मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।। ६५ ।।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।। ६५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु तदेवोच्यते– मन्मना इति ।। मयि मनो यस्य स तथा, मम भक्तो भव । मद्याजी मद्यजनशीलो भव । माम् एव नमस्कुरु । एवं वर्तमानस्त्वं मत्प्रसादाल्लब्धज्ञानेन मामेवैष्यसि । अत्र च संशयं मा कार्षीः । सत्यं यथा तथैव ते तुभ्यं प्रतिजाने प्रतिज्ञां करोमि, यतस्त्वं मे प्रियोऽसि ।। ६५ ।।