तस्मादसक्तस्सततं कार्यं कर्म समाचर । असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः।। १९ ।।
तस्मादसक्तस्सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः।। १९ ।।
भाष्यम्
यतोऽसम्प्रज्ञातसमाधेरेव कार्याभावः, तस्मात् कर्म समाचर ।। १९ ।।
भावप्रदीपिका
उत्तरश्लोकं परामृष्टहेतुप्रदर्शनपूर्वकं व्याचष्टे– यत इति ।।
भावप्रकाशिका
असम्प्रज्ञातसमधिविषयत्वे तु श्लोकद्वयस्यार्जुनं प्रति कर्मोपदेशोपयोगित्वं दर्शयन्नेवोत्तरं श्लोकं व्याचष्टे– यत इति ।। १९ ।।
प्रमेयदीपिका
‘तस्मादसक्तः’ इति परामर्शविषयो न प्रतीयते । अतः तं दर्शयन् व्याख्याति– यत इति ।। ‘त्वं चेदानीमसम्प्रज्ञातसमाधिर्न भवसि’ इति शेषः । कर्मणोऽवश्यकर्तव्यत्वेऽसम्प्रज्ञातसमाधिविलोपप्रसङ्गान्नेदमवश्यं कर्तव्यमित्यतः अहमपि न कुर्याम् इति परिचोदनायाम् असम्प्रज्ञातसमाधिस्थविलोपप्रतिबन्दीं मोचयितुं तस्य वैलक्षण्य- मुक्त्वा तत्फलमिदमुच्यत इति नासङ्गतिः ।। १९ ।।
भावदीपः
ननु ‘कर्मकृतावकृतौ वाऽर्थानर्थौ न स्तः’ इत्युक्त्वा पुनरत्र ‘कर्म समाचर’ इत्युक्तिर्न सङ्गतेति शङ्कां निराह– कर्मणोऽवश्यकर्तव्यत्व इत्यादिना ।। परिचोद-नायामिति ।। अर्जुनेन कृतायामिति योज्यम् ।। उक्त्वेति ।। ‘यस्तु’ इत्यादिश्लोकद्वयेनेति योज्यम् ।। १९ ।।
भावरत्नकोशः
।। इति परामर्शेति । इति गीतायां तच्छब्दपरामर्शविषय इत्यर्थः । पूर्वश्लोकद्वये ‘तस्य कार्यं न विद्यते’ (३.१७), ‘नैव तस्य कृतेनार्थः’ (३.१८) इति कर्मणोऽकर्तव्यत्वमभिधाय, इह तत्कर्तव्यत्ववचनम् असङ्गतमित्याशङ्क्य भाष्ये शेषमाह– त्वं चेदानीमिति ।। एवंसति असङ्गतिपरिहारप्रकारं मूलावतारप्रदर्शनव्याजेनाह -कर्मण इति ।। परिचोदनायाम् अर्जुनेन कृतायाम् । वैलक्षण्यम् असम्प्रज्ञातसमाधिस्थत्वाभावरूपम् । तत्फलं वैलक्षण्योक्तिफलम् । इदं ‘कर्म समाचर’ इतिकर्तव्याचरणम् ।।
गीताक्षरार्थस्तु–यतोऽसम्प्रज्ञातसमाधेरेव कर्तव्याभावः, त्वं चेदानीमसम्प्रज्ञातसमाधिस्थो न भवसि, तस्मादसक्तः फलस्नेहरहितः । जिज्ञासोर्ज्ञानिनश्च कर्मणा प्रयोजनाभावात् कार्याभावः स्यादित्यत उक्तम्– असक्त इति ।। जिज्ञासुः असक्तः पुरुषः कर्माऽचरन्नेव ज्ञानद्वारा परं ब्रह्म आप्नोति । ज्ञानी तु कर्माऽचरन् परं परिपूर्णम् आनन्दम् आनन्दवृद्धिं प्राप्नोति । अतोऽ-सम्प्रज्ञातसमाधिस्थविलक्षणेन कर्म फलभावात् कार्यमिति गीताक्षरार्थः ।। १९ ।।
भावदीपिका
नन्वधुनाऽपि कर्मणः कर्तव्यत्वे वक्तव्यस्यावशिष्टत्वाद्, एतदन्तरमेव ‘तस्मात्’ इत्युपसंहारोऽसङ्गत आह– कर्मण इति ।। विलोपप्रसङ्गादिति ।। तत्र कर्मलोपावश्यम्भावादिति भावः । इदं कर्म । इत्यतः असम्प्रज्ञातसमाधिस्थदृष्टान्तात् । न कुर्यां युद्धादिकर्म । प्रतिबन्दीम् असम्प्रज्ञातसमाध्यवस्थाऽऽपन्नवत् अहमपि कर्म न कुर्यामिति प्रतिबन्दीम् । तस्य असम्प्रज्ञातसमाधिमतः । वैलक्षण्यमुक्त्वा ‘यस्त्वात्मरतिरेव स्यात्’ (३-१७) इत्यादिना कार्याभावरूपं वैलक्षण्यमुक्त्वा । तत् फलम् । इदम् इत्यव्ययम् । अनेन ‘तस्मादसक्तः’ इति श्लाकेनोच्यत इत्यर्थः । तथा चावान्तरोपसंहारोऽयमिति नासङ्गतिरिति भावः ।। १९ ।।