मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ।। १५ ।।
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ।। १५ ।।
भाष्यम्
तत्प्राप्तिं स्तौति– मामिति ।। परमां सिद्धिं गताः इति हि तत्र हेतुः ।।
भावप्रदीपिका
उत्तरश्लोकमवतारयति– तदिति । मामुपेत्य इत्यनेन संसिद्धिम् इत्यस्यागतार्थत्वमाह– परमामिति ।। १५ ।।
प्रमेयदीपिका
‘स याति परमां गतिम्’ ‘तस्याहं सुलभः’ इति द्वेधा वचनात् परमागतिः भगव•लाभश्च पृथगिति न मन्तव्यम् । भगवत्प्राप्तेरेवोत्तरत्र स्तुतेः । अन्यथोभयस्तुतिप्रसङ्गादित्यभिप्रायेणाऽह– तत्प्राप्तिमिति ।। तर्हि कथं ‘मामुपेत्य’ इत्युक्त्वा ‘संसिद्धिं परमां गताः’ इति पृथगुक्तिः? इत्यत आह– परमामिति ।। ये मामुपेताः ते परमां सिद्धिं मोक्षलक्षणां हि गताः । नच मुक्तानां निर्बीजं जन्म सम्भव-तीत्येवं तत्र स्वं प्राप्तानां जन्माभावे हेतुरयमुच्यते । नतु भगवत्प्राप्तेरन्या परमसंसिद्धि-प्राप्तिरित्यर्थः ।। १५ ।।
भावरत्नकोशः
।। द्वेधा वचनात् ‘स याति परमां गतिम्’ इति, ‘तस्याहं सुलभः’ इति च द्वेधा वचनात् । उत्तरत्र ‘मामुपेत्य पुनर्जन्म न प्राप्नुवन्ति’ इत्यत्र । स्तुतेः स्तवनात् । अन्यथा परमगतेः भगवल्लाभात् पृथक्त्वे । तत्प्राप्तिम् ‘तस्याहम्’ इत्यस्मच्छब्देन प्रकृतभगवत्प्राप्तिमिति भाष्यार्थः । ‘तत्र’ इत्यनुवादः, ‘स्वं प्राप्तानां जन्माभावे’ इति व्याख्या ।।
गीताक्षरार्थस्तु- ‘स याति परमां गतिम्’ , ‘तस्याहं सुलभः’ इति द्वेधा वचनात् परमगतिः, भगवत्प्राप्तिश्च पृथक् फलमिति न मन्तव्यम् । किन्तूभयमपि मत्प्राप्तिरूपम् एकमेव फलम् इति भावेन स्वप्राप्तिः स्तूयते मामुपेत्येति । महात्मानः महान् आत्मा मनो ज्ञानं येषां ते तथोक्ता ज्ञानिनः । दुःखालयम् आध्यात्मिकादिदुःखकारणम् अशाश्वतम् अनवस्थितस्वरूपं पुनर्जन्म पुनर्देहयोगं नाप्नुवन्ति । एवं भगवत्प्राप्तिस्तुत्या परमगतिः मल्लाभश्च मत्प्राप्तिरूपकमेव फल-मित्युक्तम् । कुत इत्यत उक्तम् संसिद्धिं परमां गता इति । ये मामुपेतास्ते परमां सिद्धिं मोक्षलक्षणां हि गताः । न च मुक्तानां निर्बीजं जन्म सम्भवतीत्येवं तत्र स्वं प्राप्तानां जन्माभावे हेतुरयमुच्यते
।। १५ ।।
भावदीपिका
।। भगवल्लाभः भगवत्प्राप्तिः । उभयेति ।। परमगतिभगव-ल्लाभयोरित्यर्थः । ननु मोक्षलक्षणसिद्धिं गतानामपि जन्म किं न स्यात् ? इत्यत आह– न चेति ।। १५ ।।