यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ।। ३४ ।।

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ।। ३४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यत्क्षेत्रज्ञत्वविशिष्टतया भगवज्ज्ञानार्थं क्षेत्रादिकं निरूपितं तत्क्षेत्रज्ञं दृष्टान्तेन प्रदर्शयति– यथा प्रकाशयतीति ।। यथैको रविः कृत्स्नमिमं लोकं लोकस्थितं पदार्थजातं प्रकाशयति तथा क्षेत्री क्षेत्रज्ञो भगवान्कृत्स्नं क्षेत्रम् ईश्वरातिरिक्तचेतनाचेतनवर्गं प्रकाशयति ।। ३४ ।।