स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ।। ३ ।।

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ।। ३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु - स एव एवमदर्शनं गतः पुरातनः सनातनः अयं योगः । भक्तोेऽसि मे सखा चासि इति ते तुभ्यं प्रोक्तः व्याख्यातः । एतत् प्रवचनं रहस्यमुत्तमं चेति

।। ३ ।।