बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ।। १९ ।।
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ।। १९ ।।
भाष्यम्
बहूनां जन्मनामन्ते ज्ञानवान् भवति । तच्चोक्तं ब्राह्मे– ‘बहुभिर्जन्मभि-र्ज्ञात्वा ततो मां प्रतिपद्यते’ इति ।। १९ ।।
भावप्रदीपिका
ज्ञानोत्पत्त्यनन्तरं बहुजन्मान्ते मां प्रपद्यत इत्यन्यथाप्रतीति-निरासायाह– बहूनामिति ।। १९ ।।
भावप्रकाशिका
न च ज्ञानवतो भगवतः तत्प्रपत्तौ बहुजन्मापेक्षः, किन्तु ज्ञानार्जन एव सेत्येतत् सप्रमाणकमाह– बहूनामिति ।। १९ ।।
प्रमेयदीपिका
‘बहूनां जन्मनाम्’ इत्यत्र ‘ज्ञानोत्पत्त्यनन्तरं भगवत्प्रपत्तौ बहुजन्मव्यवधानमुच्यते’ इति निरासार्थमाह– बहूनामिति ।। प्रतीतमेव किं न स्यात्? इत्यत आह– तच्चेति ।। ततः तदैव ।। १९ ।।
भावदीपः
‘ततः’ इत्यनूद्यार्थमाह– तदैवेति ।। १९ ।।
भावरत्नकोशः
।। प्रतीतमिति । ‘ज्ञानवान् बहूनां जन्मनामन्ते मां प्रपद्यते’ इत्यन्वये तथा प्रतीतिः स्यात्, तन्निरासार्थमित्यर्थः । प्रतीतमेव ज्ञानवतो भगवत्प्रपत्तौ बहुजन्म-व्यवधानम् । कृतचोद्यनिरासकत्वस्फोरणाय प्रमाणे ‘ततः’ इति पदमनूद्य ‘सर्वं वाक्यं सावधारणम्’ इति भावेन व्याचष्टे– ततस्तदैवेति ।। तथा च उत्सर्गतः ज्ञानाव्यवहितकाल एव प्रपत्त्यावेदनात् प्रतीतमसदिति भावः ।।
यद्यनुमत्तां गतिमुद्दिश्य त्वामेवास्थितो ज्ञानी तवाऽत्मा, तर्ह्यनादिकालादारभ्यैव त्वत्प्राप्तिः कथं न स्यादित्यत उच्यते–बहूनामिति ।। सत्यं ‘ज्ञानवान् मां प्रपद्यत एव’ इति । तच्च ज्ञानं कस्याप्यनादिकालाद् भवति, किन्तु बहूनां जन्मनामवसान एव । यदाहुः
‘निःशेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।
स्यादापरोक्ष्यं हि हरेः.....................।।’ इति
‘बहुभिर्जन्मभिर्ज्ञात्वा ततो मां प्रतिपद्यते’ इति च ।
किंविशेष्यककिंप्रकारकज्ञानवानत्र तवात्मा ? इत्यत इदमुदितम् ‘वासुदेवः सर्वं पूर्णं वस्त्विति ज्ञानवान्’ इति । यद्येवंविधज्ञानेन मोक्षः, तर्हि सर्वेषां स्यात् ? इत्यत उक्तम्– स इति ।। सः उक्तज्ञानवान् महात्मा सुदुर्लभः । ‘सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते’ इत्याद्युक्तेः सुतरां दुर्लभः । वासुदेवस्य पूर्णत्वज्ञानेन मोक्षसद्भावेऽपि तज्ज्ञानिनो न सर्व इति, न सर्वेषां मोक्ष इति भाव इति ।। १९ ।।
भावदीपिका
‘ततः ज्ञानान्तरं बहुभिर्जन्मभिर्मां प्रपद्यते’ इति प्रतीयते । तदयुक्तम् । ‘एवं मुक्तिफलानियमः’ इति सूत्रविरोधात्, इत्यत आह– ततस्तदैवेति ।। ज्ञानानन्तरमेवेत्यर्थः । ‘प्रारब्धप्रतिबन्धाभावे’ इति द्रष्टव्यम् ।। १९ ।।