सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूध्नर्याधायाऽऽत्मनः प्राणमास्थितो योगधारणाम् ।। १२ ।।

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।

मूध्नर्याधायाऽऽत्मनः प्राणमास्थितो योगधारणाम् ।। १२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– एवं ध्येयमुक्त्वा तत्स्मरणप्रकारः प्रपञ्च्यते सर्वेति । सर्वद्वाराणि प्राणवायुसञ्चरणद्वारभूतसुषुम्नाव्यतिरिक्तनाडीः संयम्य हृदि नारायणे मनो निरुध्य विष्णुविषयं कृत्वा । ‘मनो निरुध्य’ इत्यनेनैव सर्वेन्द्रियसंयमनं लब्धम् । तत्किं पुनरुच्यते ‘द्वाराणीन्द्रियाणि’ इति । मैवम् । वायुसञ्चरणद्वाराणां नाडीनामत्र ग्रहणात् । आत्मनः स्वस्य प्राणं प्राणवायुं मूध््नर्याधाय, ‘सुषुम्नानाडीमार्गेण ब्रह्मरन्ध्रे निधाय’ इति विवृतिकृत्सूक्तिः । योगधारणाम् आस्थितः अखण्डस्मृतिरूपयोगभरण एवाभियुक्तः ।। १२ ।।