जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ।। २७ ।।
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ।। २७ ।।
भाष्यम्
कुतोऽशोकः? नियतत्वादित्याह– जातस्येति ।। २७ ।।
भावप्रदीपिका
‘देहिनोऽस्मिन्’ इत्यत्र देहनाशाच्छोकः परिहृतः ।। २७ ।।
प्रमेयदीपिका
अनेनैवाभिप्रायेणैतदेकवाक्यतयोत्तरं श्लोकद्वयं क्रमेणावतारयति– कुत इति ।। शङ्कामनूद्य ‘तथाऽपि त्वं न शोचितुमर्हसि’ इत्युक्तम् । तत्र को हेतुरित्यर्थः ।। २७ ।।
भावदीपः
शङ्कामनूद्येति ।। ‘अथ चैनम्’ इति पूर्वार्धेनेति योज्यम् ।। इत्युक्तमिति ।। उत्तरार्धेनोक्त-मित्यर्थः ।। २७ ।।
भावरत्नकोशः
अनेनैवेति ।। ‘अस्त्वेवमात्मनो नित्यत्वम्’ इत्यात्मनित्यत्वमङ्गीकृत्यैव प्रकारान्तरेण शोकशङ्केत्युक्ताभिप्रायेणैवेत्यर्थः । एतदेकवाक्यतयेति । उक्तार्थे हेतुसमर्पकतया ‘नानुशोचितु-मर्हसि’ इत्यनेनैकवाक्यतयेत्यर्थः । अनूद्य ‘अथ चैनम्’ इत्यर्धेन । भाष्ये अशोकः कुतः प्राप्त इत्यत उक्तं तथाऽपि त्वमिति ।।
गीताश्लोकाक्षरार्थः– कुतो हेतोरशोक इति चेन्नियतत्वादित्युच्यते जातस्येति । हि यस्माद् ध्रुवो नियतः मृत्युर्मृतिः, तस्माद् जन्ममृत्योर्नियतत्वाद् अपरिहार्येऽर्थे मया युद्धाकरणमात्रेण तन्निमित्तशोकाभाव इति परिहर्तुमनर्हेऽर्थे ।। २७ ।।
भावदीपिका
।। अनेनैवेति ।। आत्मनित्यत्वाङ्गीकाराभिप्रायेणैवेत्यर्थः ।। शङ्कामनूद्येति ।। ‘अथ चैनम्’ इति श्लोके पूर्वार्धेनेत्यर्थः ।। तथाऽपीति ।। उत्तरार्धेनेत्यर्थः ।। २७ ।।
भावप्रकाशः
अनेनैवाभिप्रायेणेति ।। अङ्गीकृत्यात्मनित्यत्वं प्रकारान्तरेण शोकशङ्केयमित्यभि-प्रायेणेत्यर्थः । शङ्कामनूद्येति ।। अथ चैनमित्यनेनेति शेषः ।। २७ ।।