अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ।। बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।। ५ ।।४ ।।
अर्जुन उवाच–
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ।। ४ ।।
श्रीभगवानुवाच–
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।। ५ ।।
भाष्यम्
‘मयि सर्वाणि’ इत्युक्तम् । तन्माहात्म्यम् आदितो ज्ञातुं पृच्छति– अपरमिति ।। ४ ।।
भावप्रदीपिका
अर्जुनज्ञानित्वाविरोधेन तत्प्रश्नाभिप्रायमाह– मयीति ।। माहात्म्यं सर्वकर्तृत्वादि ।। ४ ।।
भावप्रकाशिका
भगवतोऽप्यनित्यदेहित्वबुद्ध्याऽर्जुनः पृच्छतीति शङ्का-निवृत्तये तत्प्रश्नतात्पर्यमाह– मयीति ।। ‘मयि सर्वाणि कर्माणि’ इति सर्वकर्तृत्वम्, ‘अध्यात्मचेतसा’ इति सर्वपरमत्वं चोक्तमित्यर्थः ।। ४,५ ।।
प्रमेयदीपिका
ननु ‘न त्वेवाहम् ’(२.१२) इत्यादिना सर्वप्रकारेणोत्पत्ति-विनाशराहित्यमुक्तं भगवतः । तच्छ्रुत्वा कथम् ‘अपरम्’ इति पृच्छति? इत्यत आह– मयीति ।। तन्माहात्म्यम् इत्युपलक्षणम् । (उपादीयते अनेनेत्यादिः प्रमाणं तेन आदि-नेत्यादितः । उपसर्गाद्योेकिः । आतो लोपः’ इति च तृतीयान्तादादिशब्दात्तसिः । आदीयते इति-अधिकपाठः) आदितः प्रमितिकारणतः । ‘मयि सर्वाणि’(३.३०) इत्यत्र परमेश्वरस्य माहात्म्यं पूज्यत्वादिलक्षण-मुक्तम् । अर्जुनस्य च पूजकत्वादिकम् । तमिममीश्वरजीवयोः पूज्यपूजकत्वादिना भगवताऽङ्गीकृतं भेदं प्रमाणेन ज्ञातुमेवं पृच्छतीत्यर्थः ।। ४ ।।
अत एव ज्ञाताशयो भगवान् ‘तव च’,‘न त्वं वेत्सि’ इति परिहरति । अन्यथाऽनुपयुक्तं तन्न वक्तव्यमेव ।। ५ ।।
भावबोधः
।। अनुपयुक्तमिति ।। विवस्वदाद्यपेक्षया स्वस्य प्राथमिकत्वमेव वक्तव्यम् । अर्जुनस्य तवेति भेदस्य ‘न त्वं वेत्थ’ इति भेदकधर्मस्य च वचनं प्रकृतानुपयुक्तमित्यर्थः
।। ५ ।।
भावदीपः
।। सर्वप्रकारेणेति ।। शस्त्रपावकादिना प्रकारेणेत्यर्थः । यद्वा स्वरूपेण देहेन कूटस्थत्वेन वेत्यर्थः ।। तन्न वक्तव्यमिति ।। ‘बहूनि’ (४,५) इत्यादिनैव प्रश्न-परिहारस्य पूर्तेः ‘तान्यहं वेद’ इत्यादिना तज्ज्ञत्वतदज्ञत्वयोर्भेदज्ञापनाभिप्रायाभावे वक्तव्यता न स्यादित्यर्थः ।। ४,५ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु - ‘मयि सर्वाणि’ इत्यत्र परमेश्वरस्य पूज्य-त्वादिकम् अर्जुनस्य पूजकत्वादिकं कथितम् । तमिममीश्वरजीवयोः पूज्यपूजकत्वादिना भगव-ताऽङ्गीकृतभेदं प्रमाणेन ज्ञातुमर्जुनेन पृच्छ्यते अपरमिति । अपरम् अर्वाग् वसुदेवस्य गृहे भवतो जन्म, विवस्वत आदित्यस्य परं प्राचीनं, तत् कथमेतद् विजानीयाम् ‘अविरुद्धार्थतया यत्त्व-मादाविमं योगं प्रोक्तवान्’ इति ।। ४ ।।
तन्माहात्म्यम् ईश्वरमाहात्म्यम् । उपलक्षणम् ‘जीवपूजकत्वादेः, तल्लभ्यभेदस्य च’ इति शेषः । भगवन्माहात्म्यस्यानादित्वात् कथम् ‘आदितः’ इति कारणपूर्वं ज्ञास्यामीति प्रश्न इत्यत आदिशब्दस्य विवक्षितमर्थमाह– आदित इति ।। धातूनामनेकार्थत्वाद् ‘आदीयते प्रमीयते अनेन’ इत्यादिः । ‘उपसर्गे घोः किः’ इति किप्रत्ययः । ‘आद्यादिभ्यः’ इति वार्तिकात् तसिरिति भावः । आदितः कारणत इत्येवार्थः, योग्यतया प्रमितिलाभ इत्यपि आहुः । ‘पूज्यत्वादि’ इत्यत्र कर्मस्वातन्त्र्यम् आदिपदार्थः । भगवानेव सर्वकर्माणि करोति, तत्पूजेति चानुसन्धानं संन्यास इति तत्र भाषणादिति भावः । उपलक्षणीयं दर्शयति– अर्जुनस्य चेति ।। आदिपदेन अस्वातन्त्र्यं गृह्यते । एवं पृच्छति न पुनरीश्वरस्योत्पत्त्यादिराहित्यमजानन् । प्रमाणप्रश्न एवायमित्यत्र ज्ञापकमाह– अत एवेति ।। यत एवं भेदप्रमाणप्रश्नोऽयम् अत एवेत्यर्थः । ‘तव च’ इत्यत्र न केवलं मम, किन्तु तव चेति प्रत्यक्त्वपराक्त्वेन प्राप्तं भेदं प्रतिज्ञाय ‘तान्यहं वेद, न त्वं वेत्थ’ इति तद्धेतुत्वेन ज्ञानाज्ञानरूपभेदकधर्म एव परिहारे भगवतोक्त इति भावः । अनुपयुक्तमिति ।। विवस्वदाद्यपेक्षया तव कथं प्राचीनत्वमिति प्रश्नस्य ‘बहूनि मे’ इत्युक्त्यैव परिहृतत्वात् ‘तव च’, ‘न त्वं वेत्सि’ इत्येतत् प्रकृतानुपयुक्तमिति न वक्तव्यमित्यर्थः ।। ४,५ ।।
गीताक्षरार्थस्तु– इमं प्रश्नं ज्ञाताशयो भगवान् परिहर्तुमुवाच– बहूनीति ।। स्पष्टोऽर्थः । अत्र च प्रत्यक्त्वपराक्त्वयोः, ज्ञत्वाज्ञत्वयोश्च भेदे प्रमाणत्वमुक्तं भवतीति ।। ५ ।।
भावदीपिका
।। ननु न त्वेवाहमित्यादिनेति ।। ईश्वरस्यापि युद्धगतत्वात् मोहात् तस्याप्युभयविधानित्यत्वशङ्काप्राप्तौ तदपि निवार्यते ‘न त्वेवाहमिति’ इति तात्पर्योक्तरीत्या ‘तु’शब्देनोक्तमित्यर्थः । आदिपदाद् ‘अविनाशि तु’ इत्यत्रापि । यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथाऽपि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति ‘तु’शब्दः ।
‘अनित्यत्वं देहहानिर्दुःखावाप्तिरपूर्णता ।
नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।
तदन्येषां तु सर्वेषां नाशाः केचिद् भवन्ति हि ।।’
इति गीतातात्पर्योक्तरीत्या तुशब्देनोक्तमिति द्रष्टव्यम् ।। उक्तं भगवत इति ।। ‘तुशब्देन’ इति शेषः ।। उपलक्षणमिति ।। जीवभेदस्येत्यर्थः ।। एवं पृच्छतीति ।। ‘अपरं भवतो जन्म’ इत्यादि पृच्छतीत्यर्थः ।। ४ ।।
।। ज्ञाताशय इति ।। प्रमाणेन भेदं ज्ञातुमयं जीवकोटौ निक्षिप्य जन्म पृच्छतीति ज्ञातार्जुनाभिप्राय इत्यर्थः । ‘तव च’ ‘न त्वं वेत्सि’ इति, ‘मे’ ‘तव च’ इति भेदस्य, ‘तव गतानि जन्मानि अहं वेद्मि’ ‘न त्वं वेत्सि’ इति सर्वज्ञत्वासर्वज्ञत्वरूपभेदकधर्मकथनेन च परिहर-तीत्यर्थः ।। अन्यथेति ।। प्रश्नप्ररिहारयोरित्थमभिप्रायाकल्पने विवस्वदाद्यपेक्षया स्वस्य प्राथमिकत्व-मेव वक्तव्यम् । ‘तव’ इत्यर्जुनं प्रति भेदस्य, ‘न त्वं वेत्सि’ इति भेदकधर्मस्य च वचनं प्रकृता-नुपयुक्तमित्यर्थः ।। ५ ।।
भावप्रकाशः
ननु प्रत्युत्तरे भेदकधर्मोक्त्या भेदस्य प्रतिपादयिषितत्वात् तदनु-सारेण भेदमिति वक्तव्ये माहात्म्यमिति कथमुक्तमित्यत आह– उपलक्षणमिति ।। जीवेश्वरभेदस्येति शेषः । भगवन्माहात्म्यस्यानादित्वात् कथमादित इत्युक्तमित्यत आह– प्रमितीति ।। धातू-नामनेकार्थत्वादादीयते प्रमीयतेऽनेनेत्यादिः । दाधातोः करणे किप्रत्ययः । उपसर्गे घोः किरिति सूत्रादिति भावः ।। पूज्यत्वादीति ।। आदि(पदात्)शब्दात् कर्तृत्वग्रहः । मयि सर्वाणीत्यत्र भगवानेव करोति भगवत्पूजेति च ज्ञानं सन्न्यास इति व्याख्यानादिति भावः ।। ४ ।।
अत एवेति यतः एवं भेदविषये प्रमाणप्रश्नोऽयमत एवेत्यर्थः ।। तव चेति ।। अत्र चशब्देन न केवलं मम, किं तु तव चेति भेदं प्रतिज्ञाय तद्धेतुत्वेन न त्वं वेत्थेति भेदकधर्म उक्त इति भावः ।। अनुपयुक्तमिति ।। विवस्वदाद्यपेक्षया प्राथमिकत्वं तव कथमिति पृष्टत्वेन तस्यैव वक्तव्यत्वादिति भावः ।। ५ ।।