यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ।। ७ ।।
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ।। ७ ।।
भाष्यम्
तथाऽपि शक्तितस्त्यागः कार्य इत्याह– कर्मेन्द्रियाणीति ।। मन एव प्रयोजकमिति दर्शयितुम् अन्वयव्यतिरेकावाह– मनसा स्मरन् मनसा नियम्येति ।।
भावप्रदीपिका
ननु मानसकर्मत्यागायोगेऽपि बाह्यकर्मणस्त्यक्तुं शक्यत्वात् तत्त्यागः कार्यः । कर्मणो बन्धकत्वात् । कियानपि लाभो लाभ एवेति न्यायादित्याशङ्क्य, उत्तरत्वेनोत्तरश्लोकद्वयमवतारयति– तथाऽपीति ।। यथाशक्ति मनोनिग्रह एव कार्यो न कर्मत्यागः । मनस एव बन्धमोक्षहेतुत्वात्, कर्मणस्तदभावादित्यर्थः ।।
भावप्रकाशिका
विषयासक्तौ मनः प्रयोजकं न सर्वकर्मत्याग इत्याह– मन एवेति ।।
प्रमेयदीपिका
तथाऽपि ‘कर्मेन्द्रियाणि’ इत्यसङ्गतम् । तृतीयपक्षस्थेन मनसेन्द्रियार्थस्मरणस्य अनुक्तत्वादित्यत आह– तथाऽपीति ।। यद्यपि शरीरयात्राद्यर्थानि कर्माणि त्यक्तुम् अशक्यानि । तथाऽपि शक्तितः शक्यत्वाद् यज्ञादिकर्मणां त्यागः कार्यः ।।
एतदुक्तं भवति । नाशक्यविषये शास्त्रप्रवृत्तिरित्यतस्तद्व्यतिरिक्तकर्मार्थः स्मृतौ कर्म-शब्दो भविष्यतीति । एतच्छङ्कापरिहारः श्लोेके न दृश्यते । द्वितीयश्लोकश्च व्यर्थ इत्यत आह– मन एवेति ।। मन एव बन्धमोक्षयोः प्रयोजकम् । न कर्मकरणाकरणे । अतस्तन्निग्रह एव कार्यो न कर्मत्याग इति ज्ञापयितुमित्यर्थः । अनिगृहीतत्वे मनसो बन्धापेक्षयाऽऽद्योऽन्वयः । द्वितीयो व्यतिरेकः । मोक्षापेक्षया तु व्यत्यास इति ।।
भावबोधः
।। इन्द्रियार्थस्मरणस्येति ।। मोक्षप्रतिबन्धकत्वेनेत्यर्थः । व्यत्यास इति ।। निगृहीतत्वे मनसो द्वितीयोऽन्वयः । आद्यो व्यतिरेक इति व्यत्यास इत्यर्थः । ‘सन्न्यासादि’ इत्युत्तरवाक्यस्थादिपदानुरोधात् ‘गृहस्थकर्मैव’ इत्येतदुपलक्षणपरमित्यभि-प्रेत्योक्तम् ।।
भावदीपः
।। इन्द्रियार्थस्मरणस्येति ।। मोक्षप्रतिबन्धकत्वेनेति योज्यम् ।। स्मृताविति ।। कर्मणो बन्धकत्वोक्त्या तत्त्यागपरायां ‘कर्मणा बद्ध्यते जन्तुः’ इत्यस्यां स्मृतौ कर्मशब्दो शक्यकर्मव्यतिरिक्तकर्मपर इत्यर्थः ।। आद्य इति ।। ‘कर्मेन्द्रियाणि’ इति श्लोकः, द्वितीयः ‘यस्त्विन्द्रियाणि’ इति श्लोकः ।। व्यत्यास इति ।। द्वितीयोऽन्वयः । आद्यो व्यतिरेक इत्यर्थः ।।
भावरत्नकोशः
।। तथाऽपि ‘न हि कश्चित्’ इत्यस्य शरीरयात्राद्यर्थक-कर्मत्यागायोगप्रतिपादकतया सर्वकर्मत्यागासम्भवेऽपि । असङ्गतिमुपपादयति– तृतीयेति ।। ‘कर्मणा बध्यते जन्तुः’ इति स्मृतिमाश्रित्य यस्तृतीयः पक्षः चोदितः तत्स्थेन । मनःकारण-केन्द्रियार्थस्मरणस्य मोक्षप्रतिबन्धकताया अनुक्तत्वात् ‘कर्मेन्द्रियाणि’ इति पद्यं न सङ्गत-मित्यर्थः । प्रतियोगि दर्शयन् ‘तथाऽपि’ इत्येतदर्थमाह– यद्यपीति ।। ‘शक्तितः’ इत्यस्यार्थः– शक्यत्वादिति ।। शक्यत्वघटनायोक्तम्– यज्ञादीति ।। अनेन त्यागार्हकर्मपरः स्मृतौ कर्मशब्द इत्यत्र किं नियामकमुक्तम् ? इत्यत आह– एतदुक्तमिति ।। ‘प्रयोजकम्’ इत्युक्ते ‘कस्य’ इति न ज्ञायते । अतः प्रयोज्यं संयोजयति– बन्धमोक्षयोरिति ।। न कर्मत्याग इति ज्ञापयितु-मिति ।। तथा च ‘एतदुक्तं भवति’ इति कृतशङ्कापरिहारः श्लोकारूढः कृत इति भावः ।
‘अन्वयव्यतिरेकौ’ इति भाष्ये ‘मन एव’ इति प्रकृतत्वान्मनस एवेति वक्तव्यम् । तन्न युज्यते । बन्धे मोक्षे च मनसः कारणीभूतस्यावर्जनीयतया व्यतिरेकसम्पादनासम्भवाद् इत्या-शङ्क्य विशिष्टस्य मनसोऽन्वयो विशिष्टस्य मनसो व्यतिरेकः । विशेषणं च निगृहीतत्व-मनिगृहीतत्वं च । तत्र ‘अनिगृहीतत्वविशिष्टे मनसि सति बन्धः’, ‘अनिगृहीतत्वविशिष्ट-मनसोऽभावे बन्धाभावः’, निगृहीतत्वविशिष्टे मनसि सति मोक्षः’, ‘निगृहीतत्वविशिष्ट-मनसोऽभावे मोक्षाभावः’ इति मनसो बन्धमोक्षौ प्रत्यन्वयव्यतिरेकौ वक्तुं श्लोकद्वयम् । तत्रापि ‘कर्मेन्द्रियाणि’ इत्याद्यः श्लोको बन्धं प्रत्युक्तान्वयप्रदर्शनाय प्रवृत्तः । ‘यस्त्विन्द्रियाणि’ इति द्वितीय उक्तव्यतिरेकप्रदर्शनाय । एवमन्वयव्यतिरेकौ बन्धं प्रति, मोक्षं प्रति तु ‘निगृहीतमनसः सत्त्वे मोक्षः’ इत्यन्वयप्रदर्शको द्वितीयः । ‘निगृहीतमनसोऽसद्भावे मोक्षाभावः’ इति व्यतिरेकप्रदर्शक आद्यः श्लोकः । प्रथमे श्लोके ‘मिथ्याचारः’ इति बन्धस्य, द्वितीये ‘स विशिष्यते’ इति मोक्षस्य चाभिधानात् । तथा चोक्तशङ्कानिरासोद्वितीयश्लोकावैयर्थ्यं चेति भावः । एतेनेति ।। मनसो बन्धप्रयोजकत्वप्रदर्शनार्थं मनोग्रहणस्यावश्यकत्वेनेत्यर्थः । इत्यपीति ।। न केवलमेतच्छङ्कापरिहारः श्लोके न दृश्यत इति चोद्यं, द्वितीयश्लोकश्च व्यर्थ इति चोद्यं च ‘मन एव’ इत्यादिभाष्येण परिहृतं किन्तु गीतायाम् ‘मनसा’ इति व्यर्थम् इत्यपि चोद्यं परिहृतमित्यर्थः ।
भावदीपिका
।। अनुक्तत्वादिति ।। मोक्षप्रतिबन्धकत्वेनानुक्तत्वादित्यर्थः । नाशक्यविषय इति ।। ‘कर्मणा बध्यते जन्तुः’ इति स्मृतेर्बन्धकत्वात् कर्माणि त्याज्यानीत्याशयः । तत्र शरीरमात्रोपयुक्तकर्मणां त्यक्तुमशक्यत्वात् तेषां च बन्धकत्वाभावाच्च तत्परित्यागार्थकत्वं ‘कर्मणा बध्यते’ इति शास्त्रस्य न वक्तुं युक्तम् । अशक्यविषये शास्त्र-प्रवृत्त्यनुपपत्तेः । न ह्याकाशे मन्थनं शक्यविधानमिति भावः । तद्य्यतिरिक्तकर्मार्थ इति ।। ‘कर्मणा बध्यते’ इति स्मार्तः कर्मशब्दः शरीरयात्रोपयुक्तकर्मभिन्नयज्ञादिकर्मपरो भविष्यति । तेषां बन्धकत्वे सुखेन त्यक्तुं शक्यत्वात् । अतो बन्धकयज्ञादिकर्माकरणान्मुक्तिर्भविष्य-तीत्याशयः । न कर्मत्याग इति ज्ञापयितुमिति ।। तथा च यज्ञादिकर्मणां प्रतिबन्धकत्वेन तत्त्यागेऽपि मनोव्यापारस्य प्रतिबन्धकस्य सत्त्वेन तदभावस्याप्राप्तत्वादित्याशयः । भाष्ये– इत्याहेति ।। इति शङ्कायाम् आहेत्यर्थः । अनिगृहीतत्व इति ।। ‘मनोऽनिगृहीतं चेद् बन्धः’ इति बन्धापेक्षया ‘कर्मेन्द्रियाणि’ इत्याद्यश्लोकोऽन्वयपरः । तत्र च मिथ्याचारो बन्धवानिति व्याख्येयम् । ‘मनो निगृहीतं चेद् बन्धाभावः’ इति बन्धापेक्षया ‘यस्तु’ इति द्वितीयश्लोको व्यतिरेकपरः । तत्र च ‘विशिष्यते’ बन्धाभाववानिति व्याख्येयम् ।। मोक्षापेक्षया त्विति ।। मनो निगृहीतं चेन्मोक्ष इति मोक्षापेक्षया यस्तु इति द्वितीयश्लोकः अन्वयपरः । तत्र च ‘विशिष्यते’ मुक्तो भवतीत्यर्थः । मनः अनिगृहीतं चेत् मोक्षाभावः इति मोक्षापेक्षया ‘कर्मेन्द्रियाणि’ इत्याद्यश्लोको व्यतिरेकपरः । तत्र च मिथ्याचारपदं मोक्षाभावपरं द्रष्टव्यम् इति व्यत्यास इत्यर्थः । एतेनेति ।। ‘मनोऽनिगृहीतं चेद् बन्धः’ इति बन्धापेक्षयाऽन्वयपरत्वेन ‘मनोऽनिगृहीतं चेन्मोक्षाभावः’ इति मोक्षापेक्षया च व्यतिरेककथनपरत्वेनेत्यर्थ; । ‘मनसा स्मरन्’ इत्यस्य मनसः स्मरणं प्रति कारणत्वोक्तौ न तात्पर्यम् । येन ‘मानसप्रत्यक्षजा स्मृतिः’ इति वचनेन स्मरणस्य मानसत्वाव्यभिचाराद् ‘मनसा’ इत्यस्य वैयर्थ्यशङ्का स्यात् । न चैवम् । किन्तु उक्तरीत्या बन्धमाक्षापेक्षयाऽन्वयव्यतिरेककथनाय मनसो निगृहीतत्व एवेति नोक्तदोेष इति भावः ।
भावप्रकाशः
तृतीयपक्षस्थेनेति ।। कर्मणा बध्यते जन्तुरिति स्मृतिमाश्रित्य यस्तृतीयः पक्षस्तत्स्थेनेत्यर्थः । इन्द्रियार्थस्मरणस्येति ।। मोक्षप्रतिबन्धकत्वनेति शेषः । अनेन कर्मशब्दसङ्कोचे किं नियामकमुक्तमित्यत आह– एतदुक्तं भवतीति ।। आद्योऽन्वय इति ।। अनिगृहीतमनसि सति बन्ध इत्यन्वयप्रदर्शक आद्य श्लोक इत्यर्थः । द्वितीयो व्यतिरेक इति ।। अनिगृहीतमनसोऽभावे बन्धाभाव इति व्यतिरेकपरो द्वितीयः श्लोक इत्यर्थः । व्यत्यास इति ।। ‘निग्रहीतमनसः सत्त्वे मोक्षः’ इत्यन्वयप्रदर्शको द्वितीयः ‘निगृहीतमनसोऽसत्त्वे मोक्षाभावः’ इति व्यतिरेकप्रदर्शक आद्य इत्यर्थः ।