यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते ।। २२ ।।

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।

यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते ।। २२ ।।

भावरत्नकोशः

यं च योगं लब्ध्वा ततोऽधिकं लाभं न मन्यते, यस्मिंश्च योगे स्थितो गुरूणां गुरुणा प्रबलेनापि दुःखेन दुःखहेतुना न विचाल्यते ।। २२ ।।