रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ।। १५ ।।

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।

तथा प्रलीनस्तमसि मूढयोनिषु जायते ।। १५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– रजसि ‘प्रवृद्धे’ इति च वर्तते । प्रलयं गत्वा मृत्वा कर्मसङ्गिषु काम्यकर्मसङ्गवत्सु स्वर्गाद्युद्देश्यककर्मानुष्ठातृकुले जायते । तथाशब्दः समुच्चये । तमसि प्रवृद्धे प्रलीनः मृतः मूढयोनिषु मिथ्याज्ञानिकुले जायते ।। १५ ।।