स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छ्रृणु ।। ४५ ।।

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छ्रृणु ।। ४५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अस्त्वेवं ब्राह्मणादीनां कर्माणि विभक्तानीति । ततः किम् इत्यत उच्यते– स्वे स्वे कर्मणीति ।। ‘पूर्वादिभ्यो नवभ्यो वा’ इति स्मिनो विकल्पितत्वात् ‘स्वे’ इति प्रयुक्तम् । स्वे स्वे स्वस्वाधिकारविहिते कर्मणि अभिरतः परिनिष्ठितो नरः स्वस्वकर्मणा भगवन्तमाराधयन्निति यावत् संसिद्धिं समीचीनं ज्ञानम् तद्द्वारकं मोक्षं वा लभते । स प्रकार एव प्रतिज्ञापूर्वकं विविच्यते– स्वकर्मेति ।। यथा येन प्रकारेण सिद्धिं विन्दति लभते तत् तत्प्रकारं शृणु ।। ४५ ।।