मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।। ४ ।।

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।। ४ ।।

भाष्यम्

प्रत्यक्षावगमशब्देनापरोक्षज्ञानसाधनत्वमुक्तम् । तज्ज्ञानाद्याह– मयेति ।। तर्हि किमिति न दृश्यते ? इत्यत आह– अव्यक्तमूर्तिनेति ।। ४ ।।

भावप्रदीपिका

मया ततम् इत्येतं श्लोकमवतारयति– प्रत्यक्षेति ।। उक्तं ‘यस्य’ इति शेषः। यदि सर्वगतस्तर्हि कुतो न दृश्यत इत्यतः अन्त्यपदमवतार्य व्याचष्टे– तर्हीति ।।

प्रमेयदीपिका

एवंतर्हि पुनरुक्तिः स्यात् । ‘ब्रह्मविषयं ज्ञानम्’ इत्यस्य ‘ब्रह्मावगम्यते विषयीक्रियत अनेन ज्ञानेन’ इत्यस्य च भेदाभावादित्यत आह– प्रत्यक्षेति ।। नावगमशब्देन विषयीकरणमुच्यते । किन्त्ववगतिसाधनत्वम् । नच ज्ञानस्य तद्विरुद्धम् । परोक्षज्ञानस्यापरोक्षज्ञानसाधनत्वोपपत्तेरिति भावः । ‘ज्ञानं विज्ञानसहितं प्रवक्ष्यामि’ इति प्रतिज्ञाय यज्ज्ञात्वा इत्यादिना तत्प्रशंसादिकमुक्तम् । अतो मया ततम् इत्यादिकमपि किं तथाभूतमेव किञ्चित्? उत प्रतिज्ञातमुच्यते? इति शङ्कायामाह– तदिति ।। प्रतिज्ञातमित्यर्थः । यस्य अपरोक्षज्ञानसाधनत्वमुक्तं तदिति वा । कृत्स्नाध्यायप्रतिपाद्योक्तिरियम् । विशेषणवैयर्थ्यमाशङ्क्याह– तर्हीति ।। सर्वव्यापी चेदित्यर्थः । न दृश्यते ‘सर्वत्र’ इति शेषः ।। ४ ।।

भावदीपः

।। एवं तर्हीति ।। प्रत्यक्षावगमधर्म्यपदयोः भाष्योक्तव्याख्यानपक्षेे न पुनरुक्तिः धर्म्यपदस्य प्रत्यक्षावगमशब्देनेत्यर्थः । क्रमेण द्वयोरैेकार्थ्यं व्यनक्ति– ब्रह्म इत्यादिना ।। तथाभूतमेवेति ।। प्रशंसाभूतमेवेत्यर्थः । यच्छब्दाध्याहारेण भाष्यं योजयति– यस्येति ।। आदिपदोक्तेराह– कृत्स्नेति ।। विशेषणेति ।। गीतायाम् ‘अव्यक्तमूर्तिना’ इति विशेषणेत्यर्थः ।। ४ ।।

भावदीपिका

।। ‘प्रशंसादिकम्’ इत्यत्रादिपदेन अश्रद्दधानानां निन्दा ग्राह्या । तथाभूतमिति ।। प्रशंसादिरूपमित्यर्थः । ‘उत प्रतिज्ञातं किञ्चिदुच्यते’ इत्यन्वयः । विशेषणेति ।। ‘अव्यक्तमूर्तिना’ इति विशेषणेत्यर्थः ।। ४ ।।

भावरत्नकोशः

‘तत्प्रशंसादिकम्’ इत्यत्रादिपदेन ‘अश्रद्दधानाः’ इति श्लोकोक्तनिन्दासङ्ग्रहः । तथाभूतं प्रशंसादिरूपम् एव । किञ्चित् ‘उच्यते’ इत्याकृष्यते । परामर्शसौकर्याय ‘प्रत्यक्ष’ इत्यादिपूर्ववाक्यं ‘यस्य’ इत्यध्याहृत्य उत्तरवाक्येन सह प्रकारान्तरेण योजयति– यस्यापरोक्षेति ।। ‘मया ततम्’ इत्यादेः ‘अहं क्रतुः’ इत्यन्तस्य ज्ञान-प्रतिपादकत्वात् ‘ज्ञानमाह’ इत्येव वक्तव्ये किमिति आदिपदम् ? इत्यत आह– कृत्स्नेति ।। ‘अहं क्रतुः’ इत्यन्तं ज्ञानप्रतिपादकम्, तत उत्तरं विज्ञानप्रतिपादकम् । यद्वक्ष्यति ‘प्रतिज्ञातं विज्ञानमाह’ इति । अतोऽत्र आदिपदं सर्वाध्यायार्थसङ्ग्रहार्थं प्रयुक्तमिति भावः । विशेषणेति ।। अस्मच्छाब्दर्थस्य भगवत ‘अव्यक्तमूर्तिना’ इति यद् विशेषणं तद्वैयर्थ्यमिति भावः । ‘न दृश्यते’ इत्यत्र ‘भवान्’ इति शेषः । ननु ‘किमिति न दृश्यते’ इति प्रश्नोऽनुपपन्नः । पुरतो दृश्यमानत्वात्, इत्यतः शेषोक्त्या भाष्यं घटयति– सर्वत्रेतीति ।।

गीताश्लोकाक्षरार्थस्तु– प्रतिज्ञातं ज्ञानमुच्यते– मयेत्यादिना ।। अव्यक्ता अतीन्द्रिया मूर्ति देहो यस्य स तथा तेन, मया इदं चराचरात्मकं सर्वं जगत् ततम् व्याप्तम् । जगद्व्यापी चेत् त्वं तर्हि सर्वत्र किं न दृश्यसे ? इत्याशङ्क•पनोदाय ‘अव्यक्तमूर्तिना’ इत्युक्तम् । मत्स्थानि मयि उपजीवनेन स्थितानि । चशब्द तुशब्दार्थः । अहं तेषु भूतेषूपजीवनेन नावस्थितः । ‘ततम्’ इत्युक्त्या जगत आधारत्वं स्वस्याधेयत्वं च प्रतीतम् । तत्प्रतीतिं निरसितुम् ‘मत्स्थानि’ इत्युक्तमिति स्वामिनः ।। ४ ।।

भावप्रकाशः

।। ब्रह्मावगम्यत इति ।। गीताप्रत्यक्षशब्दार्थानुवादः– ब्रह्मेति । अवगमशब्दार्थानुवादो गम्यत इत्यादि । तत्प्रशंसादिकमिति ।। आदिपदादश्रद्दधाना इति श्लोकार्थसङ्ग्रहः । ननु मया ततमित्यादेः ज्ञानप्रतिपादकत्वात् ज्ञानमाहेति वक्तव्ये व्यर्थमादिपदमित्यत आह– कृत्स्नाध्यायेति ।। ४ ।।