कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान् ।। ६ ।।
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान् ।। ६ ।।
भाष्यम्
भगवत्कर्शनं नामाल्पत्वदृष्टिरेव ।।
भावप्रदीपिका
ननु कथं नित्यपूर्णभगवतोऽन्यैः कृशीभावः कर्शयन्तः इत्यनेनोच्यते ? इत्यत आह– भगवदिति ।।
प्रमेयदीपिका
ननु निर्विकारस्य भगवतः कथं ‘मां चैवान्तःशरीरस्थं कर्शयन्तः’ इति कर्शनमुच्यते? इत्यत आह– भगवदिति ।। ‘प्रातिपदिकात् धात्वर्थे बहुलम् इष्ठवच्च’ इति वचनाद् दृष्टिरपि णेरर्थ इति भावः । ‘मां चैव जीवरूपेणान्तः-शरीरस्थम्’ इति व्याख्यानं तु सम्यग् व्याख्यानेनैव परास्तम् । जीवरूपत्वदर्शनस्यैव कृशीकरणत्वात् । ‘मदनुशासनाकरणमेव मत्कर्शनम्’ इति व्याख्याननिरासार्थम् एव इत्युक्तम् । अशाब्दत्वात् ।।
भावबोधः
।। प्रातिपदिकादिति ।। कर्शशब्दात् प्रातिपदिकात् दृशिधात्वर्थ-दृष्टौ णिचि कर्शयन्त इत्यस्याल्पत्वेन पश्यन्त इत्यर्थः सिद्ध्यतीत्यर्थः ।
भावदीपः
।। प्रातिपदिकादिति ।। यस्मात् कस्माच्चित् प्रातिपदिकात् दृशिरूपधात्वर्थेन बहुलं णिच् भवतीत्यर्थलाभात् गुणावादेशादौ सति ‘कर्शयन्तः’ इति रूपसिद्धेः कर्शयन्तः अल्पतां पश्यन्त इति गीतार्थ इत्यर्थ इति भावः ।। सम्यगिति ।। अल्पत्वदृष्टिरेवेति व्याख्यानेनैवेत्यर्थः ।। अन्तःशरीरस्थमितीति ।। कर्शयन्तः तदनुशासनमकुर्वन्त इति परव्याख्यानमित्यर्थः ।।
वाक्यार्थप्रदीपः
।। प्रातिपदिकाद्धात्वर्थे बहुलमिति वचनादिति ।। कर्शशब्दात् प्रातिपदिकात् दृशिधात्वर्थदृष्टौ. विवक्षितायां णिचि कर्शयन्त इत्यस्य अल्पत्वेन पश्यन्त इति सिद्ध्यतीत्यर्थः ।।
भावरत्नकोशः
ननु ‘हेतुमति च’ ‘तत्करोति तदाचष्टे’ इति वचनात् प्रयोजकव्यापारस्य करणआख्यानयोश्चैव णिजर्थत्वात् कथं भाष्ये दृष्टिः णिजर्थतयोक्ता इत्यत आह–प्रातिपदिकादिति ।। प्रातिपदिकाद् धात्वर्थे बहुलम् इष्ठवच्च’ इति योगस्यायमर्थः । यस्मात्कस्माच्चित् प्रातिपदिकाद् यस्मिंस्कस्मिंश्चित् धात्वर्थे वाच्ये बहुलं णिच्प्रत्ययो भवति, इष्ठवच्च इष्ठन्प्रत्यये परे यथा कार्यं तथा णिच्परेऽपि स्यात् । तथा चात्र कृश्यतीत्यर्थे कर्शः पचाद्यच् । न च ‘कृश तनूकरणे’ इति धातोः इगुपधत्वाद् ‘इगुपधज्ञाप्रीकिरः कः’ इति कप्रत्यय एव स्यात्, सति चैवं ‘कृशः’ इत्येव रूपं भवति । ततः प्रातिपदिकाद्धात्वर्थे इति णिचि ‘कृशयन्तः’ इत्येव स्यात्, नतु ‘कर्शयन्तः’ इति इति वाच्यम् । वासरूपन्यायेन पचाद्यच एवात्रोत्पाद्यतयेष्टत्वात् । ततः कर्शप्रातिपदिकाद् दृशिधात्वर्थे णिचि, णौ इष्ठवत् प्रातिपदिकस्यैव अतिदेशात् टिलोपे, ततः ‘कर्शि’ इत्यस्य ‘सनाद्यन्ता धातवः’ इति धातुसञ्ज्ञायाम् तस्मात् लटः शत्रादेशे, शपि, सार्वधातुकलक्षणे गुणे, अयादेशे, शपोऽकारस्य ‘अतो गुणे’ इति पररूपत्वे, स्वाद्युत्पत्तौ च ‘कर्शयन्तः’ इति रूपम् तस्यार्थः ‘अल्पत्वं पश्यन्ति’ इति हृदि निधाय भाष्ये ‘अल्पत्वदृष्टिः’ इत्युक्तमिति भावः । ननु ‘तत्करोति तदाचष्टे’ इत्यादिना धात्वर्थस्य नियमितत्वात् कथं दृष्टिः धात्वर्थः स्यात् । अत एव शङ्करः ‘कर्शयन्तः कृशं कुर्वन्तः’ इति व्याचख्यौ, इति चेन्न । ‘कूलम् उल्लङ्घयति उत्कूलयति’ इत्यादौ प्रातिपदिकाद् धात्वर्थे’ इत्यनेन णिचम् उत्पादयद्भिः वैयाकरणैः तत्करोतीत्यादेः तत्प्रपञ्चनार्थत्वस्याङ्गीकृतत्वेन नियमार्थत्वाभावात् इत्यभियुक्ताः ।
मां चैवेति ।। ‘मां चैव तत्कर्म बुद्धिसाक्षिभूतम् अन्तःशरीरस्थम् ’इति शङ्करभाष्यस्यायं तात्पर्यानुवादः । इति व्याख्यानं त्विति ।। जीवस्वरूपत्वदर्शनस्य भगवतो जीवस्वरूप-भावनस्य, जीवस्वरूपस्याल्पत्वादिति भावः । शङ्करभाष्याक्षरानुवादः – मदनुशासनेति ।। तल्लब्धां युक्तिमाह– अशाब्दत्वादिति ।। उक्तव्याख्याने ‘अल्पदर्शनमेव कर्शनम्’ इति व्याख्याने । न केवलमस्मद्व्याख्याने उक्तरीत्या शाब्दत्वमिति चशब्दः ।
भावदीपिका
।। कर्शनं कर्शनरूपो विकारः । ननु ‘कर्शयन्’ इति ताव-ण्णिजन्तोऽयं शब्दः । तथाच ‘तत्करोति तदाचष्टे’ इति करण आचक्षणाद्यर्थ एव णिचो विहितत्वात् ‘पीडां करोतीति पीडयन्’, ‘भृशमाचष्ट इति भृशयन्’ इत्यादिप्रयोगदर्शनेन च दृशेर्णिजर्थत्वाभावात् भगवत्कर्शनं नाम ‘अल्पत्वकरणम्’, अल्पत्वाचक्षणम्’ इत्येव वक्तव्यत्वेन ‘अल्पत्वदृष्टिरेव इति कथमुक्तम् इत्यत आह– प्रातिपदिकादिति ।। ‘प्रातिपदिकात् धात्वर्थे बहुलमिष्ठवच्च’ इति धातुसूत्रम् । तस्यार्थः– यस्मात्कस्माच्चित् प्रातिपदिकात् यस्मिन् कस्मिंश्चिद्धात्वर्थमात्रे विवक्षिते सति णिच्प्रत्ययो विकल्पेन भवति, स च प्रत्यय इष्ठवद्भवति इष्ठन्प्रत्ययकार्यभूतं यत् प्रातिपदिकटिलोपादि तत्कारी भवतीति । एवं च प्रकृते कृशप्रातिपदिकात् ‘दृशिर् प्रेक्षणे’ इति दृश्धात्वर्थभूताया दृष्टेर्विवक्षितत्वात्, तस्यां विवक्षितायां सत्यां णिच्प्रत्यये, णकारचकारयोर्लोपे, ‘कृश इ’ इति जाते, णिच्प्रत्ययस्य इष्ठन्प्रत्ययकार्य-कारित्वेनोक्तत्वात् तस्य च टिलोपकारकत्वस्वभावस्य ‘टेः’ भस्य टेर्लोपः स्यात् इष्टेमेयस्सु परतः’ इत्युक्तत्वेन णिचि परे टीभूतस्य शकारस्थस्य अकारस्य लोपे ‘कृश्’ इति जाते, ‘सार्वधातुकार्धधातुकयोः’ इति गुणे, ‘उरण् रपरः’ इति गुणस्य च रपरत्वे ‘कर्श् इ कर्शि’ इति जाते, अस्माल्लटि तस्य शत्रादेशे, शकारऋवर्णयोर्लोपे ‘अत्’ इति जाते इकारस्य एकाररूपगुणे, तस्य चापरत्वेऽयादेशे ‘कर्शयत्’ इति प्रातिपदिकसिद्धिः । पश्चात् स्वाद्युत्पत्तौ नुमागमे, मित्त्वादन्त्यादचः परे जाते ‘कर्शयन् त् सु’ इति स्थिते ‘हल्ङ्याब्भ्यः....’ इति सोर्लोपे संयोगान्ततकारलोपे च ‘कर्शयन्’ इत्यादि सिद्ध्यतीति द्रष्टव्यम् ।
कथं परास्तम्? इत्यत आह– जीवरूपत्वेति ।। कृशीकरणत्वात् अल्पत्वदृष्टित्वात् । तथा च ‘मां चैवान्तःशरीरस्थम्’ इत्यनेनैव पूर्णत्वात्, ‘कर्शयन्तः’ इत्यस्य वैयर्थ्यमिति भावः ।
भावप्रकाशः
ननु हेतुमति च ‘तत्करोति तदाचष्टे’ इत्युक्तेः प्रयोजक-व्यापारस्याख्यानकरणयोश्च णिजर्थत्वात् कथं दृष्टिर्णिजर्थ इत्यत आह– प्रातिपदिकादिति ।। बहुलमिष्ठवच्चेति पाठः । प्रातिपदिकाद्धात्वर्थे वाच्ये बहुलं णिच् इष्ठन् प्रत्यये परे यथाकार्यं तथा णिचि परे स्यादित्यर्थः । तथा च कृश्यतीति कर्शः । कृ तनूकरण इत्यस्मादिगुपधज्ञाप्रीकिरः क इति के प्राप्ते वासरूपन्यायेन पचाद्यच् । ततः कर्शप्रातिपदिकात् कर्शं पश्यतीति दृशिधात्वर्थे णिच् । णौ परे इष्ठवदित्यतिदेशाट्टिलोपः । कर्शीत्यस्य सनाद्यन्ता इति धातुत्वे तस्माल्लटि लटः शत्रादेशे शपि सार्वधातुकेति धातोर्गुणे अयादेशे शपोऽकारस्य आतो गुण इति पररूपे स्वाद्युत्पत्तौ च कर्शयन्त इति रूपम् । तस्यार्थोऽल्पं पश्यन्त इतीति बोध्यम् । एतेन कृशप्रातिपदिकात् णिचि कृशयन्त इति स्यादित्यपास्तम् । अन्ये तु कर्शनं कर्शः । भावे घञ् । ततः अर्श आद्यच् । ततो णिजादीत्याहुः– दृष्टिरपि णेरर्थ इति ।। न च ‘तत्करोति तदाचष्टे’ इत्यादिना धात्वर्थनियमस्य कृतत्वात् कथमेतदिति वाच्यम् । शब्दकौस्तुभे कूल-मुल्लङ्घयति । उत्कूलयतीत्यादौ प्रातिपदिकादित्यनेन णिचमुक्त्वा तत्करोतीत्यादेस्तत्प्रपञ्च-त्वस्योक्तत्वेन नियमार्थत्वाभावात् । जीवस्वरूपत्वेति ।। तत्स्वरूपस्यान्यत्वादिति भावः । तथा च कर्शयन्त इति व्यर्थं स्यादिति हृदयम् ।