणोऽन्यत्रासम्भवात् कथम् ‘इतरेषां किं फलम्?’ इत्यस्योत्तरत्वेन एतदवतारः इत्यतोऽक्षराव्यक्तत्वयोः मायायामुपपादितत्वात् तदन्यानि तत्रोपपादयन् अनिर्देश्यत्वं तावदुपपादयति– अनिर्देश्यत्वं चेति ।। शब्दागोचरत्वम् । ‘धर्मस्य मम पादभङ्गः’ इत्यन्वयः ।। नन्वत्रापीश्वरोऽस्त्वनिर्देश्य इत्यत आह– ईश्वरस्त्विति ।। दैवं पादभङ्गकारणमाहुः । तथा च पुनरुक्तिः स्यादिति भावः । नच दैवशब्दोऽदृष्टवाची । तस्य ‘अपरे कर्म’ इति पृथगुक्तत्वात् ।।

मायाया अनिर्देश्यत्वे स्पष्टं च प्रमाणमाह– उक्तं चेति ।। महाभूतमाकाशवायु-रूपम् । उपभूतं तेजोऽब्भूलक्षणम् । तदा प्रलये । अजरमित्यादिकं प्रलये अवस्था-नस्योपपादकम् । नच ‘एतद् ब्रह्म’ इति प्रदर्शनाय ‘एषा ह्येव प्रकृतिः’ इत्युदाहृतम् ।।

भावबोधः

।। धर्मस्य मम पादभङ्ग इत्यन्वय इति ।।

केचिद्वैकल्पवचसः आहुरात्मानमात्मनः ।

 दैवमन्ये परे कर्म स्वभावमिति चापरे’

इत्यत्र यथाऽऽत्मनः पादभङ्गे कारणमिति शेषः पूरणीयः, तथाऽत्रापि ‘अप्रतर्क्याद-निर्देश्याद्धर्मस्य मम पादभङ्ग इति केष्वपि निश्चयः’ इति शेषपूरणेन योजनीयमित्यभि-प्रेत्यैवमुक्तमिति ज्ञातव्यम् ।

भावदीपः

।। उदाहृतवाक्येति ।।‘श्रियं वसाना’ इत्यादिश्रुतीत्यर्थः ।। ‘धर्मस्य मम पादभङ्गः’ इत्यन्वय इति ।। प्रथमस्कन्धे वृषभरूपधर्मस्य परीक्षितश्च संवादरूपे सप्तदशेऽध्याये ‘कोऽवृश्चत्तव पादांस्त्रीन् सौरभेय चतुष्पदः’ इति परीक्षित्कृतप्रश्नं प्रति एकपादस्थितवृषरूपो धर्मो उत्तरमुक्तवान् । ‘दैवमन्ये परे कर्म स्वभावमपरे प्रभुम् । अप्रतर्क्यात्’ इत्यादिना । तत्र पञ्चम्यन्तस्य साकाङ्क्षत्वात् धर्मस्य मम पादभङ्ग इति शेषोक्त्या श्लोकेऽन्वयो बोध्य इत्यर्थः ।। ‘दैवम्’ इत्यादिवाक्येऽप्याकाङ्क्षां शेषोक्त्या पूरयति पादभङ्गे-त्यादि ।। सच्छब्दार्र्थस्यैवाकाशवायुरूपस्यैव श्रुतावुक्तेरसच्छब्दार्थं स्वयमाह तेजोेऽब्भूलक्षण-मिति ।। असम्भवादिति।। अनुत्पद्यमानादित्यर्थः ।।

भावरत्नकोशः

।। एवम् उक्तरीत्यैव यदि व्याख्यानं ‘त्वदुपासका एवोत्तमाः’ इति पक्षस्याभ्युपगमे, ‘अव्यक्तोपासकानां किं फलम्’ इति फलप्रश्नोऽनुपपन्नः ? प्रश्नस्योत्तरि-तत्वात्, इत्यत आह– आक्षेपेति ।। आक्षेपभङ्ग्याऽयम् अभ्युपगम इति नाभ्युपगमाभिप्रायमिदं भाष्यम् । किन्त्वाक्षेपतात्पर्यकमिति भावेन तमेवाक्षेपं दर्शयति– न युक्तमिति ।। तदुप-पादनाय भगवदुपासकानाम् उत्तमत्वाभावोपपादनाय । उदाहृतश्रुतीति ।। ‘श्रियं वसाना अमृतत्वमायन्’ इत्युदाहृतश्रुतिविरोध इत्यर्थः । एषां ‘ये त्वक्षरमनिर्देश्यम्’ इति श्लोकोक्तानामष्टानां विशेषणानाम्, इतरेषां भगवदुपासकेतरेषाम् अव्यक्तोपासकानाम््, मायायां प्रकृतिशब्दितश्रीदेव्याम्, अक्षरं च तत् ‘अक्षरात्परतः परः’ इत्यादिना, ‘अव्यक्तं प्रकृतिः’, ‘महतः परम्’ इत्यादिना च, भाष्ये एवोपपादितत्वादित्यर्थः । तदन्यानि ‘अनिर्देश्यम्’ ‘सर्वत्रगम्’ इत्यादीनि विशेषणानि । तत्र मायायाम् । नन्वनिर्देश्यत्वं निर्देशायोग्यत्वम्, निर्देश-शब्दश्च ‘बालोऽङ्गुलिनिर्देशेन मातापितरावावेदयति’ इत्यादौ प्रदर्शनेऽपि दृष्टः । अप्रदर्शनीयत्वं चातीन्द्रियसाधारणमिति कथमिदं मायाविशेषणं स्यात् इत्यतोऽत्र विवक्षितमनिर्देश्यत्वं व्याख्याति– शब्दागोचरत्वमिति ।। वेदाद्यगोचरापरिमितस्वरूपमित्यर्थः । यद्वा अनिर्देश्यत्वं नाम मनसोऽप्यगोचरत्वं चेत् ‘पर्युपासते’ इति व्याहतम् । मनसाऽवलोकनरूपत्वादु-पासनस्येत्यत आह– शब्दागोचरत्वमिति ।। शब्दगोचरमहिम्नोऽपि भगवदुपास्यत्वमिव मायाया अप्युपास्यत्वं नायुक्तमिति भावः ।

भागवतवचने पञ्चम्यन्तं साकाङ्क्षम् अनन्वितम्् । अतस्तदन्वयं दर्शयति– धर्मस्य ममेति ।।

कोऽवृश्चत्तव पादांस्त्रीन् सौरभेय चतुष्पद’ इति ।

तपः शौचं दया सत्यमिति पादाः कृते कृताः ।

 अधर्माङ्गैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ।।’

इत्यादि पूर्वोत्तरग्रन्थपर्यालोचनायां लभ्यस्य धर्मस्य मम पादभङ्ग इत्यस्य श्रुतप्रायत्वाद् ‘अध्याहृतेनान्वयः’ इत्यनुक्त्वा ‘इत्यन्वयः’ इति साम्मुग्ध्येनोक्तम् । केचित्तु ‘केचिद्वैकल्प्यवचस आहुरात्मानमात्मनः’ इत्यतोऽनुवृत्तस्य ‘आत्मनः’ इत्यस्यार्थः ‘धर्मस्य मम’ इति, ‘पादभङ्गः’ इत्येव त्वध्याहार इत्याहुः ।

शूद्ररूपकलिपीडितं छिन्नत्रिपादं वृषभरूपं वृषभशब्दवाच्यं धर्मं दृष्ट्वा, ‘हे वृषभ कस्मात्तव पादभङ्गो जातः’ इति परीक्षिता प्रश्ने कृते, तत्रोत्तररूपं धर्मवाक्यम्–

न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ ।

 पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ।।

 केचिद्वैकल्पवचस आहुरात्मानमात्मनः ।

 दैवमन्ये परे कर्म स्वभावमपरे प्रभुम् ।।

 अप्रतर्क्यादनिर्देश्याद् इति केष्वपि निश्चयः ।

 अत्रानुरूपं राजर्षे विमृश स्वमनीषया ।।’ इति ।

हे पुरुषर्षभ  परीक्षिद्राज  यतः पुरुषाद् जीवानां क्लेशबीजानि स्युः, तं पुरुषम् ‘अयमेव’ इति न जानीमः न निर्धारयामः । कुतः ? यतो वाक्यभेदविमोहिताः । के ते वाक्यभेदाः तव मोहकाः इत्यत्रोच्यते– केचिदित्यादि ।। वैकल्पं विकल्पसमूहोपेतं वचो येषां ते तथोक्ताः । सन्देहापादकवचनाः केचिद् आत्मनः जीवस्य आत्मानं स्वात्मानं क्लेशबीजमाहुः । अन्ये दैवम् ईश्वरम् आत्मनः जीवस्य क्लेशबीजं प्रकरणात् पादभङ्गादिक्लेशकारणमाहुः । परे कर्म अदृष्टं तथाऽऽहुः । अपरे प्रभुम् अप्रतिहतसामर्थ्यं स्वशब्दार्थभगवदुद्भवं कालं तद्बीजमाहुः । अवेद्यलक्षणत्वाद् अप्रतर्क्याद् अनिर्देश्याद् शब्दागोचरात्् प्रधानादात्मनः क्लेशः, प्रकृतापेक्षया धर्मस्य मम पादभङ्गः श्रीतत्वहेतुक इति केष्वपि पुरुषेषु निश्चयः । अत्र एतेषूक्तेषु क्लेशस्थानेष्वनुरूपं वेदशास्त्रोक्ततयोचितं त्वमेव विमृश स्वमनीषया इति भागवते माया-शब्दितश्रीदेव्याम् अप्रतर्क्यत्वमुक्तमिति न ब्रह्मणोऽन्यत्राप्रतर्क्यत्वविशेषणासम्भव इति भावः । भागवतटीकायां तु ‘अप्रतर्क्यादनिर्वाच्यात्’ इत्यादि पठित्वा, अनन्तत्वात् सर्वात्मना अप्रतर्क्यात् तर्काविषयाद् अनिर्वाच्यात् प्रधानात् क्लेशपरम्परा जीवानां भवतीति व्याख्यातम् ।

अत्रापि ‘अप्रतर्क्यादनिर्देश्यात्’ इति भागवतवाक्येऽपि । ‘दैवमन्ये’ इत्यत्र ‘आहुः’ इत्यनुवर्त्य तस्य प्रकरणलभ्यपदेनान्वय इति भावेनोक्तम्– देवं पादभङ्गकारणमाहुरिति ।। ‘दैवमन्य इत्यत्र’ इत्येव भाषणीये ‘यत्परे’ इत्यप्यभाषत, तत् शङ्कान्तरपरिहारायेति भावेनाह– न चेति ।। पूर्वप्रमाणे विशेष्यस्य संयोज्यत्वादाह– स्पष्टं चेति ।। असत्सच्छब्दव्याख्यानम्– ‘महाभूतम् उपभूतम्’ इति ।। तदिदं पदद्वयमपि ‘यदन्यद्वायोश्चान्तिरक्षाच्चैतत्सद्, वायुरन्तरिक्षं चासत्’ इति भगवत्पादैः अन्यत्रोदाहृतां श्रुतिं मनसि निधाय व्याचष्टे– महाभूतमित्यादि ।। अन्नं पृथिवी । तथा च तत्वोद्योतटीका ‘असत् वाय्वन्तरिक्षाख्यम् । सच्च पृथिव्यप्तेजोरूपम्’ इति । ‘अव्यक्तम्’ इत्यस्यादित्वेऽपि ‘अजरमित्यादिकम्’ इत्युक्तिः ‘क्षरणशून्यत्वं प्रलये अवस्थानस्य स्फुटमुपपादकम्, इतरद् अर्थात्’ इत्यावेदयितुम् ।

एतत् ‘अव्यक्तमक्षरमनिर्देश्यम्’ इति श्रुत्युक्तम् अनिर्देश्यम् । श्रुतौ ‘एषा’ इति स्त्रीलिङ्गं प्रकृतिपदापेक्षया । ‘तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षा’ इति यथा । भाष्ये ‘प्रकृतिरिति’ इत्यस्य ‘उक्तं च’ इति पूर्वेणान्वयः । तेन ‘आरभ्य’ इति ल्यबुपपद्यतेे ।

भावदीपिका

।। प्रश्नस्य ‘इत्युत्तरं जातम्’ इत्यन्वयः । पूर्वोक्तोपन्यासस्य साक्षेपगर्भत्वमेव दर्शयति– न युक्तमिति ।। उदाहृतश्रुतीति ।। ‘श्रियं वसाना अमृत्वमायन्’ इत्युदाहृतश्रुतीत्यर्थः । फलेति ।। मोक्षरूपफलेत्यर्थः । एषाम् अक्षरत्वानिर्देश्यत्वादीनाम् । उपपादितत्वादिति ।। ‘अव्यक्तं प्रकृतिः’, ‘अक्षरं च तत्’ इत्यादिनेत्यर्थः । अप्रतर्क्या-दिति ।। प्रथमस्कन्धे पादत्रयेणावस्थितगोरूपधर्मस्य वचनम् । अप्रतर्क्यात् अनुमानागोचरात् । पञ्चम्या अन्वयं दर्शयति– धर्मस्य ममेति ।। तथा च ‘अप्रतर्क्याद् अनिदर्ेेश्याद् धर्मस्य मम पादभङ्ग इति केष्वपि निश्चयः’ इति शेषपूरणेनान्वयो द्रष्टव्य इत्यर्थः । ईश्वरस्त्वितीति ।।

केचिद्वैकल्प्यवचस आहुरात्मानमात्मना ।

दैवमन्ये परे कर्म स्वभावमिति चापरे ।।

इत्यत्र वाक्ये दैवशब्देनेश्वर उक्त इत्यर्थः । ‘दैवमाहुः’ इत्युक्ते ‘किमाहुः’ इत्याशङ्कायाम् अध्याहार्यं दर्शयति– दैवं पादभङ्गकारणमाहुरिति ।। तथा चेति ।। अनिर्देश्यपदेना-पीश्वरोक्तावित्यर्थः । एतदिति ।। अव्यक्ताजरादिशब्दवाच्यमित्यर्थः ।।

भावप्रकाशः

।। उदाहृतेति ।। श्रियं वसाना इत्याद्युदाहृतेत्यर्थः । धर्मस्य ममेति ।। शूद्ररूपकलिपीडितं च्छिन्नत्रिपादं वृषभरूपं धर्मं दृष्ट्वा परीक्षिता कस्मात् तव पादभङ्गो जात इति पृष्टे वृषभरूपधर्मवाक्यमिदम् । तत्र ‘केचिद्वैकल्पवचस आहुरात्मान-मात्मनः’ इत्यतोऽनुवृत्तस्यात्मन इत्यस्यार्थः– धर्मस्य ममेति ।। ‘पादभङ्ग इत्यध्याहारे’ इति बोध्यम् । एवमग्रेऽपि बोध्यम् । अपरे कर्मेति ।। तथा चैवं पाठः । ‘देवमन्ये परे कर्म स्वभावमिति चापरे । अप्रतर्क्यात्’ इति ।।

Load More