तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ।। १९ ।।

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।

अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः  ।। १९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– तुल्ये निन्दास्तुती यस्य स तथा निन्दास्तुत्युपनतिनिबन्धनविकारहीनः, मौनी नियतवाक्, अनिकेतः आवासभूम्यभिमानहीनः, भगवदाश्रयो वा । ‘यो मद्भक्तः स मे प्रियः’ इत्यादौ भक्तिरभ्यस्यते तस्येदं प्रयोजनम् ये भागवतधर्मा उक्ताः तेषु सर्वेष्वपि भक्तिरेवाधिकेति ज्ञापनम् ।। १९ ।।