जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ।। २९ ।।
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ।। २९ ।।
भाष्यम्
जरामरणमोक्षाय इत्यन्यत्कामव्यावृत्त्यर्थं मोक्षे सक्तिस्तुत्यर्थं वा । न विधिः । ‘मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्’ इतीतरस्तुतेर्नारदीये । ‘नात्यन्तिकम्’ इति च ।।
भावप्रदीपिका
ननु द्वन्द्वमोहे जनयति (?) सर्वभूतानि सम्मोहं यान्ति तर्हि कथं ‘चतुर्विधा भजन्ते’ इत्यादीनां (?) कोत्तराय साधनत्वमुक्त्वा ‘मामाश्रित्य’ इति भगवत्प्रसादस्यापि ज्ञानसाधनत्वमुच्यते ‘ते विदुर्युक्तचेतसः’ इति । अतो ज्ञानभगवत्प्रसाद-मन्तरेणापि कारणं पापक्षयाद्यस्तीति मन्दाशङ्कां परिहरति– त एव चेति । पापक्षयादिनापि भगवत्प्रसादवन्त एव ‘ममाश्रित्य’ इत्युक्ताः विदुः नान्य इत्यर्थः ।।
।। इति श्रीपद्मनाभभट्टारकविरचितश्रीमद्भगवद्गीताभाष्यभावप्रदीपिकायां सप्तमोऽध्यायः ।।
भावप्रकाशिका
ये तु तमेव शरणमागत्य तद्विषयश्रवणादियत्नं कुर्वन्ति, त एव तेन स्वीकृतत्वात् तत्प्रसादादेव तद्ब्रह्म यथायोग्यं सम्पूर्णं विदुः, तदर्थमेवाध्यात्मादिकं च विदुः । न तु स्वसामर्थ्यादित्यभिप्रेतमर्थं श्लोकद्वयस्य ‘त एव च’ इत्यादिना प्रकाशयिष्यन् ‘जरामरणमोक्षाय’ इत्येतत् मोक्षशक्तिस्तुत्यर्थः, अन्त्यकामनिवृत्त्यर्थं वा । न तु मोक्षायैव तं शरणं व्रजेतेत्येतदर्थम्, मुक्तिकामात् तदकामस्यैव परत्वादित्येतत् सप्रमाणकमाह– जरा इत्यादिना । नात्यन्तिकं विगणयन्त्यपि ते प्रसादं मुक्तिमपि नेच्छन्तीत्यर्थः । सत्त्व एव सदा सर्वगुणाढ्य एव भगवति एकमनसः पुरुषस्य इन्द्रियदेवानां रूपादिज्ञानलिङ्गकानां श्रुत्युक्तं सर्वं कर्म कुर्वतां तस्मिन्नेव भगवति या वृत्तिः स्वाभाविका न फलस्नेहनिमित्ता, या चाशु लिङ्गशरीरं जरयति– इति हि मुख्यलक्षणं भक्तेः । सा चापूर्णभक्तिनिमित्तात् मुक्ते-र्गरीयसीत्यर्थः । ननु मुक्तिमप्यकामयमानानां किं हरिणा ? इत्याशङ्क्याह आह– चेति ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीगीताभाष्यटीकायां
श्रीनरहरितीर्थभट्टारककृतौ भावप्रकाशिकायां सप्तमोऽध्यायः ।।
प्रमेयदीपिका
‘मां भजन्ते’ इत्युक्तानुवादेन फलमुच्यते । तत्र ‘जरामरण-मोक्षाय’ इत्यनुक्तस्यानुवादासम्भवादप्राप्तत्वेन विध्यर्थं मद्भजनं च जरामरणमोक्षोद्देशेन कार्यमित्येवं प्रतीतिनिरासार्थमाह– जरेति ।। लक्षणया स्वर्गादिकामनिवृत्तिरर्थोऽस्येति तथोक्तम् । मोक्षविषया सक्तिः अन्यसक्तेः प्रशस्तेति तत्स्तुत्यर्थं वा । सर्वथा न विधिः । कुतः? इत्यत आह– मुमुक्षोरिति ।। इतरस्यामुमुक्षोर्भक्तस्य । न हि प्रशस्ते सत्यप्रशस्तं नियन्तुं युक्तमिति भावः । ‘इति च’ ‘इतरस्तुतेः’ इति सम्बन्धः । प्रकारभेदात् पृथगुक्तिः ।।
भावबोधः
।। लक्षणयेति ।। मोक्षकामनायाः स्वर्गादिकामनानिवृत्त्या व्याप्तिरेव शक्यसम्बन्ध इति भावः । न हि प्रशस्त इति । जरामरणमोक्षानुद्देशेन भजने प्रशस्ते विद्यमाने तदुद्देशेन भजनमप्रशस्तं न विधातुं युक्तमित्यर्थः ।।
भावदीपः
अनुवादासम्भवे हेतुः– अप्राप्तत्वेनेति ।। ‘विध्यर्थम्’ इत्यत्राप्ययं हेतुरन्वेति । विध्यर्थत्वमेव व्यनक्ति– मद्भजनमित्यादिना ।। । ‘सर्वथा न विधिः, कुतः’ इत्यस्य किमुत्तरमित्यत आह– नहीति ।। । मोक्षमनुद्दिश्य भजने प्रशस्ते तदुद्देशे सत्यप्रशस्तं तदुद्देशेन भजनं विधिरित्यर्थः ।। ‘जरा’ इति श्लोकेन नियन्तुं युक्तमित्यर्थः ।। प्रकारेति ।। स्तुतिप्रकारभेदा-न्मोक्षे ‘सक्ति’ इति वाक्ये अनुक्त्वा पृथगुक्तिरित्यर्थः ।।
भावरत्नकोशः
।। उक्तानुवादेनेति । ‘मां भजन्ते’ इति पूर्वोक्तभजनस्य ‘मामा-श्रित्य यतन्ति’ इत्यनुवादेनेत्यर्थः । फलमुच्यते ‘ते ब्रह्म तद्विदुः’ इति फलमुच्यते । विध्यर्थत्वे हेतुः– अप्राप्तत्वेनेति । विध्यर्थं ‘जरामरणमोक्षाय’ इति पदमित्युक्तं विशदयति– मद्भजनं चेति । लक्षणयेति । जरामरणमोक्षोद्देशेन भगवद्भजनं कार्यमिति हि विधिः परस्याभिमतः । न चासौ युज्यते । मोक्षकामनारहितान् एकान्तिनः प्रत्यस्य विधेरव्यापारात् । अतो मुख्यार्थानुपपत्तौ ‘निवृत्तस्वर्गादीतरफलकामनो भगवन्तं भजेत’ इति विध्यर्थो वक्तव्यः । स च लक्षणां विना नाव-गम्यत इति लक्षणाऽऽश्रयणीया । न च शक्यसम्बन्धाभावः । मोक्षकामनायाः स्वर्गादीतरकामना-निवृत्त्या व्याप्तेरेव शक्यसम्बन्धत्वादिति भावः । जरामरणमोक्षकामानां मोक्षकामनारहितानां च स्वर्गादीतरफलकामनासाम्यं शक्यसम्बन्ध इत्यप्याहुः ।
अस्य ‘जरामरणमोक्षाय’ इति पदस्य । सप्तम्यर्थः– मोक्षविषयेति । अन्यसक्तेः स्वर्गादीतर-फलसक्तेः । भाष्यगतेतरशब्दार्थः– इतरस्यामुमुक्षोर्भक्तस्येति । ‘एकान्तभक्तिभाग्वरः’ इति श्रवणादिति भावः । सर्वथा न विधिः कुत इति कृतचोद्यस्य भाष्यारूढमुत्तरमाह– न हीति ।। अनुद्दिष्टमोक्षके भगवद्भजने प्रशस्ते सम्भवति, अप्रशस्तं तदुद्देश्यकं भजनं न विधातुमुचितमित्यर्थः । भाष्ये ‘आत्यन्तिकं मुक्तिहेतुम्’ इति द्वितीये टीका । ‘मुक्तिमपि नेच्छन्ति’ इत्यर्थ इति तत्र प्राचीनटीका । ननु भाष्ये ‘मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्’ ‘नात्यन्तिकम्’ इति चेतरस्तुतेरित्येकवाक्ये कर्तुं शक्येऽपि किमिति ‘नात्यन्तिकमिति चेतरस्तुतेः’ इति पृथगुक्तिरित्यत आह– प्रकारभेदादिति ।। नारदीये ‘वरः’ इत्यमुमुक्षुस्तुतिर्मुख्यत आवेद्यते । भागवते च ‘न विगणयति’ इत्यनेनार्थात् तत्स्तुतिरुन्नीयत इति प्रकारभेदात् पृथग्वचनद्वयोदाहरणमित्यर्थः ।
भावदीपिका
।। उक्तानुवादेनेति ।। इत्युक्तस्यानुवादेनेत्यर्थः । फलमुच्यते ‘जरामरणमोक्षायेति श्लोकेन’ इति शेषः । तत्र पूर्वार्धेनानुवादः, उत्तरार्धेन फलकथनमिति मन्तव्यम् । अप्राप्तत्वेनानुवादासम्भवादित्यन्वयः । विधिप्रकारमेव दर्शयति– मद्भजनं चेति ।। लक्षणयेति ।। मोक्षकामनायाः स्वर्गादिकामनानिवृत्त्या व्याप्तिरेव शक्यसम्बन्ध इति भावः । अन्यसक्तेः स्वर्गादिविषयकसक्तेः सकाशात् । अमुमुक्षोः मोक्षकामनारहितस्य । ननु कथमनेन विध्यसम्भव उक्त इत्यत आह– नहीति ।। जरामरणमोक्षानुदुद्देशेन भजने प्रशस्ते विद्यमानेऽपि तदुद्देशेन भजनमप्रशस्तं न विधातुं युक्तमित्यर्थः ।
ननु ‘ममुक्षोः’ ‘नात्यन्तिकम्’ इत्युभयोरपि वाक्ययोरेकार्थत्वादेकेनैव वाक्येनोदाहृतेनालम्, किं पृथक् ‘नात्यन्तिकम्’ इति वाक्योदाहरणेनेत्यत आह– प्रकारभेदादिति ।। वरत्वोपपादक-योरेकान्तभक्तिभाक्त्व-आत्यन्तिकप्रसादानिच्छुत्वरूपयोः प्रकारयोर्भेदात् तयोश्चात्र कथितत्वात्, पृथग्वाक्यद्वयोक्तिरित्यर्थः । यद्वा मद्भजनं च जरामरणोद्देशेन कार्यमिति विधित्वप्रतीतिनिरासस्य ‘अन्यकामनिवृत्त्यर्थम्’ इति पक्षोक्त्या, ‘मोक्षे सक्तिस्तुत्यर्थम्’ इति पक्षोक्त्या वा सम्भवेन पृथक् पक्षद्वयोक्तिः किमर्थमित्यत आह– प्रकारभेदादिति ।। विधित्वनिरासः प्रकारद्वयेनापि भवतीति पृथक् पक्षद्वयोक्तिरित्यर्थः ।।
भावप्रकाशः
।। लक्षणयेति ।। न च शक्यसम्बन्धाभावः । मोक्षकामनायाः स्वर्गादिकामनानिवृत्त्याव्याप्तेरेव शक्यसम्बन्धित्वादित्याशयात् । प्रकारभेदादिति । पूर्ववाक्ये वर इति कण्ठत इतरस्तुतिरुत्तरत्र न विगणयन्तीत्यर्थ इति प्रकारभेदादित्यर्थः ।