नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात् तस्य परित्यागस्तामसः परिकीर्तितः ।। ७ ।।

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।

मोहात् तस्य परित्यागस्तामसः परिकीर्तितः ।। ७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- स्वरूपतः कर्मत्यागः प्रत्यवायहेतुरिति भावेन ‘त्यागो हि पुरुषव्याघ्र त्रिविधः’ इत्युक्तं प्रपञ्च्यते– नियतस्येति त्रिभिः ।। नियतस्य स्ववर्णाश्रमविहितस्य तु कर्मणः सन्न्यासः त्यागः नोपपद्यते । ‘स्वयज्ञादीन् परित्यज्य निरयं यात्यसंशयम्’ इति प्रत्यवायश्रवणात्, कर्मत्यागस्य स्वयमेव स्तूयमानत्वात् ‘स्वरूपत्याग एव कर्तव्यः, न सङ्गफलत्यागः’ इति मिथ्याज्ञानाख्यात् मोहात् तस्य नियतस्य कर्मणः परित्यागः स्वरूपतस्त्यागः तामसः परिकीर्तितः ।। ७ ।।