नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत् तत् सात्त्विकमुच्यते ।। २३ ।।

नियतं सङ्गरहितमरागद्वेषतः कृतम् ।

अफलप्रेप्सुना कर्म यत् तत् सात्त्विकमुच्यते ।। २३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु गुणभेदेन कर्मत्रैवैध्यमुच्यते– नियत-मित्यादिना ।। विष्णोः सर्वोत्तमत्वादिज्ञानपूर्वकं तद्भक्त्या तदर्पणबुद्ध्या क्रियमाणं स्ववर्णा-श्रमोचितं कर्म नियतम् अत्र गृह्यते । सङ्गरहितं कर्तृत्वासक्तिवर्जितम् । अरागद्वेषतः कृतं पुत्रकीर्त्यादिरागेण शत्रुद्वेषेण वा यत्कृतं न भवति तत्तथा, फलं प्रातुमिच्छतीति फलप्रेप्सुः, न फलप्रेप्सुः, तेन फलाभिसन्धिहीनेन यत् कृतं कर्म तत् सात्त्विकमुच्यते ।। २३ ।।