तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ।। २४ ।।
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ।। २४ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु तस्मादिति ।। तस्माद् ओङ्कारस्य भगव-न्नामत्वाद् ओमित्युदाहृत्य ओङ्कारार्थभगवद्ध्यानपूर्वकं तमुच्चार्य ब्रह्मवादिना तृतीयार्थे षष्ठी, वेदवदनशीलैः ब्राह्मणैः क्रियमाणाः विधानोक्ताः शास्त्रचोदिताः यज्ञदानतपःक्रियाः सततं सर्वदा प्रवर्तन्ते । केचित्तु ‘प्रवर्तन्ते’ इत्येतत् ‘प्रवर्त्यन्ते’ इति व्याख्येयम्, तेन ‘उदाहृत्य’ इति ल्यबुपपत्तिः । पूर्वव्याख्याने ‘यष्टृभिः’ इत्यध्याहर्तव्यमित्याहुः । अत्र ‘ब्राह्मणाः’ इत्यादिसार्ध-श्लोकेन ब्राह्मणेषु वेदानाम् वेदेषु यज्ञादीनाम् ओतत्वात् यज्ञदानतपःक्रिया अपि ब्रह्मवेदशब्दार्थ इत्यावेदितम् । तथा च भाष्यम् ‘ओं यज्ञाद्याः’ इति । वेदाद्योतत्वात् ‘यज्ञाद्या ओंशब्दवाच्याः’ इति । ‘ओं तत्सदित्यनेन ब्रह्मणो यत् नामत्रयं तद् यज्ञादेरपि वाचकम्’ इति टीकावाक्यमपि यज्ञादेराशब्दार्थमाहेति बोद्धव्यम् ।। २४ ।।