सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ।। २१ ।।
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ।। २१ ।।
भाष्यम्
तत्त्वतः भगवद्रूपात् ।। २१ ।।
भावप्रदीपिका
तत्त्वतः इति यथार्थत इत्याशङ्कां निराकर्तुं व्याचष्टे– तत्त्वत इति ।। २१ ।।
भावप्रकाशिका
‘स्वस्य तद्रूपत्वान्न चलति’ इत्युक्तेऽध्याहारस्य दोषः । सर्वप्रमाणविरोधश्च । अतो यत्र समाधौ स्थितो विषयभूतभगवद्रूपान्न चलतीत्येवार्थ इत्याह– तत्त्वत इति ।।
‘अतीतानागते काले यत्तादृशमुदीर्यते ।
कथञ्चिदन्यथा नेयात् तत् तत्त्वं तत्त्वतो विदुः’
इति वचनात् तत्त्वं हि भगवद्रूपम् ।।
प्रमेयदीपिका
तत्वतः तद्भावात् ब्रह्मत्वात् इति प्रमाणविरुद्धं व्याख्यानं व्यावर्तयितुमाह– तत्वत इति ।।
भावरत्नकोशः
।। तस्य भावः तत्त्वम्, तस्मात् तद्भावात् । तच्छब्दश्च ‘ॐ तत्सदिति निर्देशो ब्रह्मणः’ इति शास्त्राद् ब्रह्मार्थ इति परभावं हृदि कृत्वाऽऽह तत्त्वत इति ।। व्याख्यानमिति ।। तथा च सङ्करः ‘आत्मस्वरूपे स्थितः, तत्त्वतः तत्त्वस्वरूपाद् ब्रह्मत्वात् न प्रच्यवते’ इति । प्रमाणविरुद्धम् इति हेत्वर्थगर्भं विशेषणम् । सर्वश्रुतिस्मृतीतिहासपुराण-विरुद्धत्वादित्यर्थः । तत्त्वशब्दस्येश्वरार्थकत्वं ‘तत्त्वं चिदचिदीशेषु स्वरूपे निश्चयार्थयोः’ इति प्रसिद्धाभिधानसिद्धमिति ‘भगवद्रूपात्’ इत्युक्तमिति भावः । तथा च प्राचीनटीका
‘अतीतेऽनागते काले यत्तादृशमुदीर्यते ।
कथञ्चिदन्यथा नेयात् तत्तत्त्वं तत्त्वतो विदुः ।।’
इति वचनात् तत्त्वं हि भगवद्रूपमिति ।
यत्र समाधौ स्थितः बुद्धिग्राह्यमनुभववेद्यम् अतीन्द्रियम् इन्द्रियाग्राह्यम्, अत्यन्तमेव भवतीति आत्यन्तिकं तत्र शास्त्रप्रसिद्धं सुखं वेत्ति अनुभवति । यत्र च योगे स्थितो यं योगी तत्त्वतः तस्य भावस्तत्त्वम्,
‘अतीतेऽनागते काले यत्तादृशमुदीर्यते ।
कथञ्चिदन्यथा नेयात् तत्तत्त्वं तद्विदो विदुः ।।’
इति वचनात् भगवद्रूपात् न चलतीति यत् ।। २१ ।।
भावदीपिका
।। तत्त्वत इति ।। तस्य भावस्तत्त्वम्, तस्मात् तत्त्वत इत्यर्थ-मभिप्रेत्य ‘तद्भावात्’ इत्युक्तम्, तस्याप्यर्थमाह– ब्रह्मत्वादिति ।। न चलतीत्यर्थः ।। २१,२२ ।।