येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ।। २८ ।।

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।

ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ।। २८ ।।

भाष्यम्

विपरीताश्च केचित् सन्तीत्याह– येषामिति ।। २८ ।।

भावप्रकाशिका

ननु सर्वभूतानां सम्मोहे कथं चतुर्विधास्तं भजन्ते ? कथं च तत्रापि केचित् तमेव शरणं व्रजन्ति ? इत्याशङ्कापरिहारत्वेनोत्तरं श्लोकमवतारयति– विपरीताश्चेति ।।

प्रमेयदीपिका

चतुर्विधाः इत्यनेन गतार्थमुत्तरं वाक्यमित्यत आह– विपरिताश्चेति ।। त्वत्प्रपत्तेर्मायातरणकारणत्वात् स्वदोषाद्वा त्वां न प्रपद्यन्त इत्यत्र कथं निर्णय इत्यतस्तदुक्तम् । सर्वभूतानि सम्मोहं यान्ति चेल्लुप्तो मुक्तिमार्ग इत्याशङ्क्यात्र द्वन्द्वमोहरहिताश्च केचित् सन्तीत्याहेत्यर्थः ।। २८ ।।

भावबोधः

।। लुप्तो मुक्तिमार्ग इति ।। उपदेष्टृ ूणामभावादित्यर्थः ।। २८ ।।

भावदीपः

गतार्थतानिरासायार्थभेदं वक्ति– त्वत्प्रपत्तेरिति ।। ‘दैवी ह्येषा’ इत्यादि श्लोकद्वयतात्पर्यानुवादः क्रमात् पञ्चम्यन्तद्वयेन ।। तदुक्तमिति ।। ‘चतुर्विधाः’ इत्याद्युक्त-मित्यर्थः ।। ‘इच्छा’ इत्यादि श्लोकार्थानुवादः– सर्वभूतानीत्यादि ।। २८ ।।

भावरत्नकोशः

।। गतार्थमिति । ‘सुकृतिनो भजन्ते’ इति सुकृतिनां भगवद्भजनमुक्तम् । अत्रापि ‘ते पुण्यकर्माणो भजन्ते’ इति वचने पुनरुक्तमित्यर्थः । एतच्चोद्य-निरासायार्थभेदं दर्शयति – त्वत्प्रपत्तेरिति ।। तदुक्तं ‘चतुर्विधाः’ इति उक्तम् । लुप्तो मुक्तिमार्ग इति । ज्ञानस्यैव मुक्तयुपायत्वात् सर्वेषां शरीरसङ्ग्रहाद् आरभ्य इच्छाद्वेषसमुत्थद्वन्द्वमोहस्या-वर्जनीयतया उपदेष्टॄणामुपदेश्यानां च ज्ञानाभावप्रसक्त्या कस्यापि मुक्तिर्न स्यादिति भावः । अत्र ‘येषां त्वन्तगतं पापम्’ इति श्लोके ।।

सर्वभूतानि सम्मोहं यान्ति चेत् लुप्तो मुक्तिमार्ग इत्याशङ्क्य द्वन्द्वमोहरहिताश्च केचित् सन्तीत्युच्यते येषामिति । अन्तगतं नाशं प्राप्तम्, ‘द्वितीया श्रितातीतपतितगत’ इति समासः । द्वन्द्वमोहनिर्मुक्ताः द्वन्द्वविषयमिथ्याज्ञानहीना दृढव्रताः सन्तो मां भजन्ते ।। २८ ।।

भावदीपिका

।। इत्यत्र इत्युभयकोटिकसंशये । तदुक्तमिति ।। मोहाख्य-स्वदोषादेव न मां प्रपद्यन्ते, न मत्प्रपत्तेर्मायातरणाकारणत्वादिति निर्णायकम् ‘ न मां दुष्कृतिनः’ इत्यादिनोक्तमित्यर्थः । लुप्तो मुक्तिमार्ग इति ।। उपदेष्टॄणामभावादिति भावः ।। २८ ।।

भावप्रकाशः

।। लुप्तो मुक्तिमार्ग इति । उपदेष्टॄणामभावादिति भावः ।। २८ ।।