यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ।। ४ ।।
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ।। ४ ।।
भाष्यम्
कः सात्विकश्रद्धः? इत्यादि विभज्याऽह– यजन्त इत्यादिना ।। ४ ।।
भावप्रदीपिका
त्रिविधा भवति श्रद्धा, तयैव जीवो ज्ञायते । तां च शृणु इत्युक्तं कीदृशं सात्विकादिश्रद्धावत्त्वम् ? इत्याशङ्क्य, उत्तरश्लोकानवतारयति– क इति । इत्यादि प्रश्ने सतीत्यर्थः । सात्त्विकाः इत्यादिना सात्त्वकश्रद्धा इत्यादि ज्ञेयम् ।। ४ ।।
प्रमेयदीपिका
‘तां शृणु’ इति प्रतिज्ञातं नोच्यते, ‘यजन्ते सात्विकाः’ इत्यप्रस्तुतं चोच्यत इत्यत आह– क इति ।। इत्यादि ‘जिज्ञासायाम्’ इति शेषः । विभज्य श्रद्धास्वरूपं प्रतिज्ञातं श्रद्धात्रैविध्यमेवोच्यते । अतो नासङ्गतिरिति भावः । एतेन ‘सात्त्विकाः’ इत्यादेः ‘सात्त्विकश्रद्धाः’ इत्यादिरर्थ उक्तो भवति ।। ४ ।।
भावरत्नकोशः
न केवलं वक्तव्यानुक्तिः, असङ्गतोक्तिश्चेत्याह– यजन्त इति ।। भाष्यपदमनूद्य विभागकर्म दर्शयति– विभज्य श्रद्धास्वरूपमिति ।। प्रतिज्ञातानुक्तिः, अप्रतिज्ञातोक्तिश्चेति दोषद्वयं भाष्यभावोक्त्योद्धरति– प्रतिज्ञातमिति ।। ४ ।।
गीताक्षरार्थस्तु कः सात्त्विकश्रद्धः कश्च राजसश्रद्धः इत्यादिजिज्ञासायां ‘तां शृणु’ (१७.२) इति प्रतिज्ञातं च श्रद्धात्रैविध्यमेव ‘यो यच्छ्रद्धः’ इत्यस्य विवरणेनोच्यते– यजन्त इति ।। ये जनाः देवान् इन्द्रादीन् तदन्तर्गतान् तत्तन्नामकान् भगवद्रूपविशेषांश्च यजन्ते पूजयन्ति ते सात्त्विकाः सात्त्विकश्रद्धाः । ये तु जनाः यक्षरक्षांसि यजन्ते ते राजसाः राजसश्रद्धाः, ये च सात्त्विकराजसेभ्यः अन्ये तु प्रेतान् भूतगणाश्च यजन्ते ते तामसाः तामसश्रद्धाः ।
अत्र श्लोके ‘यजन्ते सात्त्विका देवान्’ इति ‘देवान् यजन्तः सात्त्विकश्रद्धाः’ इति वदन् गीताचार्यः शास्त्रविधिमजानन्तोऽपि श्रद्धापारवश्याद् देवान् यजन्तः सात्त्विकश्रद्धाः किमुत शास्त्रविधिं परिजानन्तः सन्तो देवान् यजन्त इत्यभिसन्धत्त । यद्यपि राजसतामसाश्च ‘ऐन्द्रं चरुं रौद्रं गावीधुकं चरुम्’ इत्यादिशास्त्रोक्ता इन्द्रादिदेवता एव यजन्ते, नतु यक्षादीन् । तथापि राजसैः क्रियमाणे यज्ञे ब्रह्मेन्द्रादिसमाननामका यक्षराक्षसा एव हविर्भुञ्जते । तामसैः क्रियमाणे तु यज्ञे साक्षात् शिवपरिवाराः शिवस्कन्दादिनामानो भूताः प्रेतगणाश्च हविर्भुञ्जत इति भोक्तृभेदविवक्षया ‘यक्षरक्षांसि’ इति, ‘भूतान् प्रेतगणांश्च’ इति चोक्तिरुपपद्यत इति ज्ञातव्य-विशेष उत्तरप्रस्थानतोऽवगन्तव्यः ।। ४ ।।
भावदीपिका
।। प्रतिज्ञातं श्रद्धात्रैविध्यम् ।।