सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः।। १४ ।।

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।

न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः।। १४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु हे केशव ब्रह्मरुद्रादिनियामक यत् माहात्म्यं वदसि एतत्सर्वम् ऋतं मन्ये । न किञ्चिदपि मृषा । हे भगवन् अतिपरिपूर्णतमज्ञानैश्वर्य-वीर्यानन्दश्रीशक्त्यादिसम्पन्न  ते तव व्यक्तिं सामर्थ्यातिशयं देवा दानवाश्च न विदुः । ‘देवदानवाः’ इत्युत्तमाधमजीवोपलक्षणम्् । तव सामर्थ्यं विशेषेण केऽपि न जानन्तीत्यर्थः । तव व्यक्तिम्् अवतारं देवाः स्वानुग्रहार्थं कृतमपि तत्त्वेन न विदुर्वा । ‘नराः स्वानुग्रहार्थं कृतमपि तत्त्वेन न विदुः’ इत्यपि केचिदाहुः ।। १४ ।।