नैव किञ्चत् करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्च्छृण्वन् स्पृशञ्जिघ्रन्नश्नन् गच्छन् स्वपन् श्वसन् ।। ८ ।। प्रलपन् विसृजन् गृह्णन्नुन्मिषन् निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ।। ९ ।।
नैव किञ्चत् करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्च्छृण्वन् स्पृशञ्जिघ्रन्नश्नन् गच्छन् स्वपन् श्वसन् ।। ८ ।।
प्रलपन् विसृजन् गृह्णन्नुन्मिषन् निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ।। ९ ।।
भाष्यम्
सन्न्यासं स्पष्टयति पुनः श्लोकद्वयेन ।। ८,९ ।।
भावप्रदीपिका
न केवलं विवक्षितात्मत्वाद्येव संन्यासः, किन्तु सङ्कल्प-त्यागोऽपीत्यभिप्रायेण श्लोकद्वयमवतारयति– संन्यासमिति ।। ८,९ ।।
भावप्रकाशिका
न केवलं द्वन्द्वत्यागः संन्यासः । किन्तु भगवत्प्रेरितेन्द्रिया-दिभिः क्रियमाणे कर्मणि ‘अहं करोमि’ इति सङ्कल्पत्यागरहित इति भावेन ‘नैव’ इत्यादि-श्लोकद्वयमवतारयति– संन्यासमिति । ‘विशुद्धात्मा’ इत्यादिनेषत्स्पष्टितत्वात्– पुनः इति । कामसङ्कल्पादिदोषरहितस्यैव विशुद्धबुद्धित्वात् ।। ८,९ ।।
प्रमेयदीपिका
‘नैव किञ्चित्’ इत्यादेः प्रतिपाद्यमाह– सन्न्यासमिति ।। ‘ज्ञेयः’(५.३) इत्यादिना ‘विशुद्धात्मा’ (५.७) इत्यादिना च स्पष्टीकृतत्वात् पुनः इति ।। स्पष्टनं च प्रागनुक्तसङ्कल्पत्यागस्याभिधानात् ।। ८,९ ।।
भावदीपः
।। स्पष्टीकृतत्वादिति ।। ‘ज्ञेयः स हि सन्न्यासी’ इत्यत्र ‘द्वेषादि-वर्जनं हि सन्न्यास शब्दार्थः’ इति ‘विशुद्धात्मा’ इत्यादि तत्कारणोपन्यासेन च स्पष्टीकृतत्वा-दित्यर्थः ।। ८,९ ।।
भावरत्नकोशः
।। प्रागनुक्तेति । ‘ज्ञेयः’ इत्यत्र, ‘विशुद्धात्मा’ इत्यत्र च अनुक्तेत्यर्थः । केचित्तु संन्यासत्वेन रूपेण प्रागनुक्तस्य । कर्तृत्वाभिमानत्यागरूपसङ्कल्पत्यागस्य ‘नैव किञ्चित् करोमि’ इत्यनेनाभिधानादित्यर्थः । तेन ‘कामसङ्कल्पवर्जिताः’ इति पूर्वाध्याये कर्माङ्गत्वेन सङ्कल्पत्यागाभिधानेऽपि न दोष इत्याहुः ।। ८,९ ।।
गीताश्लोकद्वयाक्षरार्थस्तु ‘ज्ञेयः’ इत्यादिना, ‘विशुद्धात्मा’ इत्यादिना च स्पष्टीकृतोऽपि कर्मसंन्यासः प्राग् अनुक्तसङ्कल्पत्यागाभिधानेन पुनश्च स्पष्टीक्रियते । युक्तः योगयुक्तः दर्शन-श्रवणस्पर्शनाघ्राणादिज्ञानेन्द्रियव्यापारान् गमनादिकर्मेन्द्रियचेष्टाश्च कुर्वन्नपि परमेश्वरेच्छया इन्द्रियाणि विषयेषु वर्तन्त इति मनसाऽवमृशन्, स्वस्य स्वातन्त्र्याभावात् ‘नैव किञ्चित् करोमि’ इति मन्येत, त्यक्तसङ्कल्पो भवेदित्यर्थः । तथा च तत्त्वविदुच्यते । तथा च प्रस्थानान्तरे ‘विष्णुनार्थेष्वीरितानि मन आदीनि सर्वशः । वर्तन्तेऽन्यो न स्वतन्त्र इति जानन् हि तत्त्ववित् ।। इति ।। ८,९ ।।
भावदीपिका
।। सङ्कल्पत्यागस्येति ।। ‘नैव किञ्चित्करोमि’ इत्यनेन स्वातन्त्र्येण कर्तृत्वाभिमानत्यागरूपसङ्कल्पत्यागस्याभिधानादिति भावः ।। ८,९ ।।
भावप्रकाशः
।। प्रागनुक्तेति ।। सन्न्यासत्वेन रूपेण प्रागनुक्तस्य कर्तृत्वाभिमानत्यागरूपसङ्कल्पत्यागस्य नैव किञ्चित्करोमीत्यादिनाऽभिधानादित्यर्थः । तेन कामसङ्कल्पवर्जिता इति पूर्वाध्याये कर्माङ्गत्वेन सङ्कल्पत्यागाभिधानेऽपि न दोषः ।। ८,९ ।।