त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ।। २० ।।

त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।

ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्

।। २० ।।

भावरत्नकोशः

गीताश्लोकाक्षरार्थस्तु- ‘अहं क्रतुः’ इत्यादिना सर्वक्रत्वादि-भोक्तृत्वमपि भगवतोऽभिसंहितम् । तत्र यदि सर्वत्र भोक्ता भगवांस्तर्हि भागवतादीनां त्रैविद्या-दीनां च फलसाम्यमेव स्यात् ? भगवद्भोगनिमित्तकत्वात् फलस्य, इत्यभिप्रायेण प्रश्ने, उत्तरम्– त्रैविद्या इत्यादि ।। तिस्रो विद्याः ऋग्यजुस्सामलक्षणा येषां ते त्रिविद्याः, त एव प्रज्ञादित्वात् त्रैविद्याः, विष्णुं सर्वोत्तमं ज्ञात्वाऽपि त्रय्यां मुखतः प्रतीयमानं स्वर्गाद्युद्देश्यकान्यदेवतायजनं बुद्ध्वा तथैवानुष्ठाय, अन्ते विष्णौ समर्पणं कुर्वाणा इत्यर्थः । मां यज्ञैरिष्ट्वा अन्ते मयि समर्प्य, सोमपाः पूतपापाः यज्ञशिष्टसोमरसपानेन शोधितकल्मषा इति यावत् । स्वर्गतिं स्वर्गादिफलं प्रार्थयन्ते । ते च पुण्यं पुण्यप्राप्यसुरेन्द्रलोकम् आसाद्य प्राप्य दिवि स्वर्गे दिव्यान् उत्तमान् देवभोगान् देवभोगसदृशान् अश्नन्ति भुञ्जते ।। २० ।।