अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ।। १२ ।।

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ।। १२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– अभिसन्धायेति ।। हे भरतश्रेष्ठ यत् कर्मफलम् अभिसन्धाय ‘मम भूयात् ’इति कामयित्वैव, तुशब्दः सात्त्विकयज्ञवैलक्षण्यद्योत-नार्थः । दम्भार्थमपि परवञ्चनेन महत्त्वख्यापनायापि य इज्यते क्रियते तं यज्ञं राजसं राजसजीवस्वरूपज्ञापकं विद्धि ।। १२ ।।