काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद् गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ।। १० ।।

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।

मोहाद् गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः  ।। १० ।।

भाष्यम्

दुष्पूरो हि कामः । ‘पाताल इव दुष्पूरो मां हि क्लेशयते सदा’ (१२. १७७.३९) इति हि मोक्षधर्मे ।।

भावप्रदीपिका

विषयसम्पादनेन कामपूर्तेः कथमसौ दुष्पूरः ? इत्यत आह– दुष्पूरो हीति ।। १० ।।

प्रमेयदीपिका

काममाश्रित्य दुष्पूरम् इति कामस्य दुष्पूरत्वं किं विशेषणम्? नेति ब्रूमः । किं तर्हि? कामस्य प्रवृत्तिहेतुत्वे हेतुरयमुच्यत इति भावेनाऽह– दुष्पूरो हीति ।। विशेषणमेव किं न स्यात्? कामस्य दुष्पूरत्वा-व्यभिचारादिति भावेनाऽह– पाताल इवेति ।। १० ।।

भावबोधः

।। दुष्पूरत्वाव्यभिचारादिति भावेनेति ।। अनेन सदा दुष्पूरं, सदा क्लेशयते इति उभयत्राप्यन्वय इत्युक्तं भवति ।। १० ।।

भावदीपः

।। अयमिति ।। दुष्पूरत्वरूपो धर्मः कामस्य नानाविषयेषु प्रवर्तकत्वे बीजभूतोऽयम् इत्यर्थः ।। १० ।।

भावरत्नकोशः

दुष्पूरम् अशक्यपूरणं कामम् इति यत् कामविशेषणत्वमुक्तं शङ्करेण तदाशङ्क्य परिहरति– किं विशेषणम् नेति ब्रूम इति ।। शङ्करपक्षं दूषयितुं शङ्कते– विशेषणमेवेत्यादिना ।। अव्यभिचारादिति ।। ‘सम्भवव्यभिचाराभ्यां स्याद्विशेषणम्’ इति ह्यभियुक्ता इति भावः । प्रमाणे ‘सदा दुष्पूरः सदा क्लेशयते’ इति सदाशब्दसम्बन्धः ।।

 गीताक्षरार्थस्तु किञ्च दुष्पूरं पूरयितुमशक्यमिति कामस्य नानाविधविषयेषु प्रवर्तकत्वे ‘दुष्पूरो हि कामः’ इति हेत्वर्थसमर्पकं विशेषणम्, न तु व्यावतर्कविशेषणम् ‘कामस्य दुष्पूरत्वाव्यभिचारात्’ इति भाष्यटीकयोः स्फुटम् । कामम् आश्रित्य दम्भमानमदान्विताः परवञ्चनार्थं धर्माभासानुष्ठानप्रदर्शनरूपं धर्मध्वजित्वं दम्भः, ‘अहं कर्ता’ इत्यहङ्कारः मानः, धर्माभिजात्यादिनिबन्धन उत्सेकः मदः, तैरन्विताः, मोहात् मिथ्याज्ञानस्वभावाद् असद्ग्रहान् अशुभाध्यवसायान् दुष्टपक्षान् वा गृहीत्वा अशुचिव्रताः अशुद्धक्षुद्रदेवताराधनादिनियमयुक्ताः प्रवर्तन्ते कामे दूष्पूरत्वाज्ञानेन नानाविधाशुभक्षुद्रविषयभोगाय व्याप्रियन्ते ।। १० ।।

भावदीपिका

।। किंविशेषणमिति ।। अदुष्पूरकामव्यावर्तकं विशेषणं किमित्यर्थः । हेतुरयमिति ।। तथा च हेतुगर्भविशेषणमिति भावः । दुष्पूरो हीति । भाष्ये हिशब्दबलात् गीतायां ‘दुष्पूरम्’ इत्यस्य हेतुगर्भत्वं ज्ञायत इति द्रष्टव्यम् । विशेषणमेवेति ।। इतरव्यावर्तकमेवेत्यर्थः । दुष्पूरत्वाव्यभिचारादिति ।। यदि कश्चित् अदुष्पूरः कामः स्यात् तदैव तद्व्यावर्तनायेदं विशेषणं स्यात्, न चैवम्, कामस्य दुष्पूरत्वाव्याभिचारादिति भावेनाहेत्यर्थः ।। १० ।।

भावप्रकाशः

।। दूष्पूरत्वाव्यभिचारादिति । ‘सम्भवे व्यभिचारे च स्याद्विशेषणमर्थवत्’ इत्युक्तेरिति भावः । अनेन ‘सदा’ इत्यस्य ‘दुष्पूरः क्लेशयते’ इत्युभयत्राप्यन्वय इत्युक्तं भवति ।। १० ।।