यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ।। ३१ ।।
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ।। ३१ ।।
भाष्यम्
एकस्थम् एकस्मिन् विष्णौ स्थितम् । तत एव च विष्णोः विस्तारम्
।। ३१ ।।
भावप्रदीपिका
‘यदा भूत..’ इति श्लोकं व्याचष्टे– एकस्थमिति ।।३१।।
प्रमेयदीपिका
‘एकस्थम्’ इत्यस्य ‘एकस्थात्मकम्’ इति व्याख्यानं सर्वप्रमाणविरुद्धमिति भावेनाऽह– एकस्थमिति ।। ‘तत एव च विस्तारम्’ इत्यस्य स्वस्मादेव विश्वस्य विस्तारम्’ इति व्याख्यानमसदिति भावेनाऽह– तत एवेति ।। विस्तारम् उत्पत्तिम् ।। ३१ ।।
भावरत्नकोशः
एकस्थात्मकमिति ।। प्रलये एकमेव तिष्ठतीत्येकस्थम्, तदात्मकमिति व्याख्यानमित्यर्थः । असदिति ।। तच्छब्दस्य पूर्वमप्रकृतपरामर्शित्वस्य व्युत्पत्ति- विरोधित्वादिति भावः । तत एव विष्णोरेव । एकशब्देन विष्णोः प्रकृतत्वादिति भष्यार्थस्य स्फुटत्वाद्विस्तारशब्दार्थमाह– विस्तारमुत्पत्तिमिति ।। ‘भूतानामनुपश्यति इति योज्यम् ।।
गीताक्षरार्थस्तु न केवलं भगवतः सर्वप्रेरकत्वसर्वसमत्वादिज्ञानमात्रेणालम् । किन्तु तस्य सर्वाधारत्वाद्यपि ज्ञातव्यमित्युच्यते– यदेति ।। अत्र भूतपृथग्भावस्य परमात्मस्थत्वोक्त्या पृथग्भूतानां तत्स्थत्वमभिप्रेतम् । तदयमर्थः । भूतानां जीवानां पृथग्भावं विष्णोः अन्योन्यतश्च भेदं तथा भूतग्राममेकस्थमेकस्मिन्नेव विष्णौ स्थितं यदा अनु तारतम्येन पश्यति तत एव एकशब्दार्थविष्णोरेव स्थावरजङ्गमात्मकजगतो विस्तारमुत्पत्तिं च अनुपश्यति तदा स ब्रह्म परब्रह्म सम्पद्यते प्राप्नोेति ।। ३१ ।।
भावदीपिका
।। एकस्थेति ।। ‘एकमेव तिष्ठति प्रलये’ इत्येकस्थं ब्रह्म तदात्मकमित्यर्थः ।। ३१ ।।