आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ।। २१ ।।

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ।। २१ ।।

भाष्यम्

 विष्णुः सर्वव्यापित्वप्रवेशित्वादेः । ‘विष्ऌ व्याप्तौ’ ,‘विश प्रवेशने’ इति च पठन्ति ।

गतिश्च सर्वभूतानां प्रजानां चापि भारत ।

 व्याप्तौ मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ।।

 अधिभूतनिविष्टश्च तदिच्छुश्चास्मि भारत ।

 क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः’ इति मोक्षधर्मे ।। २१ ।।

भावप्रदीपिका प्रत्यक्षविभूतिवाचिविष्ण्वादिशब्दान् सप्रमाणकं व्याचष्टे– विष्णुरिति ।। मे व्याप्तौ रोदसी तिष्ठतः मयेति ।।

प्रमेयदीपिका

द्विविधं विभूतिरूपम् । प्रत्यक्षं तिरोहितं च । अत्र विष्ण्वादिकं प्रत्यक्षमिति ज्ञापयितुं तच्छब्दान् व्याकुर्वन् ‘आदित्यानामहं विष्णुः’ इति विष्णुशब्दं तावत् सप्रमाणकं व्याकरोति– विष्णुरिति ।। ‘सर्व’इति योग्यतया सम्बद्ध्यते । आदिपदेन वक्ष्यमाणार्थसङ्ग्रहः । चशब्दो धात्वन्तरसमुच्चयार्थः ।। गच्छन्त्यनेनेति गतिः । भूतानां पृथिव्यादीनां प्रजानां ब्रह्मादीनाम्। ‘वी गतिव्याप्तिप्रजननकान्त्यशनखादनेषु’ इत्यतो गत्यर्थात् क्स्नुप्रत्ययः । धातोर्ह्रस्वश्च ।।

मे मया । रोदसी द्यावापृथिव्यौ । व्याप्तौ व्याप्ते । ‘विष्ऌ व्याप्तौ’ इत्यतः क्नुः । कान्तिः कमनीयता । ‘वश कान्तौ’ इत्यतो नुः । धातोरकारस्येकारः । शकारस्य षकारः । ‘वी गति’ इत्यतो वा कान्तिकर्मणः क्स्नुः ।।

अधिभूतं प्राग्व्याख्यातम् । ‘विश प्रवेशने’ इति ।। अतः क्नुः, षत्वं च । तदिच्छुः अधिभूतस्य जन्मादीच्छुः । कान्तिः इच्छा । अतो वयतेर्वष्टेश्च पूर्ववद्रूपम् । क्रमणात् त्रिविक्रमरूपेण पादविक्षेपात् । पूर्ववद् वयतेर्गत्यर्थात् कर्तरि प्रत्ययः ।। २१ ।।

भावबोधः

।। सर्वेति योग्यतयेति ।। व्याप्तिप्रवेशयोरेव धात्यर्थत्वं न तु सर्वशब्दार्थस्येत्यर्थः ।। क्नुरिति ।। कित्वाल्लघूपधगुणाभावे रषाभ्यामिति णत्वे विष्णुरिति रूपमित्यर्थः । क्नुरिति धातोर्र्ह्रस्वे कित्वाद्गुणाभावः इति । इण्कोरादेशप्रत्यययोरिति सस्य षत्वं रषाभ्यामिति णत्वं चेति भावः । प्राग्व्याख्यातमिति ।। ‘क्षरो भावः’ इत्यादिनेत्यर्थः । क्नुरिति ।। कित्वाद्गुणाभाव इति भावः । कान्तिरिच्छेति ।। कमेरिच्छार्थादित्यर्थः । कर्तरि प्रत्यय इति ।। कर्तरीत्यनुक्तौ गच्छन्त्यनेनेति व्युत्पत्तेर्दर्शितत्वेन पूर्वं करणप्रत्ययस्योक्तत्वात् पूर्ववदित्युक्त्या अत्रापि करणे प्रत्यय इति स्यात् । तन्निरासार्थमेवमुक्तम् । ततश्च गत्यर्था-द्वीत्यतः ष्णुप्रत्ययो धातोर्र्ह्रस्वश्चेत्युक्तं भवति ।। २१ ।।

भावदीपः

।। वक्ष्यमाणार्थेति ।। भूताधिगमनहेतुत्वं कमनीयत्वं गमयित्वा ‘अधिभूतजन्म’ इत्युक्त्या पादक्रमणरूपार्थसङ्ग्रह इत्यर्थः।। धात्वन्तरेति ।। ‘वा’धातुवत् ‘वश’ धातूक्तिरित्यर्थः । क्स्नुप्र्रत्यय इति ।। कित्वात् ‘सार्वधातुकार्धधातुकयोः’ इति गुणाभावे ‘इण् कोः’ इति षत्वे ‘रषाभ्यां नो णः’ इति णत्वे विष्णुरिति रूपमिति भावः ।। क्नुः इति ।। कित्वात् ‘पुगन्तलघूपदस्य च’ इति गुणाभावे,णत्वे च रूपम् ।। षकार इति ।। तथाच ‘रषाभ्यां नो णः’ इति णत्वे रूपमिति भावः। निरुक्तिबलात् प्राप्तेकारस्य ‘पुगन्त’ इति गुणाभावो विधिबलादेवेत्यर्थः ।। कान्तीति ।। इच्छापर्यायकान्त्यर्थकादित्यर्थः । प्रागिति ।। ‘भूतानि शरीरजीवानधिकृत्य तदुपकारित्वेन स्थितम् । उत्पत्तिविनाशिवस्तुु तदधिभूतम्’ इत्यष्टमोक्तेरिति भावः । वयतेरिति ।। वाधातोरित्यर्थः । वष्टेरिति ।। वशधातोरित्यर्थः । कान्त्यर्थादिति उभयशेषो ज्ञेयः । पूर्ववदिति ।। वयतेः तसुः, वष्टेः क्नुरिति भावः ।। प्रत्यय इति ।। क्स्नुप्रत्यय इत्यर्थः ।। २१ ।।

वाक्यार्थप्रदीपः

।। धात्वन्तरसमुच्चयार्थ इति ।। ‘वश कान्तौ इत्यादि धात्वन्तरसमुच्चयार्थ इत्यर्थः ।। क्नुरिति ।।तथाच क्नुप्रत्ये धातोः ह्रस्वत्वे कस्य इत्सञ्ज्ञायां तस्य लोपे कित्वादेव ‘सार्वधातुकार्धधातुकयोः’ इति गुणाभावे ‘आदेशप्रत्यययोः’ इति सस्य षत्वेे ‘रषाभ्यामिति नस्य णत्वे विष्णुप्रातिपदिकसिद्धिरिति भावः ।। क्नुरिति ।। तथाच विष् इत्यस्मात् क्नुप्रत्यये कित्वात् ‘पुगन्तलघूपदस्य च’ इति गुणनिषेधेे, उक्तरीत्या नस्य णत्वे च विष्णुरिति रूपसिद्धिरित्यर्थः ।। नरिति ।। तथाच वष्टेर्नुप्रत्यये निर्वचनत्वात् धात्वकारस्य इकारे शकारस्य षकारे ‘रषाभ्यां इति नकारस्य णकारे विवक्षितरूपसिद्धिरिति द्रष्टव्यम् ।। क्स्नुरिति ।। निर्वचनत्वाद् धातोः ह्रस्वत्वे कित्वात् गुणाभावे आदेशप्रत्यययोः इति सस्य षत्वे णत्वे च विवक्षितरूपसिद्धिरिति ज्ञेयम् ।। क्नुरिति ।। कित्वाद् गुणाभाव इति भावः ।। पूर्ववदिति ।। गत्यर्थाद् वयतेः क्स्नुप्रत्यये धातोः ह्रस्वत्वे षत्वादौ च विवक्षितरूपसिद्धिः । ‘वष्टेश्च नुप्रत्यये धात्वकारस्य इकारे शकारस्य षकारे च निर्वचनत्वेन सम्पत्तेः रूपसिद्धिरिति पूर्ववदित्यर्थः ।।

पूर्ववदिति ।। गच्छन्त्यनेनेति व्युत्पत्तेः दर्शितत्वेन पूर्वं करणे प्रत्ययस्य उक्तत्वात् पूर्ववदित्युक्त्या अत्रापि करणे प्रत्ययभ्रान्तिः स्यात् । तन्निरासाय कर्तरि इत्युक्तम् । तथाच वयतेर्गत्यथ•त् क्स्नुप्रत्ययः, धातोः ह्रस्वश्चेत्युक्तं भवति ।।

भावरत्नकोशः

द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम् ।

 कपिलव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम् ।।

 भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम् ।

 स्वजात्याधिक्यदं तेषां तत्तिरोहितवैभवम् ।।’

इति अन्यत्रोक्तं हृदि कृत्वा उत्तरभाष्यमवतारयति– द्विविधमिति ।। ‘तिरोहितं च’ इत्यत्र ‘इतिशब्दः’ अध्याहार्यः । विष्ण्वादिकं विष्णु,कपिल,व्यास,राम,वासुदेवनामवाच्यम् । ज्योतिषां ‘रविरंशुमान्’ इत्यादिवाक्योक्तं तु तिरोहितविभूूतिरूपमिति योज्यम् । भाष्ये ‘विष्लृ व्याप्तौ’ इत्यत्र ‘दाभाभ्यां नुः’ इति नुप्रत्ययेऽनुवर्तमाने ‘विषेः किच्च’ इति तस्य कित्त्वे, लघूपधलक्षणस्य गुणस्य ‘क्क्ङिति च’ इति निषेधे, ‘रषाभ्यां नो णः’ इति वा, ‘ष्टुना ष्टुः’ इति वा णत्वे च, ‘वेवेष्टि सर्वम्’ इति ‘विष्णुः’ इति रूपम् । ‘विश प्रवेशने’ इत्यत्र च ‘कृहनिभ्यां क्नुः’ इति विधीयमानः क्नुप्रत्ययो बाहुलकाद् विशेरपि भवति । पृषोदरादिभावेन शकारस्य षकारे पूर्ववत् णत्वे च ‘विष्णुः’ इति भवति । व्याप्त्यादेरेव धात्वर्थत्वादाह– सर्वेति योग्यतयेति ।। व्याप्त्यादौ अवधेरनुक्तेः सर्वव्यापित्वादिकमेवौत्सर्गिकं लभ्यत इति भावः । वक्ष्यमाणेति ।। ‘गतिश्च सर्वभूतानाम्’ इति वक्ष्यमाणप्रमाणार्थस्य सर्वभूतप्रजागतित्वादेः सङ्ग्रह इत्यर्थः । ‘इति च’ इत्यत्र भाष्ये चशब्दो ‘वी गतौ’, ‘वश कान्तौ’ इत्यादिवक्ष्यमाण-धात्वन्तरसमुच्चयार्थ इत्यर्थः ।

गतिश्च सर्वभूतानाम्’ इति प्रमाणे सर्वभूतादिगतित्वं विष्णुशब्दार्थ इत्युच्यते । तदयुक्तमिव । विष्णुशब्दो हि कर्त्रर्थक्नुप्रत्ययान्तः । नुप्रत्ययश्च कृत्त्वात्् ‘कर्तरि कृत्’ इति कर्तर्यनुशिष्टः । वक्ष्यति च ‘कर्तरि प्रत्ययः’ इति । गतिशब्दस्तु क्तिन्नन्तः, न कर्तरि निष्पादयितुं शक्यः । क्तिन्प्रकरणे ‘अकर्तरि’ इत्युक्तेरनुवृत्तेः । अत एव ‘गम्यते’ इति ‘गतिः’ इति कर्मणि निष्पाद्यः । कर्तृ-प्रत्ययान्तविष्णुशब्देन ऐकार्थ्यायोगात्, इत्यत आह– गच्छन्त्यनेनेति ।। भूतानि प्रजाश्च । नायं गतिशब्दः कर्तरि कर्मणि वा निष्पन्नः, येनोक्तदोषः स्यात् । किन्तु करणे क्तिन्प्रत्यये ‘अनुदात्तोपदेशवनति,तनोत्यादीनाम्’ इति मकारलोपे च सति । तथा च कर्तुः करणत्वविवक्षायां णिजन्तर्भावे च फलतः ‘सर्वभूतगतिः’ इति ‘विष्णुः’ इति च अनर्थान्तरमिति भावः । भूतशब्देन ‘क्षरः सर्वाणि भूतानि’ इत्यादाविव जीवग्रहणे ‘प्रजानाम्’ इति पुनरुक्तिः ? इत्यतो विवक्षित-भूतशब्दार्थमाह– पृथिव्यादीनामिति ।। सर्वभूतादिगतित्वं विष्णुशब्दार्थो यथा स्यात् तथा तन्निष्पादयति– वी गतीति ।। क्स्नुप्रत्ययः ‘कर्तर्यौणादिको ग्राह्यः’ इति शेषः ।

यत्तु ‘ग्ला,जि, स्थश्च ग्स्नुः’ इत्यत्र चशब्दस्य ‘भुवश्च’ इति पूर्वसूत्रोपात्तभूधातुसमुच्चाय-कत्ववद्् अनुपात्तवीधातुसमुच्चायकत्वे पाणिनीय एव क्स्नुप्रत्यय इति व्याख्यानं तद् वृत्ति-भाष्यादौ क्वापि तथाऽनुक्तेर्न वैयाकरणानुमतम् । एवं सति ‘वीष्णुः’ इति स्यात् ? इत्यत उक्तम्– धातोर्ह्रस्व इति ।। ‘पृषोदरादीनि यथोपदिष्टम्’ इति धात्वीकारस्य विकार इकार इत्यर्थः । प्रत्ययस्य कित्त्वेन ‘सार्वधातुकार्धधातुकयोः’ इति प्राप्तगुणस्य ‘क्क्ङिति च’ इति निषेधे, ‘इण्कोः’ इति वर्तमाने ‘आदेशप्रत्यययोः’ इति षत्वे, ‘रषाभ्यां नो णः’ इति णत्वे च ‘विष्णुः’ इति रूपमिति भावः ।

ननु रोदःशब्दो नपुंसकलिङ्गः । तत्कथं तस्य ‘व्याप्तौ’ इति पुंलिङ्गेन सामानाधिकरण्यम् ? इत्यत उक्तम्– व्याप्तौ व्याप्ते इति ।। ‘सुप्तिङुपग्रहलिङ्गनराणाम्’ इति छान्दसो लिङ्गव्यत्यय इति भावः । रोदोव्याप्तिः विष्णुशब्दार्थ इत्येतत् व्युत्पादयति– ‘विष्लृ व्याप्तावित्यतः क्नुः’ इति ।। ‘दाभाभ्यां नुः’ इति प्राप्तो नुप्रत्यय ‘विषेः किच्च’ इति किदनुशिष्ट इति तस्यायं निष्कृष्यानुवादः, न पुनः ‘कृहनिभ्यां क्नुः’ इत्यस्य, विषेस्तत्रानुपादानात्् । ‘विषेः किच्च’ इत्याहृत्य नुप्रत्ययस्य कित्त्वानुशासनाच्च । कित्त्वेन च लघूपधगुणाभावे ‘विष्णुः’ इति रूपम््् । रोदसोश्च योग्यतया सम्बन्ध इति भावः । ‘अभ्यधिका कान्तिश्च मम यतः अतो अहं विष्णु-रित्यभिसञ्ज्ञितः’ इत्यत्र कान्तिशब्देनेच्छाग्रहणे ‘तदिच्छु’ इत्यत्रेच्छाया वक्ष्यमाणत्वात् पुनरुक्तिः इत्यतः कान्तिशब्दस्य विवक्षितार्थमाह– कमनीयतेति ।। न कामनेत्यर्थः । कान्तिशब्दार्थकमनीयतायाः विष्णुशब्दार्थत्वं दर्शयितुं व्युत्पादयति– वश कान्तावित्यतो नुरिति ।। दाभाभ्यां विधीयमानोऽपि बाहुलकाद् वशेरपि भवति । इकारः षकार इति द्वावपि विकारौ च निरुक्तत्वादेवेति भावः ।

अनेककल्पनानुशयादाह– वी गतीत्यतो वेति ।। ‘वी गति, प्रजन, कान्ति, असन, खादनेषु’ इति धातोः कान्तिलक्षणक्रियाभिधायिनः क्स्नुप्रत्ययः, धातोर्ह्रस्वता च पूर्ववदेवेति भावः । यत्तु विष्णुशब्दो न ‘वश कान्तौ’ इत्यस्य रूपम् । तथात्वे तत्र ‘कान्तिरिच्छा’ इति वैयाकरणैर्व्याख्यातत्वेन तद्ग्रहणप्रसङ्गात् । तथात्वे चोक्तपुनरुक्तिस्तदवस्थैव ? इत्यत आह– वी गतीत्यतो वेति ।। ‘वश कान्तौ’ इत्यत्र ‘कान्तिरिच्छा’ इति व्याख्यानेऽपि ‘वी गति, प्रजन, कान्ति...’ इत्यत्र तथा व्याख्यानाभावेन कमनीयतार्थोपपत्तेः, सापि विष्णु, शब्दप्रवृत्ति निमित्तमिति भाव इति व्याख्यानम् । तत्तु ‘कान्तिरिच्छा’ इति भाविटीकाविरोधात् मन्दम् ।

प्राग्व्याख्यातमिति ।। ‘अधिभूतं क्षरो भावः’ इत्यष्टमाध्याये ‘भूतानि सशरीरान् जीवानधिकृत्य तदुपकारित्वेन स्थितम् उत्पत्तिनाशवद् वस्तु तदधिभूतम्’ इति व्याख्यात-मित्यर्थः । क्नुः कित्त्वाद्गुणाभावः, षत्वं धातुशकारस्य । ‘तदिच्छुः’ इत्यत्र तच्छब्देनाधिभूत-जन्मादिग्रहणे तदिच्छाऽपि विष्णुशब्दप्रवृत्तिनिमित्तमिति भावेन तदर्थं वदंस्तत्र विष्णुरूपं निष्पादयितुं ‘वी गतिप्रजननकान्ति’ इत्यत्रापि ‘वश कान्तौ’ इत्यत्रेव कान्तिरिच्छैव ग्राह्ये-त्याह– तदिच्छुरधिभूतस्य जन्मादीच्छुः, कान्तिरिच्छेति ।। अतो वयतेः इच्छार्थकवीधातोः लुग्विकरणस्यापि अस्य अन्यविकरणेन निर्देशः तस्यौत्सर्गिकत्वेन सुखोच्चारणाशयेन, गणकार्यस्यानित्यत्वाभिप्रायेण वा । तेन ‘वेतेः इति वक्तव्यम्’ इति चोद्यस्यानवकाशः । वष्टेः ‘वश कान्तौ’ इति धातोः । पूर्ववत् वयतेः क्स्नुप्रत्यये, वष्टेः क्नुप्रत्यये ‘विष्णु’ इति रूपमित्यर्थः । ‘क्रमु पादविक्षेपे’ इति धातोराह– पादविक्षेपादिति ।। तद्घटनायोक्तम्– त्रिविक्रमेति ।। पूर्ववत् ‘प्रत्ययः’ इति सम्बन्धः । क्स्नुप्रत्यय इत्यर्थः ।। १९-२५ ।।

प्रत्यक्षं विभूतिरूपमुच्यते– आदित्यानामहं विष्णुरिति ।। द्वादशादित्यानां मध्ये उरुक्रमशब्दितो विष्णुरहमस्मि । ‘विष्लृ व्याप्तौ’ इत्यतः क्नुप्रत्ययः, सर्वव्यापी । नियमनाय सर्वत्र प्रवेशवान् विष्णुः । ‘विश प्र्रवेशने’ इत्यतः क्नुः । शकारस्य षकारः । सर्वभूतानां पृथिव्यादीनां ब्रह्मादीनां प्रजानां च गमयितृत्वाद् विष्णुः । ‘वी गतिप्रजनकान्त्यसनखादनेषु’ इत्यतो गतिकर्मणः क्स्नुप्रत्ययो धातोर्ह्रस्वश्च । द्यावापृथिव्यौ व्याप्नोति इति वा विष्णुः । ‘विष्लृ व्याप्तौ’ इत्यतः पूर्ववदेव क्नुप्रत्ययः । अभ्यधिककमनीयताशालित्वाद् वा विष्णुः । ‘वश कान्तौ’ इत्यतो नुप्रत्ययः । धातोरकारस्येकारः, शकारस्य षकारः । ‘वी गति’ इत्यतो वा कान्तिकर्मणः क्स्नुः धातोर्ह्रस्वश्च । अधिभूतनिविष्टत्वाद्वा विष्णुः । ‘विश प्रवेशने’ इत्यतः क्नुः षत्वं च । अधिभूतस्य जन्मादीच्छावत्त्वाद् विष्णुः । वेतेः वष्टेश्च पूर्ववद्रूपम्् । त्रिविक्रमरूपेण पादविक्षेपाद्वा विष्णुः । पूर्ववद् ‘वी गति’ इत्यतो गतिकर्मणः कर्तरि प्रत्ययः ।

केषु केषु च भावेषु चिन्त्योऽसीति प्रश्नस्योत्तरम्– ज्योतिषां रविरंशुमानिति ।। प्रकाशरूपाणां भावानां मध्ये विश्वव्यापिरश्मियुक्तो रविरहमस्मि । इदं च तिरोहितविभूतिरूपम् । इतरज्योतिरपेक्षया रवेराधिक्यं ददत् तन्नामकम् । तत्र चिन्तनीयमिति हृदयम्् । एवमेवोत्तर-त्रापि तिरोहितविभूतिस्थले व्याख्यानम् । विष्णुकपिलव्यासवासुदेवरामरूपाणि प्रत्यक्षविभूति-रूपाणि । इतराणि तु तिरोहितविभूतिरूपाणीति विवेको द्रष्टव्यः ।

मरीचिर्मरुतामस्मि आहङ्कारिकप्राणं विना एकोनपञ्चाशतो मरुतां मध्ये मरीचिनामा मरुदस्मीत्यर्थः । अत्र मरीचिशब्देन प्रवहदेवो ग्राह्यः । ‘प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः ।’ इति त्रयोदशाध्यायगीतातात्पर्यनिर्णयवचनात् । तत्र प्रधानवायुजत्वलिङ्गेन भूतवायुश्रुत्या प्रवहत्वमावेद्यते । ‘पर्जन्यमित्रशिखिनो भूतवायुस्तथैव च ।’ इति छान्दोग्यभाष्ये, भूतवायु-शब्देन प्रवहग्रहणाच्च । किञ्च तात्पर्यनिर्णये दशमे ‘उदवन्मेघचलनान्मरीचिः’ इति तत्र मरीचिशब्दनिर्वचनमस्ति । तद्व्याख्यातं तट्टीकायाम् ‘मरशब्दोदितोदकवान् मेघो मरी, तं चालयतीति मरीचिः’ इति । तत्र मरीचिशब्दो विभूतिरूपविशेषे भगवति परममुख्यः । तत्सन्निधानपात्रत्वान्मरीचिनामकमरुति मुख्यः, ‘अनिषिद्धास्तदन्येषु’ इत्युक्तेः । मेघेषु स्थितत्वात् तच्चालनव्यापारवांश्च मरीचिनामकविभूतिरूपाधिष्ठानभूतः प्रवह एवाभ्युपगन्तव्यः ।

पृथिव्यां प्रथमस्कन्ध आमेघेभ्यो य आवहः ।

 द्वितीयश्चापि मेघेभ्य आसूर्यात् प्रवहस्तु सः ।।’

इति ब्रह्मवैवर्तपुराणवचनात्,

आवहः प्रवहश्चैव विवहश्च समीरणः ।

 परावहः संवहश्च ह्युद्वहश्च महाबलः ।।

 तथा परीवहः श्रीमान् मरुतो भयशंसिनः ।

 इत्येते कथिताः सप्त मरुतो गगने चराः ।।’ इति हरिवंशे,

प्रवहस्यैव द्वितीयस्कन्धत्वावेदनाच्च । तथा चाभियुक्तसङ्ग्रहः–

प्रधानभूतो मरुतां भूतवाय्वभिमानवान् ।

 मुमुक्षुभिर्गम्य एष आतिवाहिकनामवान् ।।

 प्रधानवायोः पुत्रोऽयं मरीचिरिति चोदितः ।

 प्रवहो नाम देवोऽसौ विधोस्तु द्विगुणाधिकः ।।’ इति ।

मरीचिनामान्तरवान् प्रवहो मुख्यवायुजः ।

 कोणाधिपः स एवोक्त आतिवाहिकनामवान् ।।’ इति ।

ततस्तु प्रवहोे वायुरुक्तो नाम्ना मरीचिकः ।

 कृष्णेन विष्णुना साक्षात् पार्थं बोधयता युधि ।

 मरीचिर्मरुतामस्मीत्युक्तः कुन्तीसुतं प्रति ।

 मरीचिनामान्तरवान् आतिवाहिकसञ्ज्ञिकः ।

 कोणाधिपः स एवोक्तो भूतवाय्वभिमानवान् ।।’

इति च । ‘आकाशदेवता विघ्नस्ततो वायोस्सुतो मरुत्’ इत्यत्र षट्प्रश्नभाष्यटीकायां मरुद्भूतं वायुदैवतेत्युक्तमरुत्तु भूतावान्तराभिमानिदेवताविशेष इति विचक्षणाः । नक्षत्राणां मध्ये शशी चन्द्रमाः अहं अस्मि, नक्षत्राणां विजातीयत्वात् । तत्स्वाम्यदातृविभूतिरूपं चन्द्रमसि वर्तत इति चिन्तनीयोऽस्मीति भावः ।। २१ ।।

भावदीपिका

व्याप्तिप्रवेशनयोरेव धात्वर्थत्वादाह– सर्वेतीति ।। धात्वन्त-रेति ।। वक्ष्यमाण गत्याद्यर्थाभिधायक‘वी गति’इत्यादिधात्वन्तरस्येत्यर्थः । इत्यतः धातोः । क्स्नुरिति ।। गत्यर्थत्वात् ‘वी’ इत्यस्मात् करणे क्स्नुप्रत्यये ‘लशक्वतद्धिते’ इति ककारलोपे, धातोरीकारस्य ह्रस्वे इकारे, ‘आदेशप्रत्यययाःे’ इति सस्य षत्वे, ‘रषाभ्यां नो णः समानपदे’ इति नकारस्य णत्वे च ‘वयन्त्यनेन’ इति ‘विष्णुः’ इति रूपम् । कित्त्वाद्गुणाभावः । अन्यथा ‘वेष्णु’ इति स्यादिति भावः । ‘विष्लृ व्याप्तौ’ इत्यतः क्नुरिति ।। अत्र ऌकारोऽनुबन्धार्थः । तथा च व्याप्त्यर्थात् ‘विष्’ अस्मात् क्नुप्रत्यये, ककारलोपे, ‘रषाभ्याम्...’ इति नस्य णत्वे, कित्त्वाद् गुणाभावे च ‘विष्णःु’ इति रूपम् । नुरिति ।। कान्त्यर्थाद् वशधातोः नुप्रत्यये, निर्वचनत्वात् धातोरकारस्य इकारे, शकारस्य षकारे, नस्य णत्वे च ‘विष्णुः’ इति रूपम् । ‘वी गति’ इत्यतो वा कान्तिकर्मण इति ।। कान्त्यर्थकाद् ‘वी गतिव्याप्तिप्रजनकान्ति...’ इति धातोर्वा क्स्नुप्रत्यये, ककारलोपे, धातोर्ह्रस्वे, सस्य षत्वे, नस्य णत्वे, कित्त्वाद् गुणाभावे च ‘विष्णुः’ इति रूपम् । प्रागिति ।। अष्टमाध्याये ‘क्षरो भावः’ इत्यनेनेत्यर्थः । ‘विश प्रवेशने’ इति ।। विशधातोः क्नुप्रत्यये, ककारलोपे, धातोर्ह्रस्वे, सस्य षत्वे, नस्य णत्वे, कित्त्वाद् गुणाभावे च ‘विष्णुः’ इति रूपम् ।

वयतेर्वष्टेश्चेति ।। ‘वी गतिप्रजनकान्ति...’ इति धातोः, ‘वश कान्तौ’ इति धातो-श्चेत्यर्थः । अनयोर्धात्वोः प्रकृतोपयोगाय कान्तिशब्दार्थ उक्तः– कान्तिरिच्छेति ।। तथा च ‘वी’ इत्यतः क्स्नुप्रत्यये, ककारलोपे, सस्य षत्वे, नस्य णत्वे, धातोर्ह्रस्वे ‘विष्णुः’ इति पूर्ववद्रूपम् । एवं वशधातो नुप्रत्यये धात्वकारस्येकारे, शस्य षत्वे, नस्य णत्वे च ‘विष्णुः’ इति पूर्ववद्रूपमित्यर्थः । ‘पूर्ववत्’ इत्युक्तत्वाद् अत्रापि ‘गच्छत्यनेन’ इति करणे क्स्नुप्रत्यय-प्राप्तिपरिहाराय ‘कर्तरि’ इत्युक्तम् । तथा च ‘वी गति...’ इति गत्यर्थाद् कर्तरि क्स्नुप्रत्यये ककारस्य लोपे, सस्य षत्वे, नस्य णत्वे, धातोश्च ह्रस्वे ‘विष्णु’ इति रूपम् ।। १९-२५ ।।

भावप्रकाशः

व्याप्त्यादेरेव धात्वर्थत्वादाह– सर्वेति योग्यतयेति ।। वक्ष्यमाणेति ।। गतिश्च सर्वभूतानामित्यत्रेत्युपस्कर्तव्यम् । धात्वन्तरेति ।। वेतेर्वष्टेश्च सङ्ग्राहक इत्यर्थः ।।

गच्छन्त्यनेनेति ।। कर्तुः करणत्वविवक्षया स्त्रियां क्तिन्निति करणे क्तिन् । अनुदात्तोप-देशेति मकारलोपश्चेति भावः । क्षरः सर्वाणि भूतानीत्युक्तार्थग्रहणे प्रजानामिति पुनरुक्तं स्यादित्यत आह– पृथिव्यादीनामिति ।। क्स्नुरिति ।। कित्वात् सार्वधातुकार्धधातुयोरिति गुणाभावः । आदेशप्रत्यययोरिति षत्वे रषाभ्यामिति वा ष्टुत्वेन वा णत्वमिति भावः । धातो-र्ह्रस्वश्चेति ।। पृषोदरादित्वादिति भावः । ननु यदि रोदसीशब्द ईकारान्तः स्त्रीलिङ्गः यदि वा सकारान्तो नपुंसकलिङ्गः उभयथाऽपि व्याप्ताविति पुंस्त्वमयुक्तमित्यत आह– व्याप्ते इति ।। क्नुरिति ।। कित्वाल्लघूपधगुणाभावः पूर्ववण्णत्वं चेति भावः । कान्तिशब्दस्येच्छार्थत्वे तदिच्छुरिति पुनरुक्तं स्यादित्यत आह– कमनीयतेति ।। ननु विष्णुरिति न वश कान्ता-वित्यस्य रूपम् । तथात्वे इच्छार्थत्वप्रसङ्गात् । कान्तिरिच्छेति शाब्दिकव्याख्यानादित्यत आह– वी गतीत्यतो वेति ।। कान्तिकर्मण इति ।। कान्तिवाचकस्येत्यर्थः । प्रागिति ।। अधिभूतं क्षरो भाव इत्यत्रेत्यर्थः । षत्वं चेति ।। पृषोदरादित्वाच्छकारस्य षत्वमित्यर्थः ।

कान्तिरिच्छेति ।। वश कान्तावित्यत्र शाब्दिकैस्तथा व्याख्यानादिति भावः । वयतेरिति ।। वी धातोरित्यर्थः । यद्यप्यस्य लुिग्वकरणत्वाद्वेतेरिति वक्तव्यम् । तथाऽपि गणकार्यस्यानित्यत्वाल्लुगभावे शबिति भावः । ननु वेतेः कान्त्यर्थत्वेऽपि नेच्छार्थत्वम् । तत्र कान्तिरिच्छेति शाब्दिकैरव्याख्यानादित्यत आह– वष्टेरिति ।। वश कान्तावित्यस्मादित्यर्थः । कर्तरि प्रत्यय इति ।। गतिश्च सर्वभूतानामित्यत्र वेतेः करणे क्स्नुप्रत्ययस्योक्तत्वादत्रापि तत्प्रतीतिः स्यात् । तन्निवृत्त्यै कर्तरीत्युक्तम् ।। २१ ।।