महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ।। २५ ।।

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ।। २५ ।।

भावरत्नकोशः

महर्षीणामिति ।। महर्षीणां ‘मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च’ इत्युक्तानाम् अन्येषां च शास्त्रोक्तानां महर्षीणां मध्ये भृगुरहम् अस्मि । गिरां वाचां पदलक्षणानां मध्ये एकमक्षरं प्रणवोऽस्मि । यज्ञानाम् अग्निहोत्रादीनां मध्ये ज्ञानयज्ञं विना जपयज्ञः जपात्मकदेवपूजारूपकर्मास्मि । इति सजातीयैकदेशश्रैष्ठ्यदविभूतिः । स्थावराणां स्थितिमतां हिमालयः हिमवान् पर्वत इति ।। २५ ।।