मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ् ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ।।४९।।

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ् ममेदम् ।

व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ।।४९।।

भावरत्नकोशः

गीताक्षरार्थस्तु ‘भयेन च प्रव्यथितम्’ इत्यत्रोत्तरम्– मा ते व्यथेति ।। घोरं संहर्तृतया क्रूरं तदेवेदं रूपं यत्त्वया प्रार्थितम् ।। ४९ ।।