नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ।। ७३ ।।

अर्जुन उवाच–

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत ।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ।। ७३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- तत्रोत्तरम्– अर्जुन इति ।। अर्जुन उवाच । नेदमरण्यरुदितम् किन्तु त्वत्प्रसादात् मोहः बान्धवस्नेहः, ‘न योत्स्ये’ इति मिथ्याऽध्यवसायो वा नष्टः, स्मृतिः ‘नारायणद्विट्तदनुबन्धिनिग्रहः परमो धर्मोऽवश्यं कर्तव्य एव’ इत्येवंरूपाऽनुस्मृतिः लब्धा । अथेदानीं गतसन्देहः त्वच्छासनेन स्थितो युद्धे सन्नद्धः अस्मि । ‘यथेच्छसि तथा कुरु’ इत्याक्षेपपरिहाराय ‘करिष्ये वचनं तव’ इत्यनुसरति भगवन्तं परिसमाप्तशास्त्रार्थः ।। ७३ ।।