तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।। ३४ ।।

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।। ३४ ।।

भाष्यम्

इदानीमपि ज्ञान्येव । तथाऽप्यभिभवान्मोहः । मा तूक्ता ।। ३४ ।।

भावप्रदीपिका

‘उपदेक्ष्यन्ति’ इत्यनेनार्जुनोऽज्ञानीति न शङ्क्यमित्यत आह– इदानीमिति ।। तर्हि ‘न पुनर्मोहं यास्यसि’ इति कथं मोहः ? इत्यत आह– तथाऽपीति ।। अर्जुनस्य ज्ञानित्वे सिद्धे भवेन्मोहस्याभिभवनिमित्तत्वकल्पनम् । तदेव कुतः ? इत्यत आह– मा त्विति ।। ३४ ।।

भावप्रकाशिका

न च ‘तद्विद्धि’ इत्यादिनाऽर्जुनस्याज्ञानिता शङ्कनीयेत्याह – इदानीमिति ।। तत्र प्रमाणं द्वितीयाध्याय उक्तमित्याह – मा त्विति ।। ३४ ।।

प्रमेयदीपिका

तद्विद्धि’ इत्युक्तत्वादिदानीमर्जुनो न ज्ञानी इति प्रतीतिं निवारयति– इदानीमपीति।। ‘तद्विद्धि’ इत्यधिकज्ञानार्थमुक्तमिति भावः ।। ज्ञानी चेत्तर्हि ‘यज्ज्ञात्वा’ (४.३५) इति तस्य मोहः कथमुच्यत इत्यत आह– तथाऽपीति ।। अभि-भवात् ज्ञानस्य । अर्जुनस्य ज्ञानित्वे सिद्धे भवेदेतत् । तत्रैव किं प्रमाणमित्यत आह– मा त्विति ।। ३४ ।।

भावदीपः

।। मा त्वितीति ।। अर्जुनस्य ज्ञानित्वे प्रमाणं तु द्वितीये (२.४५) ‘नरांश इन्द्रश्च’ इत्यादिनोक्तमिति भाष्यार्थः ।। ३४ ।।

भावरत्नकोशः

।। इत्युक्तत्वादिति ।। लोटोक्तत्वात्, लोटश्च वर्तमानार्थत्वा-भावादिति भावः । मा त्वितीति ।। प्रमाणं तूक्तम् । ‘नरांश इन्द्रश्च पार्थार्ष्टिषेण’ इत्यादि-ज्ञानिगणनाच्चेति द्वितीयाध्याय इति शेष इति भाष्यार्थो द्रष्टव्य इति हृदयम् ।। ३४ ।।

अयमक्षरार्थः– ज्ञानस्य कर्मणोऽधिकत्वमुक्त्वा तदापादानं विधीयते– तदिति ।। ज्ञानिनः परोक्षतत्त्वनिश्चयवन्तः । तत्त्वदर्शिनः अपरोक्षज्ञानिनः प्रणिपातेन दण्डप्रणामेन सेवया शुश्रूषया परिप्रश्नेन च प्रसन्नाः ते तुभ्यं ज्ञानं ज्ञानजनकं शास्त्रम् उपदेक्ष्यन्ति, ततो वेदितव्यं विद्धि जानीहि । अर्जुनस्येदानीं ज्ञानित्वेऽपि ‘विद्धि’ इत्यधिकज्ञानित्वमुक्तम् ।।

ननु पार्थं प्रति ज्ञानोपदेशायैव कृष्णस्य प्रवृत्तत्वात् ‘न त्वेवाहम्’ इति ज्ञानस्योपदिष्टत्वाच्च कथम् ‘उपदेक्ष्यन्ति ते ज्ञानम्’ इत्युच्यत इति चेत्– उच्यते । ‘उपदेक्ष्यन्ति’ इति निश्चितत्वाभि-प्रायेण परोक्ष्यतयोपदेक्ष्यामीत्युच्यमानत्वात् न ज्ञानोपदेशार्थं प्रवृत्तत्वविरोधः । नच ज्ञानस्योप-दिष्टत्वविरोधः । सङ्क्षेपेणोपदिष्टत्वेऽपि ‘ज्ञानं तेऽहम्’ (७.२) इत्यादिना पुनरुपदेक्ष्यमाणत्वात् न किञ्चिदप्यनुपपन्नमित्युत्तरप्रस्थाने स्फुटमिति ।। ३४ ।।

भावदीपिका

।। तस्य मोह इति ।। ‘यज्ज्ञात्वा न पुनर्मोहमेवम्’ इतीदानीमिव उत्तरत्र ‘न यास्यसि’ इत्युक्त्या मोह उच्यत इत्यर्थः ।। मा त्वितीति ।। ‘स हि ज्ञानी नरांश इन्द्रश्च । पार्थार्ष्टिषेणेत्यादिज्ञानिगणनाच्च’ इत्यादिना द्वितीयाध्याये प्रमाणमुक्तमस्तीत्यर्थः ।।३४।।