लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो
लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो
।। ३० ।।
भाष्यम्
‘मातापित्रोरन्तरङ्गः स एकः रूपेण चान्यैः सर्वगतः स एकः’ इति वारुणश्रुतेः । एकेनैव द्यावापृथिव्योरन्तरं व्याप्तो भवति । ‘पश्य मे पार्थ रूपाणि’ इति बहूनि रूपाणि प्रतिज्ञातानि । मातापितरौ च पृथिवीद्यावौ। ‘मा नो माता पृथिवी दुर्मतौ धात्’ ‘मधु द्यौरस्तु नः पिता’ इत्यादि प्रयोगात् ।
भावप्रदीपिका
द्यावापृथिव्योरित्येकरूपमेव श्रूयते । अतः कथमनन्तरूपत्वम् ? इत्यत आह– मातापित्रोरिति । एवं श्रुतिसद्भावात् द्यावा-पृथिव्योरन्तरमेकेनैव रूपेण व्याप्तो रूपान्तरेण दिशश्च सर्वा इत्येवार्थः । इतश्चानन्तत्व-मित्यत इत्याह– पश्येति । एतच्छ्रुतौ द्यावापृथिवीव्याप्तिर्न श्रूयत इत्यत आह– मातापितरौ चेति ।
प्रमेयदीपिका
‘द्यावापृथिव्योरिदमन्तरं हि’ इत्यत्र ‘त्वया’ इत्यनेनै-वैकत्वस्य सिद्धत्वात् ‘एकेन’ इति व्यर्थमित्यतः प्रमाणपूर्वकं तदभिप्रायमाह– मातापित्रोरिति ।। बहुत्वेऽपि सः एकः अभिन्नः । अनेन दिशश्च सर्वाः रूपान्तरै-रित्युक्तं भवति । तदयुक्तम् । विश्वरूपस्य ‘द्रष्टुमिच्छामि ते रूपम्’ इत्यादिनैक-त्वावगतेरित्यत आह– पश्येति ।। ऐक्यापेक्षयैकवचनमिति भावः । ‘मातापित्रोः’ इति श्रुतिः प्रकृतानुपयोगिनी कथमुदाहृता। ‘द्यावापृथिव्योः’ इत्यनभिधानादित्यत आह– मातापितरौ चेति ।। माता पृथिवी नः अस्मान् दुर्मतौ मा धात् न दध्यात् । नः अस्माकं मधु सुखहेतुः अस्तु ।।
भावबोधः
।। अनेनेति ।। ‘अन्यैः सर्वगतः’ इति इत्यनेनेत्यर्थः ।। ३० ।।
भावदीपः
।। विश्वरूपेति ।। पुनर्वचनमित्याद्यात्मकेत्यर्थः ।। अनेनेति ।। ‘अन्यैः सर्वगतः’ इति कथनेनेत्यर्थः ।।
भावरत्नकोशः
अभेदोक्तेः प्रसक्तिं दर्शयितुमुक्तम्– बहुत्वेऽपीति ।। बहुरूपत्वेऽपीत्यर्थः । ‘एकं स्वस्मिन्नभेदतः’ इत्यन्यत्रोक्तेरिति भावः । अनेन ‘सर्वगतः’ इत्यनेन । रूपान्तरैः व्याप्ताः । ‘इत्यादिना’ इत्यत्रादिशब्देन ‘परमं रूपमैश्वरम्’ इत्याद्येक-वचनान्तपदग्रहः । ऐक्यापेक्षया रूपाणामभेदेन तदपेक्षया, ‘इच्छामि ते रूपम्’ इत्यादि एकवचनम् इति न तद् बहुरूपविरोधीत्यर्थः । दुर्मतौ दुष्टबुद्धिविषये । दुष्टबुद्धियुक्तान् न कुर्यात् इत्यर्थः ।
भावदीपिका
।। इत्यनेनैव इत्येकवचनेनैव । अनेन ‘अन्यैः सर्वगत’ इत्यनेन । रूपान्तरैः ‘व्याप्ता’ इति शेषः । इत्यादिना एकवचनेन । द्यावापृथिव्योरिति ।। ‘द्यावापृथिव्योरिदमन्तरं हि व्याप्तम्’ इति गीतोक्तार्थस्य श्रुतावनभिधानादित्यर्थः ।