यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथ वाऽप्यच्युत तत्समक्षं तत् क्षामये त्वामहमप्रमेयम् ।। ४२ ।।
यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथ वाऽप्यच्युत तत्समक्षं तत् क्षामये त्वामहमप्रमेयम्
।। ४२ ।।
भाष्यम्
एकस्त्वमेव कारयिता नान्योऽस्ति, अथापि ।। ४२-४९ ।।
भावप्रदीपिका
त्वमहं चैकोऽथ वाऽपि लोकतः क्षामय इत्यन्यथा-प्रतीतिनिरासाय, एकोऽथ वा इत्येतद्व्याचष्टे– एक इति । यद्यपि नावज्ञेयोऽसि सर्वोत्कृष्टत्वात् । तथाऽप्यसत्कृतोऽसीत्यर्थः ।।
प्रमेयदीपिका
‘एकः परोक्षः’ इति क्लिष्टं व्याख्यानमिति ज्ञापयितुं तदर्थमन्वयं च दर्शयति– एक इति ।। आद्याक्षरग्रहणेन ‘ए’शब्दः एकस्य द्योतकः । क इति कशब्दः कारयितृत्वद्योतकः । अन्तर्णीतण्यर्थात् करोतेर्डः । अथापि एवम-सत्कारार्होऽप्यसत्कृतोऽसि ।। ४२-४९ ।।
भावबोधः
।। करोतेर्ड इति ।। डित्वाट्टिलोपे क इति स्थिते ए चासौ कश्चेति एक इत्यर्थः । तच्चोक्तम् ‘एकस्सर्वाधिको ज्ञेय एक एव करोति यत्’ इति ।
।। इति श्रीरघूत्तमतीर्थप्रणीता भावबोधाभिधा टिप्पणी एकादशोऽध्यायः ।।
भावदीपः
।। अथापीति ।। भाष्यपदानुवादः ।। ४२-४९ ।।
वाक्यार्थप्रदीपः
।। करोतेर्ड इति ।। डित्वाट्टिलोपे क इति रूपे सिद्धे एचासौ कश्चेति इत्यर्थः ।।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां विद्याधीशतीर्थपूज्यचरणानां निजशिष्यकेशवेन विरचिते
व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे एकादशोध्यायः ।।
भावरत्नकोशः
‘एकः परोक्षः सन् असत्कृतोऽसि’ इति शङ्करभाष्यं दूषयितुं भाष्यमित्याह– एक इति ।। क्लिष्टमिति ।। ‘एके मुख्यान्यकेवलाः’ इत्यभिधानात्, ‘एक-शब्दोऽयं बह्वर्थः’ इति भाष्यात्, ‘एक,मुख्य, असहाय, प्रधान, प्रथम,समानार्थः’ इति कैयट-वचनाच्च नानार्थः । तत्रान्यार्थायोगाद् एक अन्यो यः कोऽपीत्यर्थः, ‘परोक्षः’ इति यावदिति वक्तव्यत्वात् क्लिष्टमित्यर्थः । एशब्दः एकशब्दस्य द्योतकः । कथम् ? आद्यक्षरग्रहणेन एकशब्दे आद्यक्षरम् एशब्दः, तद्ग्रहणेन । ‘आसीत्’ इत्यस्य द्योतकः ‘आ इदम्’ इत्यत्र ‘आ’ इति वर्णो यथेत्यर्थः । डः ‘डप्रकरणे अन्येष्वपि दृश्यते’ इति वचनप्राप्तडप्रत्ययः । ‘एकः सर्वोत्तमो ज्ञेय एक एव करोति यत्’ इत्येक इति तात्पर्ये । भावप्रदीपिकायां तु ‘त्वमहं च एक एव, अथवा लोकरीत्या त्वां क्षामये’ इति प्रतीतिनिरासाय एकोऽथवेति व्याचष्टे एक इति’ इत्यवतारितम् ‘एकस्त्वमेव’ इति भाष्यम् । ‘अथापि’ इत्यनुवादः ‘एवम्’ इति व्याख्या ।।
गीताक्षरार्थस्तु- किञ्च ‘यच्चापहासार्थमसत्कृतोऽसि’ इत्यत्र एकः आद्यक्षरग्रहणेन एशब्दः एकस्य द्योतकः । अन्तर्णीतण्यर्थात् करोतेः डप्रत्ययः,‘ एकत्वाद् ए’, ‘कारयितृत्वात् कः’ इति एकः सर्वोत्तमः, सर्वव्यापारकारयिता च इत्यसत्कारानर्हत्वे हेतुः । अथापि एवमसत्कारानर्होऽपि असत्कृतः परिभूतः असि । तत् तदपराधजातं समक्षं तव पुरतः क्षामये क्षमां कारयामि । अप्रमेयम् अपरिमेयप्रभावम् ।। ४२ ।।
भावदीपिका
‘परोक्षो बाह्येन्द्रियागोचर’ इत्यर्थ इति आहुः । तन्न । प्रकृतासङ्गतत्वाद् । वस्तुतः ‘एकः परोक्षः’ इत्युक्त्या ‘परोक्षावस्थायाम्’ इति लभ्यते । तथा च ‘समक्षम् असमक्षं चासत्कृतोऽसि’ इत्यर्थो द्रष्टव्यः । आद्याक्षरग्रहणेनेति ।। ‘एकोऽथवा’ इति गीतायाम् ‘ए’इत्याद्याक्षरग्रहणेनेत्यर्थः । करोतेर्ड इति ।। अन्तर्णीतण्यर्थात् ‘कृञ् करणे’ अस्मात् डप्रत्यये डित्त्वात् टीभूतस्य ऋवर्णस्य लोपे, प्रत्ययाकारसम्बन्धे च सति ‘कः’ इति रूपम् ।। ४२ ।।
भावप्रकाशः
क्लिष्टमिति । दृष्टत्वादिति भावः ।। एशब्द इति ।। यथाऽपशब्दः साधुशब्दस्मारकस्ततोऽर्थोबोधः तथा एशब्दः एकशब्दस्मारकः ततोऽर्थधीरिति केचित् । अन्ये तु एकशब्दस्य द्योतकत्वोक्तेः नामैकदेशग्रहणे नामग्रहणमिति न्यायेनैकदेशेन समग्रशब्दो लक्ष्यते । तेन तदर्थो लक्ष्यत इत्येशब्द एकत्व(विशिष्ट)पर इत्याहुः ।। ४२ ।।
।। इति उमर्जीकृष्णाचार्यविरचितः गीताभाष्यभावप्रकाशे एकादशोऽध्यायः ।।