किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ।। १ ।।
।। अष्टमोऽध्यायः ।।
भाष्यम्
अर्जुन उवाच–
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ।। १ ।।
गीताक्षरार्थस्तु- ‘ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ।’ ‘साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।’ इति च यदुक्तं पूर्वाध्यायान्ते, तद् ब्रह्मादिशब्दार्थव्याख्यानम् अत्रादौ क्रियत इति व्याख्यानव्याख्येयभावलक्षणया सङ्गत्या पूर्वानन्तर्यमस्याध्यायस्य । ‘प्रयाणकालेऽपि च माम्’ इत्युक्तव्याख्यानप्रसङ्गेनान्तकालस्मरणफलम्, तदुपायप्रकारः, ब्रह्मप्राप्तिमार्गश्चोच्यते । कर्तव्यस्मरणविषयत्वगम्यत्वादिरूपो भगवन्महिमैव वर्ण्यत इति षट्कान्तर्भावश्च ज्ञातव्यः । तत्र ब्रह्माध्यात्मादिस्वरूपजिज्ञासया अर्जुनः पृच्छतीत्युच्यते– अर्जुन उवाचेति । पप्रच्छेत्यर्थः ।
नन्वर्जुनस्य ज्ञानित्वाद् जानात्येवासौ ‘भगवानेव ब्रह्म’ इति । अतः ‘किं तद् ब्रह्म’ इति प्रश्नः कथं युज्यते ? कारणाभावादिति चेत् । उच्यते । अर्जुनस्य ज्ञानित्वेऽपि युक्तोऽयं प्रश्नः । ‘ते ब्रह्म’ इत्यत्र ब्रह्मणो भगवता ‘तत्’ इति परोक्ष्येणोक्तत्वात्, भगवतोऽन्यदेवात्रोक्तं ब्रह्मेति प्रतीयते । ‘वासुदेवात्मकं ब्रह्म’ इत्यादेः भगवान् ब्रह्मेति प्रतीयते । एवमुभयथा प्रतीतिजनितसंशयस्य प्रश्नकारणस्य सद्भावादिति । ननु ब्रह्मशब्दस्य भगवन्मात्रवृत्तित्वात् कथं ‘तत्’ इति विशेषि-तत्वेऽपि अन्यत्वप्रतीतिरिति चेन्न । ब्रह्मशब्दस्य भगवति मुख्यत्वेऽपि प्रकृतिवेदादेरप्यमुख्यतया तदर्थत्वात्, ‘तत्’ इति विशेषितत्वेन मुख्यार्थासम्भवे अमुख्यार्थः प्रकृत्यादीनां मध्ये किञ्चिदत्र स्यादिति प्रतीतेरप्रतिहतप्रसरत्वात् ।।
ननु ‘तत्’ इति विशेषणेन प्राप्ता ब्रह्मणो भगवदन्यत्वशङ्का ‘साधिभूताधिदैवं माम्’ इत्युपरितनवाक्येन भगवतैव परिहृता ‘ब्रह्म’ इति वक्तव्ये ‘माम्’ इत्युक्तत्वात् । अतः कथं ब्रह्मणो भगवदन्यत्वप्रतीतिः ? इति चेत् यद्यप्येषा प्रतीतिरुपरितनवाक्ये परिहृता । तथाऽपि पुनर्भवेदेव तत्र ‘साधियज्ञं च’ इति चशब्दस्य ‘साधिभूताधिदैवं सधियज्ञं मां च’ इति संयोजने अधिभूतादि-सहितत्वेन ब्रह्मज्ञानादन्यदेव विष्णुज्ञानमुच्यत इति ‘तत्’ इति विशेषणादेव प्रतीतिसम्भवात् । अतो युक्त एवायं प्रश्नोऽर्जुनस्येत्युत्तरप्रस्थाने स्फुटम् । ‘ते ब्रह्म तद्विदुः’ इति यत् पूर्वं ब्रह्मोपक्षिप्तं तद् ब्रह्म किम् ? इति स्वरूपप्रश्नः । यत्प्रोक्तमधिभूतं ‘साधिभूताधिदैवम्’ इति, तच्च किम् अस्मिन् लोके ।। १ ।।