ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ।। १४ ।।

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ।। १४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- दर्शनानन्तरं किमकरोत् ? इत्यत उच्यते– तत इति ।। हृष्टानि पुकितानि रोमाणि यस्यासौ तथोक्त इति ।। १४ ।।