यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ।। ३७ ।।

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।

तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ।। ३७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- तदेव विशिष्यते– यदिति ।। यत् प्रसिद्धं सुखम् अग्रे पूर्वं विषमिव बह्वायासपूर्वकत्वात्, परिणामे विपाके अमृतोपमम् अमृतसदृशम् आत्मबुद्धिप्रसादजम् आत्मनः विष्णोः बुद्धेः अन्तःकरणस्य च प्रसादात् अनुग्रहात्, प्रायो विषयेषु स्वतोऽप्रवृत्तिलक्षणायाश्च प्रसन्नताया जातं तत्सुखं सात्त्विकं प्रोक्तं विद्वद्भिः ।।३७।।