भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ।। १ ।।
।। अथ श्रीमद्भगवद्गीतायां दशमोऽध्यायः ।।
भाष्यम्
उपासनार्थं विभूतीर्विशेषकारणत्वं च केषाञ्चिदनेनाध्यायेनाह ।।
भावप्रदीपिकाएतदध्यायार्थं दर्शयति– उपासनार्थमिति ।। अन्यान्तर्गतं बहिर्गतं चेति द्विविधं विभूतिरूपम् । तत्र विष्ण्वादीनि बाह्यरूपाणि । अश्वत्थादी-न्यन्तर्गतानि । तेषां स्वसन्निधानेनाश्वत्थादीनां स्वजातितो विशेषकारणत्वं चोच्यत इत्यर्थः ।
प्रमेयदीपिका
प्रकृतसङ्गतत्वेनाध्यायप्रतिपाद्यं दर्शयति– उपासनार्थ-मिति ।। षष्ठे ध्यानमुक्तम् । तत् नवमान्ते ‘मन्मना भव’ इति स्मारितम् । तच्च ध्येयसापेक्षम् । विशिष्टाधिकारिणां च भगवद्विभूतय उपास्याः । अतस्ताश्च आहानेन दशमाध्यायेन । तत्राऽदौ केषाञ्चित् बुद्ध्यादीनां महर्ष्यादीनां च विशेषकारणत्वमपि भगवत आहेत्यर्थः । विभूतिशब्दार्थः तात्पर्यनिर्णयेऽभिहितः । तदुक्तेर्भूयस्त्वात् प्रथममुपादानम् । अत एवैकवाक्यता ।। ननु विभूतयो ‘रसोऽहम्’ इत्यादिनोक्ता एव । सत्यम् । अत एव ‘विस्तरेणाऽत्मनः’ इति वक्ष्यति । विशेषकारणत्वं नाम सामर्थ्यातिशयोपेततया निर्माणम् ।।
भावबोधः
।। विशेषकारणत्वमपीति ।। तस्यापि ध्येयविशेषत्वादिति भावः । तात्पर्यनिर्णय इति ।। ‘विशिष्टभवनं विभूतिः’ इत्यादिनेत्यर्थः । ननु ‘बुद्धिर्ज्ञानम्’ इति ‘आदित्यानामहं विष्णुः’ इति गीताक्रमेणैव केषाञ्चिद्विशेषकारणत्वं विभूतीरनेनाध्यायेनाहेति वक्तव्यम् । तत्कुतो व्यत्यासः । अध्यायैक्यं च किं निबन्धनमित्यत आह– तदुक्तेरिति ।। विभूतिरूपोक्तेरित्यर्थः । अत एवेति ।। प्राचुर्येण प्रतिपाद्यस्यैवाध्यायैकवाक्यतायां प्रयोजकत्वा-दित्यर्थः । ननु कार्यमात्रं प्रति विष्णोर्विशेषकारणत्वात् किं विशिष्योच्यते, केषाञ्चिदेवेत्यत आह– सामर्थ्यातिशयोपेततया निर्माणमिति ।। कार्यान्तरापेक्षया बुद्ध्यादीनां सजातीया-पेक्षया महर्ष्यादीनामित्यर्थः ।। १ ।।
भावदीपः
।। विशिष्टाधिकारिणामिति ।। उत्तमाधिकारिणामित्यर्थः ।। विभूतय इति ।। विशिष्टवस्तुषु विशिष्टताप्रदर्शनाय विशिष्टत्वेन विविधत्वेन वा भक्तिज्ञान-योर्विशिष्टत्वेन विविधत्वेेन वा प्रादुर्भूतरूपविशेषा इत्यर्थः ।। विशेषकारणत्वमपीति ।। तस्याप्यधिकारिविशेषध्येयत्वादत्रोक्तिरिति भावः ।। तात्पर्यनिर्णय इति ।। ‘विशिष्टभवनं विभूतिः महत्वं विविधभवनं वा’ इति गीतातात्पर्यनिर्णयेऽभिहित इत्यर्थः । अत एवेति ।। भूयस्त्वादेव ।। दशमेऽस्यैवार्थस्य प्रतिपादनात् ‘अर्थैकत्वादेकं वाक्यम्’ इति न्यायेनैका-ध्यायत्वमित्यर्थः ।। उक्ता एवेति ।। ‘सप्तमे’ इति योज्यम् ।।
भावरत्नकोशः
‘उपासनार्थम्’ इति भाष्यानुसारेणाह– प्रकृतेति ।। पूर्वाध्यायप्रकृतार्थसङ्गतत्वेनेत्यर्थः । तमेवार्थं दर्शयति– षष्ठ इति ।। साङ्गं ध्यानमेव षष्ठाध्याये उक्तमित्यर्थः । अव्यवहिताध्यायसङ्गत्यर्थमाह– नवमान्त इति ।। तच्च ध्यानम् । ननु ‘सर्वभूतस्थमात्मानम्’ इति तत्रैव ध्येयस्याप्युक्तत्वादत्र तदुक्तौ पुनरुक्तिः स्यात् इत्यत आह–विशिष्टाधिकारिणां चेति ।। उत्तमाधिकारिणामित्यर्थः । उक्तमेव ध्येयं साधारणानाम् । अत्र तु विशिष्टाधिकारिणां विभूतिरूपाख्यं तदुच्यत इति न पुनरुक्तिरिति भावः । बुद्ध्यादीनाम् ‘बुद्धिर्ज्ञानमसंमोहः’ इति वक्ष्यमाणानाम् । ‘महर्ष्यादीनाम्’ इत्यत्रादिपदेन चतुर्णां मनूनां ग्रहणम् । ‘द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम्’ इति तात्पर्यनिर्णयमनुरुध्य, भाव-प्रदीपिकायाम् ‘द्विविधानि विभूतिरूपाणि, अन्तर्गतानि बाह्यानि’ इति । तत्र विष्ण्वादीनि बाह्यरूपाणि । अश्वत्थादीन्यन्तर्गतानि । तानि च स्वसन्निधानेनाश्वत्थादीनां स्वजातितो विशेषे कारणत्वं चोच्यते’ इत्यर्थ इति व्याख्यातम् ।
नन्वणिमाद्यैश्वर्यस्यानुक्तत्वात् कथं ‘विभूतीराहेति’ इत्युच्यते इत्यत आह– विभूतिशब्दार्थ इति ।। नात्राणिमाद्यैश्वर्याणि विभूतिशब्दार्थः, येनोक्तदोषः । किं नाम, विशिष्टभवनं विभूतिः ।
‘येषां तु विष्णुरूपाणां सन्निधेरन्यवस्तुषु ।
विशिष्टत्वं स्वजातेः स्याद् विभूत्याख्यानि तानि तु ।।’
इति विभूतितत्त्वे इति स्ववचनेनोक्तः, प्रमाणेन विवृतश्चोत्तरप्रस्थाने स एव ग्राह्य इत्यर्थः । तदुक्तेः विभूत्युक्तेः । तेन ‘बुद्ध्यादिविशेषकारणत्वस्यादौ गीतत्वात् तदनुसारेण ‘विशेष-कारणत्वम्, विभूतीश्चाह’ इति भाषणीये कथं ‘विभूतीः’ इति भाषितम्’ इति चोद्यं निरस्तम् । विभूत्युक्तेर्भूयस्त्वेन प्राधान्यात् प्रथमग्रहणोपपत्तेरिति । अत एव भूयस्त्वेन प्राधान्यादेव एकवाक्यता दशमाध्यायस्य । प्रधानार्थैकत्वनिबन्धनत्वाद् एकवाक्यताया इति भावः । उक्ता एवेति ।।
‘सोऽप्सु स्थित्वा रसयति रसनामा ततः स्मृतः ।
सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात् ।।’
इत्यादिना बाह्यान्तर्गतभगवद्रूपाणां तात्पर्यनिर्णये वर्णनादिति भावः । तेन भाष्ये तदनुक्तिर्न विरुध्यत इति बोध्यम् । विस्तरेणेति ।। ‘विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय’ इति ‘विस्तरेण’ इति वक्ष्यति गीतायामित्यर्थः । कार्यमात्रे स्वतन्त्रतया विष्णोर्विशेष-कारणत्वात् किं विशिष्याभिधीयते ‘केषाञ्चित्’ इति ? इत्यत आह– विशेषकारणत्वं नामेति ।। भगवतः कार्यमात्रे मुख्यकारणत्वेऽपि यत्र बुद्ध्यादिकार्ये सामर्थ्यातिशयोपेततया निर्माणं तदेव विशेषकारणत्वमिहाभिमतमिति भावः ।।
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।
दशमाध्यायटीकायाः क्रियते
भावदीपिका ।।
ननु कोऽयं विभूतिशब्दार्थः इत्यत आह– विभूतिशब्दार्थस्तात्पर्यनिर्णय इति ।। ‘विशिष्टभवनं विभूतिः इत्यादिना’ इत्यर्थः । ननु गीतायाम् ‘बुद्धिर्ज्ञानम्’ इत्यादिना बुद्ध्यादि-विशेषकारणत्वस्यैवादौ अभिधानात्, तदनन्तरं विभूतेरभिधानात्, तदनुसारेण ‘केषाञ्चिद्विशेष-कारणत्वं विभूतीश्च’ इति वक्तव्यम् ? इति चेत्, तत्राह– तदुक्तेरिति ।। विभूत्युक्तेरित्यर्थः । ननु विभूतिबुद्ध्यादिविशेष कारणत्वरूपार्थद्वयप्रतिपादकत्वेन एकवाक्यत्वायोगः इत्यत आह–अत एवेति ।। प्राचुर्येण विभूतिप्रतिपादकत्वादेवेत्यर्थः । योऽर्थो यत्र प्राचुर्येण प्रतिपाद्यते सोऽध्यायादिः तदर्थ इति भावः । सत्यमिति ।। तथा च तस्यैवायं प्रपञ्च इति भावः । तत्रोपष्टम्भकमाह– अत एवेति ।। ननु भगवतः कार्यमात्रं प्रति विशेषत एव कारणत्वात्, ‘केषाञ्चित्’ इति किं विशिष्याभिधीयते इत्यत आह– सामर्थ्येति ।। कार्यान्तरापेक्षया बुद्ध्यादीनाम्, सजातीयापेक्षया महर्ष्यादीनामित्यर्थः ।
भावप्रकाशः
ननु ध्यानापेक्षितध्येयस्याऽपि सप्तमादावुक्तत्वाद्विभूतिकथनं किमर्थमित्यत आह– विशिष्टाधिकारिणामिति ।। उत्तमाधिकारिणामित्यर्थः । बुद्ध्यादीना-मिति ।। बुद्ध्यादीन् प्रतीत्यर्थः । एवमग्रेऽपि । नन्वत्राध्यायेऽणिमाद्यैश्वर्यस्यानुक्तत्वात् कथं विभूतीराहेति प्रतिपाद्यमुच्यत इत्यत आह– विभूतिशब्दार्थ इति ।। यद्यपि विशिष्टभवनं विभूतिर्महत्त्वं विविधभवनं वेत्यनेन तात्पर्यनिर्णये महत्त्वमपि विभूतिरित्युक्तम् । ततश्च विशेषकारणत्वस्यापि विभूतिशब्देनैव लाभात् पृथगुक्तिरयुक्ता । तथाऽपि–
‘येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु ।
विशिष्टत्वं स्वजातेः स्याद्विभूत्याख्यानि तानि तु ।।’
इति तात्पर्यनिर्णयोक्तप्रमाणानुसारेण नानारूपाण्येव विभूतिशब्दार्थतयाऽत्र विवक्षितानि । विशेषकारणत्वस्य पृथगुपादानात् । न चैवमेतानि विभूतिमन्ति इति विशेषकारणत्वे विभूतिशब्दप्रयोगविरोधः । विशिष्टभवनं विभूतिरिति योगेन तदुपपत्तेः । ननु गीतापाठक्रमेण विशेषकारणत्वं विभूतीश्चाहेति वक्तव्यं कुतोऽयं व्यत्यास इत्यत आह– तदुक्तेरिति ।। विभूत्युक्तेरित्यर्थः । नन्वेवं प्रतिपाद्ययोः द्वित्वादध्यायैकवाक्यता कथमित्यत आह– अत एवेति ।। प्राचुर्येण प्रतिपाद्यस्यैकत्वादेवेत्यर्थः । तस्यैवाध्यायैकवाक्यताप्रयोजकत्वादिति भावः । उक्ता एवेति ।। इदं च ‘सोऽप्सु स्थित्वा रसयति रसनामा ततः स्मृतः’ इत्यादितात्पर्य-निर्णयोक्तयोजनानुसारेणोक्तम् । तेन पूर्वं रसोहमित्यादेरर्थान्तरस्योक्तत्वात् कथमेतदिति व्युदस्तम् ।।
ननु कार्यमात्रं प्रति विष्णोर्विशेषकारणत्वात् केषाञ्चिदेवेति किं विशिष्योच्यत इत्यत आह– विशेषकारणत्वं नामेति ।। सामर्थ्यातिशयश्च बुद्ध्यादीनां कार्यान्तरापेक्षया महर्ष्यादीनां च सजातीयापेक्षयेति बोध्यम् ।
श्रीभगवानुवाच–
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ।। १ ।।