यततो ह्यपि कौन्तेय पुरुषस्य विजानतः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।। ६० ।।
यततो ह्यपि कौन्तेय पुरुषस्य विजानतः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।। ६० ।।
भाष्यम्
अपरोक्षज्ञानरहितज्ञानिनोऽपि साधारणयत्नवतोऽपि मनो हरन्ति इन्द्रियाणि । पुरुषस्य शरीराभिमानिनः । को दोषस्ततः । प्रमाथीनि प्रमथनशीलानि पुरुषस्य ।। ६० ।।
भावप्रदीपिका
ननु किमपरोक्षज्ञानोपवासादिना ? परोक्षज्ञानेन प्रत्या-हारादिना रसेन्द्रियजयसिद्धेरित्येतत्परिहर्तुं द्वितीयं श्लोकं व्याचष्टे– अपरोक्षेति ।। ६० ।।
भावप्रकाशिका
ननु किं हर्यपरोक्षज्ञानेन ? किन्तु सर्वोत्तमत्वात् सर्वेन्द्रिय- संसेव्यो हरिरिति परोक्षज्ञानादेवोक्तो रसो निवर्तिष्यते । तथा किं निराहारत्वेन ? किन्तु प्रत्याहारादिसाधारणयत्नादेवेतरे विषया विनिवर्तिष्यन्त इत्याशङ्कोत्तरत्वेनोत्तरश्लोकं व्याचष्टे– अपरोक्षेति ।। ‘हि’शब्देन प्रसिद्धमेतदजामिादाविति सूचितम् । नोदाहरणं भाष्ये । पुरे सक्तत्वात् पुरुषः शरीराभिमानी ।। ६० ।।
प्रमेयदीपिका
ननु यत्नज्ञानाभ्यामिन्द्रियजयमुक्त्वा ‘यततो ह्यपि’ इति तद्विरुद्धं कथमुच्यते? इति चेत् न । इन्द्रियजयार्थं किं निराहारत्वलक्षणेन महाप्रयत्नेन? प्रत्याहारादिना साधारणेन प्रयत्नेन तत्सम्भवात् । तथा किमपरोक्षज्ञानेन? नित्यानित्य-विवेकज्ञानेनापि तदुपपत्तेरित्याशङ्क्य तन्निषेधोऽत्र क्रियत इत्याशयवान् व्याचष्टे– अपरोक्षेति ।। ज्ञानस्य प्राधान्यसूचनाय ‘विपश्चितोऽपि’ इत्येतत् पश्चादुक्तमपि ‘अपरोक्ष’ इति, आदौ व्याख्यातम् । ‘यततोऽपि’ इत्यस्यार्थः– साधारणेति ।। ‘हरन्ति’ विषय-सन्निकृष्टानि तदभिमुखं कृत्वा तद्रागीकुर्वन्तीत्यर्थः । ‘पुरुषस्य’ इति व्यर्थम् । स्त्रीणा-मप्येवम्भावादित्यत आह– पुरुषस्येति ।। एतच्चोक्तोपपादनार्थम् । ‘प्रमाथीनि’ इत्यस्य प्रयोजनं वक्तुमाह– क इति ।। एतावता आत्मनस्तदविजयः कथमित्याशयः ? मनो हृतवन्ति पुरुषस्य क्षोभणशीलानीति न तेन जितानीति भावः । ‘पुरुषस्य’ इत्यनेन उभयत्रास्यान्वयं दर्शयति ।। ६० ।।
भावबोधः
।। उक्तोपपादनार्थमिति ।। प्रत्याहारादिसाधारणप्रयत्ननित्यानित्य-वस्तुविवेकज्ञानवतोऽपीन्द्रियजयाभावे शरीराभिमानस्य हेतुत्वादिति भावः । उभयत्रेति ।। ‘पुरुषस्य प्रमाथीनि’ पुरुषस्य मनः’ इत्युभयत्रेत्यर्थः ।। ६० ।।
भावदीपः
।। तदुपपत्तेरिति ।। रागक्षयोपपत्तेरित्यर्थः ।। उक्तोपपादनायेति ।। ‘मनोहरन्ति’ इत्याद्युक्तोपपादनाय शरीराभिमानिन इत्यर्थः ।। एकं ‘पुरुषस्य’इति पदमित्यर्थः ।। उभयत्रेति ।। ‘पुरुषस्य मनो हरन्ति, पुरुषस्य प्रमाथीनि’ इत्युभयत्रेत्यर्थः ।। ६० ।।
भावरत्नकोशः
‘निराहारस्य’ इति, ‘दृष्ट्वा’ इति चोक्तत्वादाह– यत्नज्ञा-नाभ्यामिति ।। तद्विरुद्धम् इन्द्रियजयोक्तिविरुद्धम् । ‘न’ इत्यनन्तरम् अत्र श्लोके महा-प्रयत्नवतोऽपीन्द्रियाणि न जेतुं शक्यानीत्यभिधानस्य क्रियमाणत्वात्, ‘तथाऽभिधाने ह्युक्त-विरोधः । किं तर्हि क्रियत इति चेत्’ इति शेषः । प्रत्याहारादिनेति ।।
‘इन्द्रियाणां विचरणं विषयेषु स्वभावतः ।
बलादाहरणं तेषां प्रत्याहारस्स उच्यते ।।’
इत्युक्तप्रत्याहारः । आदिपदेन ‘अपरे नियताहाराः’ इत्यादौ नियताहारत्वस्येन्द्रियजय-हेतुत्वाभिधानान्नियताहारत्वस्य सङ्ग्रहः तेनेत्यर्थः । तत्सम्भवात् इन्द्रियजयसम्भवात् । तदुपपत्तेः रागक्षयोपपत्तेः । क्रमात् पश्चाद् व्याख्येयस्याप्यादौ व्याख्याने बीजमाह– ज्ञानस्येति ।। अपरोक्षज्ञानस्येत्यर्थः । ‘विपश्चितोऽपि’ इत्यनुवादेनैवापिशब्दोऽत्राप्यन्वेतीति ज्ञायते । अत एव भाष्ये उभयत्रापिपदम् । असन्निहितविषयाणां, विषयसन्निधानेऽप्यसन्निकृष्टानाम् इन्द्रियाणां मनोहर्तृत्वमनुभवविरुद्धम् । हरणं च किं विवक्षितमित्यतः ‘मनो हरन्तीन्द्रियाणि’ इति भाष्यं सोपस्करं व्याख्यति – हरन्तीत्यादि ।। एवम्भावात् मनोहरणादिभावात् ।
एवमपि कथं वैयर्थ्यं परिहरणीयं? तत्राह– एतच्चेति ।। प्रत्याहारादिसाधारणप्रयत्ने, नित्यानित्यविवेकज्ञाने च सत्यपि इन्द्रियजयो न भवतीत्युक्तार्थोपपादनाय शरीराभिमानिन इत्यर्थकं पुरुषपदं प्रयुक्तमित्यर्थः । पुरं शरीरं सरति गच्छत्यभिमनुत इति पुरुषः । निरुक्त-त्वादुकारः । ततः षत्वम् । शरीराभिमानो हीन्द्रियजयहेतुरिति तदावेदकं तत्पदं सार्थकमिति भावः । ‘ततः’ इत्यस्यार्थः – एतावतेति ।। इन्द्रियाणां स्वद्वारा विषयसन्निकृष्टे मनसि रागोत्पादकत्वमस्तीत्येतावता । तदविजयः इन्द्रयाविजयः । इन्द्रियाणि मनो हरन्तीत्यस्य मनो हृतवन्तीति ।। प्रथमनशब्दार्थः– क्षोभणेति । व्याकुलीभावसम्पादनस्वभावानीत्यतो न तेन पुरुषेण विजितानीत्यर्थः । उभयत्र मन इत्यत्र, प्रमाथीनीत्यत्र च ।। ६० ।।
भावदीपिका
।। यत्नः निराहारत्वरूपः । ज्ञानम् अपरोक्षं ताभ्यामित्यर्थः । प्रत्याहारः विषयेभ्यो मनस आहरणम् । तत्सम्भवात् इन्द्रियजयसम्भवात् । तदुपपत्तेः इन्द्रियजयोपपत्तेः ।। तन्निषेध इति ।। साधारणयत्नज्ञानयोर्निषेध इत्यर्थः । ननु ‘यततोऽपि’ इत्यादौ व्याख्येयम् । तद्विहाय पश्चादुक्तं ‘विपश्चित’ इति पदमादौ कस्माद् व्याख्यातमित्यत आह– ज्ञानस्येति ।। साधारणप्रयत्ननित्यानित्यविवेकज्ञानयोर्मध्ये नित्यानित्यविवेकज्ञानस्य प्राधान्यसूचनायेत्यर्थः ।। सन्निकृष्टानि इन्द्रियाणि ।। द्वितीयान्तस्य मनःपदस्याध्याहारः कार्यः । तदभिमुखं विषयाभिमुखम् । तद्रागि विषयविषयकाकाङ्क्षायुक्तम् । एवम्भावात् ‘इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन’ इत्युक्तप्रमेयस्य भावादित्यर्थः ।। उक्तोपपादनार्थमिति ।। प्रत्याहारादिसाधारणप्रयत्ननित्यानित्यवस्तुविवेकज्ञानवतोऽपि इन्द्रियजयाभावे शरीराभिमान एव कारणमित्युक्तोपपादनार्थं पुरुषस्येति विशेषणमित्यर्थः ।
मूले – ‘ततः इन्द्रियाणां मनोहरणात् को दोषः’ इत्यस्याऽशयमाह– एतावतेति ।। ‘इन्द्रियाणि मनो हरन्ति’ इत्येतावतेत्यर्थः । तदविजयः इन्द्रियाविजयः । प्रमथनशीलानीत्यस्य भावमाह– मनो हृतवन्तीति ।। हृतवन्ति सन्ति तेनाऽत्मना न जितानि । तथा चाऽत्मन-स्तदविजय इति भावः ।। उभयत्रेति ।। पुरुषस्य प्रमाथीनि पुरुषस्य मनो हरन्तीत्युभयत्रेत्यर्थः
।। ६० ।।
भावप्रकाशः
।। प्रत्याहारादिनेति ।।
‘इन्द्रियाणां विचरतां विषयेषु स्वभावतः ।
बलादाहरणं तेषां प्रत्याहारः स उच्यते’
इत्युक्तप्रत्याहारेत्यर्थः । आदिपदेन नियताहरत्वस्य सङ्ग्रहः । चतुर्थे ‘अपरे नियताहाराः’ इत्यादिना तस्येन्द्रियजयहेतुत्वोक्तेः । उक्तोपपादनार्थमिति ।। प्रत्याहारादिसाधारणप्रयत्ने नित्यानित्यवस्तुविवेकज्ञाने च सत्यपि इन्द्रियजयो न भवतीत्यत्र शरीराभिमानस्य हेतुत्वादिति भावः । उभयत्रेति ।। मन इत्यत्र प्रमाथीनीत्यत्र चेत्यर्थः ।। ६० ।।