तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ।। २८ ।।

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ।। २८ ।।

भाष्यम्

कर्मभेदस्य गुणभेदस्य च तत्त्ववित् । गुणाः इन्द्रियादीनि । गुणेषु विषयेषु ।। २८ ।।

भावप्रदीपिका

द्वितीयं व्याचष्टे– कर्मेति ।। ‘मुख्यतः परमात्मनः कर्म, अस्वतन्त्रः जीवः’ इति कर्मविभागः । ‘इन्द्रियाणि मुख्यतः परमात्मकरणानि, जीवस्या-मुख्यतः’ इति गुणविभागः ।। २८ ।।

भावप्रकाशिका

द्वितीयं व्याचष्टे– कर्मभेदस्येति ।। ‘स्वतन्त्रकर्तृत्वं विष्णोरेव, तदधीनस्वतन्त्रकर्तृत्वं स्थावरापेक्षयैव जीवस्य, विकारलक्षणमेव कर्तृत्वं प्रकृतेः’ इति कर्मभेदः । ‘ब्रह्मादीनां सर्वेषामिन्द्रियाणि शरीरं च भगवतैव प्रयोज्यानीति तस्यैव गुणभूतानि, भगवतैव क्वचिज्जीवापेक्षयाऽपि प्रयोज्यन्त इति जीवानामपि गुण-भूतानि, तान्येव प्रकृत्युपचितानीति प्रकृतेरपि गुणभूतानि’ इति गुणभेदः । एवमनयोः तत्त्ववित् भगवतैव प्रेरिता इन्द्रियादिगुणास्तदधीनेषु शब्दादिगुणेषु प्रवर्तन्त इति मत्वा न सक्तः स्यादिति भावः ।। २८ ।।

प्रमेयदीपिका

गुणानां कर्मणां चान्योन्यं यो विभागस्तस्मिन् वक्तव्ये एकवचनेनालम् । कथं द्विवचनम्? केन वाऽस्यान्वयः? इति शङ्कां विभागशब्दस्यार्थं वदन् परिहरति– कर्मेति ।। जीवेश्वरप्रकृतिलक्षणसम्बन्धिभेदात् कर्मणामिन्द्रियादीनां च भेदोऽत्र विवक्षितो ग्रन्थान्तराद् अवगन्तव्यः । ‘गुणाः’ ‘गुणेषु’ इति पदद्वयस्य विवक्षितमर्थमाह– गुणा इति ।। २८ ।।

भावदीपः

।। जीवेश्वरेति ।। गीतायां प्रकृतिपदेन जीवस्वभाव–ईश्वर–जड-प्रकृतिरूपाः त्रयोऽर्था विवक्षिताः । तथाच प्रकृतेः जीवस्य स्थावरापेक्षायेश्वरायत्तस्वतन्त्रकर्तृकं कर्म, ईश्वरस्य तु परानधीनस्वतन्त्रकर्तृकं कर्म, प्रकृतेस्तु विक्रियारूपं कर्मेति कर्मणां भेदः, तथा प्रकृतेर्जीवस्वभावस्य गुणा गुणानीन्द्रियाणि, प्रकृतेरीश्वरस्य गुणा इच्छादयः, प्रकृतेर्गुणाः सत्वादय इति गुणशब्दितेन इन्द्रियादीनां भेदम् ।। ग्रन्थान्तरात् गीतातात्पर्यरूपग्रन्थान्तरात् ‘यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव’ इत्यादिरूपादित्यर्थः ।। २८ ।।

भावरत्नकोशः

।। अस्य ‘गुणकर्मविभागयोः’ इत्यस्य । ननु गुणकर्म-विभागयोस्तत्त्वज्ञानी गुणा इन्द्रियाणि गुणेषु विषयेषु प्रवर्तन्त इति मत्वा नाभिमानवान् भवतीति गीतायाम् इन्द्रियकर्मविभागज्ञानस्याभिमानाभावं प्रति प्रयोजकत्वमुक्तमयुक्तम् । ‘प्रत्यक्षं सप्तविधम् , साक्षिषडिन्द्रियभेदेन । उत्क्षेपण–अपक्षेपण–आकुञ्चन–प्रसारण–गमन-भेदात् कर्म पञ्चविधम्’ इत्युक्तेन्द्रियकर्मविभागज्ञानवतोऽभिमानाभावादर्शनादित्यत आह– जीवेश्वरेति ।। गुणकर्मविभागशब्देन नोक्तोे विभागो विवक्ष्यते । किन्तु स्वतन्त्रकर्तृत्वं विष्णोरेव । तदधीनस्वतन्त्रकर्तृत्वं स्थावरापेक्षयैव जीवस्य । विकारलक्षणमेव कर्तृत्वं प्रकृतेरिति कर्मभेदः । ब्रह्मादीनां सर्वेषां जीवानाम् इन्द्रियाणां शरीरं च भगवतैव प्रयोज्यानीति भगवत एव गुणभूतानि । भगवतैव क्वचिज्जीवापेक्षयाऽपि प्रयोज्यन्त इति जीवानामपि गुणभूतानि । तान्येव प्रकृत्युपचितानीति प्रकृतेरपि गुणभूतानीति गुणभेदः, इत्येवं गुणकर्मविभागयोस्तत्त्ववित्’ इति प्राचीनटीकारीत्या गुणकर्मविभाग एव विवक्ष्यते । तथा च भगवतैव प्रेरिता इन्द्रियादिगुणाः तदधीनेषु शब्दादिगुणेषु वर्तन्त इति मत्वा न सज्जते । इन्द्रियेषु स्वातन्त्र्येणेश्वरस्वामिकत्वाज्ञाने ममैवैतानि करणानीति मिथ्यामतिरूपेन्द्रियाभिमानवान् भवति । कर्मणि च स्वातन्त्र्येणेश्वर-कर्तृकत्वज्ञाने सति स्वस्य स्वातन्त्र्याभिमानवान्न भवति । विप्रतिषेधात् । तत एवंविधगुणकर्म-विभागज्ञानवान् इन्द्रियेषु शोभनाध्यासनिमित्तकस्नेहरूपाभिमानवान् कर्माभिमानवांश्च न भवतीति भावेन तत्र प्रमाणं दर्शयितुमुक्तम् – ग्रन्थान्तरादिति ।।

यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगम् ।

 तदधीनस्वतन्त्रत्वं स्थावरापेक्षयैव तु ।।

 जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् ।

 पुमान् दोग्धाऽथ गौर्दोग्ध्री स्तनो दोग्धेतिवत् क्रमात् ।।’ (ब्रह्मतर्के)

इति गीतातात्पर्यनिर्णयाख्यग्रन्थान्तराद् इत्यर्थः । एतेन ‘विभागे वक्तव्ये एकवचनेनालम्’ इत्यपि निरस्तम् । जीवादिप्रतिसम्बन्धिभेदेन गुणानां कर्मणां च विभागानां द्वैराश्येन द्विवचनोपपत्तेः । तदाह ‘कर्मणामिन्द्रियादीनां च भेदः’ इति । केन चास्यान्वयः ? इति शङ्काऽपि ‘कर्मभेदस्य, गुणभेदस्य च तत्त्ववित्’ इत्यन्वयप्रदर्शनेन भाष्य एव परिहृतेति । विवक्षितमिति । तस्य नानार्थत्वादिति भावः । इन्द्रियादीनि इन्द्रियशरीरमनांसि । विषयेषु शब्दादिष्विति भाष्यार्थः ।। २८ ।।

अक्षरार्थस्तु– गुणकर्मविभागयोस्तत्त्ववित्तु ब्रह्मादीनां सर्वेषां जीवानाम् इन्द्रियाणि शरीरं च भगवतैवेच्छया प्रयोज्यानीति भगवत एव गुणभूतानि, भगवतैव क्वचिज्जीवापेक्षयाऽपि प्रयोज्यन्त इति जीवानामपि गुणभूतानि, तान्येव प्रकृत्युपचितानीति प्रकृतेरपि गुणभूतानीति गुणभेदः । स्वतन्त्रकर्तृत्वं विष्णोरेव, तदधीनस्वतन्त्रकर्तृत्वं स्थावरापेक्षयैव जीवस्य, विकार-लक्षणमेव कर्तृत्वं प्रकृतेः, इत्येवंरूपयोर्गुणकर्मविभागयोर्याथार्थ्यं विजानन् विद्वांस्तु गुणाः भगवदधीनानीन्द्रियादीनि गुणेषु शब्दादिविषयेषु वर्तन्ते । न पुनर्जीवस्य क्वापि स्वातन्त्र्यम् इति मत्त्वा न सज्जते स्वात्मनः कर्तृत्वाभिमानेन संसारमग्नो न भवतीति विद्वत्कर्मोक्तम् ।। २८ ।।

भावदीपिका

।। एकवचनेनेति ।। ‘गुणकर्मविभागस्य’ इत्येकवचनेनेत्यर्थः । द्विवचनं ‘गुणकर्मविभागयोः’ इति द्विवचनम् । ननु कथं कर्मभेदः? कथं च गुणशब्दो-क्तेन्द्रियाणां च भेदः? इत्यत आह– जीवेश्वरेति ।। ग्रन्थान्तरात् गीतातात्पर्यात् ।। विवक्षित-मर्थमाहेति ।। तथा च गुणा इन्द्रियाद्या ईश्वरप्रेरिताः सन्तो गुणेषु विषयेषु वर्तन्ते प्रवर्तन्ते । तत्र न मम किञ्चित् स्वातन्त्र्यमस्तीति मत्वा न सज्जते इति गीतार्थो द्रष्टव्यः ।। २८ ।।

भावप्रकाशः

 ननु ‘तत्त्ववित्’ इति श्लोकेऽभिमानाभावं प्रतीन्द्रियाद्यवान्तर-भेदज्ञानस्य प्रयोजकत्वमुक्तम् । इन्द्रियाद्यवान्तरभेदस्य कर्मावान्तरभेदस्य च तत्त्वज्ञान-वानिन्द्रियादीनि विषयेषु प्रवतनर््त इति मत्वा तत्राभिमानवान्न भवतीति । न च तद्युक्तम् । ‘प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम्’ इत्याद्युक्तेन्द्रियाद्यवान्तरभेदज्ञानेनाभिमानाभावाद् इत्यत आह– जीवेश्वरेति ।। स्वातन्त्र्येणेश्वरकर्तृकत्वं, तदधीनतया जीवकर्तृकत्वं, प्रकृति-कार्यत्वं चेति कर्मणि धर्मभेदः । स्वातन्त्र्येणेश्वरस्वामिकत्वं, तदधीनतया जीवस्वामिकत्वं, प्रकृत्युपादानकत्वं चेति इन्द्रियादिषु धर्मभेदश्च भेदशब्दार्थः । अयं च जीवादिसम्बन्धिभेदे निमित्तकः । तथा च ‘प्राकृतम्’ इत्याद्युक्तावान्तरभेदज्ञानाद् अभिमानाभावाभावेऽप्युक्तरूपधर्म-भेदज्ञानात् स्यादेव ।

तथा हि । यदेन्द्रियेषु ‘स्वातन्त्र्येणेश्वरस्वाकित्वम्’ इत्यादिधर्मभेदज्ञानं तदा ‘ममैवैतानि स्वातन्त्र्येण करणानि’ इति भ्रमरूपेन्द्रियाभिमानो न भवति । एवं शरीरमनसोरपि ज्ञेयम् । तथा कर्मणि स्वातन्त्र्येणेश्वरकर्तृकत्वादिज्ञाने स्वातन्त्र्यभ्रमरूपोऽभिमानो न भवति । विरोधात् । इन्द्रियाभिमानाभावे कर्माभिमानासम्भवाच्च । यद्वक्ष्यति । ‘इन्द्रियाद्यभिमानाद्धि विषयादिसङ्ग’ इति । ततश्चोक्तविषयेन्द्रियादिभेदतत्त्वज्ञानवान् इन्द्रियादीनि विषयेष्वीश्वरप्रेरणया प्रवतनर््त इति मत्वेन्द्रियाद्यभिमानवान् शोभनाध्यासनिमित्तकस्नेहरूपविषयाद्यभिमानवान् कर्माभिमानवांश्च न भवतीति गीतार्थ इति भावः । अयं सर्वोऽप्यर्थो–

यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगम् ।

 तदधीनस्वतन्त्रत्वं स्थावरापेक्षयैव तु ।

 जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् ।।

नाहं कर्ता हरिः कर्ता’ इत्यादिगीतातात्पर्यनिर्णयादवदसेयमित्याह– ग्रन्थान्तरादिति

।। २८ ।।