अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युद्ध्यस्व भारत।। १८ ।।

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।

अनाशिनोऽप्रमेयस्य तस्माद्युद्ध्यस्व भारत।। १८ ।।

भाष्यम्

भवतु देहस्यापि कस्यचिन्नित्यत्वमिति । नेत्याह– अन्तवन्त इति ।। अस्तु तर्हि दर्पणनाशात् प्रतिबिम्बनाशवदात्मनाश इत्यत आह– नित्यस्येति ।। ‘शरीरिणः’ इति ईश्वरव्यावृत्तये ।।

भावप्रदीपिका

ननु हरिप्रतिबिम्बभूतजीवस्य नित्यत्वे तदुपाधेर्देहस्यापि नित्यत्वं स्यादित्याशङ्क्य, उत्तरश्लोकमवतारयति– भवत्विति ।। उपाधेरनित्यत्वे जीवस्यापि नाशो लोकवदित्याशङ्क्य, उत्तरत्वेनावान्तरपदमवतारयति– अस्त्विति ।। नायं देह उपाधिरिति भावः ।।

भावप्रकाशिका

ननु प्रतिबिम्बत्वात् जीवस्य, तन्नित्यत्वे तदुपाधेर्देहस्यापि कस्यचित् नित्यत्वं स्यादित्या-शङ्कापरिहारायोत्तरश्लोकमवतारयति– भवत्विति ।। नन्वादर्शाद्युपाधिनाशात् तदनतिभिन्न-प्रतिबिम्बनाशवत् देहाख्योपाधिनाशात् जीवनाशोऽस्तीत्याशङ्कापरिहाराय अवान्तरपद-मवतारयति– अस्त्विति ।। देहनाशेऽपि प्रतिबिम्बरूपात्मनित्यत्वमङ्गीकुर्वतां देहातिरिक्ता-त्मोपाधिरस्तीत्यभिप्रायः । नित्यस्यानित्यदेहत्वं जीवस्यैव नेश्वरस्येत्येतत् शरीरिण इति विशेषणाल्लब्धमित्याह– शरीरिण इति इति ।।

प्रमेयदीपिका

देहानामन्तवत्वं प्रागुक्तं किमर्थमुच्यते? इत्यत आह– भवत्विति ।। आत्मनित्यत्वानु-मानस्य प्रतिपक्षं वक्तुं स्वाभिप्रेतस्य हेतोः सिद्धान्तिनाऽप्यभ्युपगतत्वं दृढीकुर्वता पूर्वपक्षिणा देहस्यापि कस्यचिन्नित्यत्वं भवतु किम्? इति पृष्टे नेत्याहेत्यर्थः । सिद्धार्थतापरिहाराय ‘कस्यचित्’ इत्युक्तम् ।। नन्वतिप्रसङ्गोऽयं कस्मान्न भवति । ‘कस्यचित्’ इति विशेषण-वैयर्थ्यात्। ‘नित्यस्य’ इत्यात्मनित्यत्वं पुनः कस्मादुच्यते? इत्यत आह– अस्त्विति ।।

एवं देहानित्यत्वं सिद्धान्तिनोऽपि सिद्धं कृत्वा तर्हि प्रतिबिम्बस्याऽत्मन उपाधेर्देहस्य नाशान्नाशोऽस्तु । दर्पणनाशात् मुखप्रतिबिम्बस्येवेति पूर्वपक्षिणा प्रतिपक्षेऽभिहिते तत्प्रतिषेधा-येदम् आहेत्यर्थः ।। अनेन ‘तथाऽप्यात्मा नित्यः’ इति वाक्यवृत्तिः सूचिता। अनुवादे प्रयोजनाभावात् । ये देहा अनित्या न तेषामुपाधित्वम् । यस्य चोपाधित्वं नासावनित्य इति भावः । तदिदमुक्तम् ‘इमे’ इति । व्यक्तीकरिष्यते चैतत् ।।

ननु ‘शरीरिणो देहाः’ इति व्यर्थम् । अशरीरस्य देहाभावादित्यत आह– शरीरिण इति ।। नित्यस्य देहा अन्तवन्त इत्युच्यमाने ईश्वरदेहस्यापि अन्तवत्वं प्रसज्यते । तद्व्यावृत्त्यर्थं  ‘शरीरिणः’ इति विशेषणम् । ‘जन्तुजन्युशरीरिणः’ (अमर.को.१.४.३०) इत्यभिधानात्, शरीरिशब्दस्य जीवे प्रसिद्धेः । तथाऽपि ‘अनाशिनः’ इति पुनरुक्तिरिति ।।

भावबोधः

सिद्धार्थतापरिहारायेति । प्रश्नस्येति शेषः तदुक्तम्– ‘प्रश्नदोषा हि चत्वारस्स्व-व्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यम्’ इति । प्रसिद्धदेहव्यावृत्त्यर्थं कस्यचिदित्यनुक्तौ तेषामनित्यत्वस्य प्रमितत्वान्नित्यत्वानित्यत्वकोटिकसन्देहासम्भवेन तन्मूलस्य देहानित्यत्वप्रश्नस्य सिद्धार्थतात् निश्चितानित्ववत्सु देहेषु तन्नित्यत्वप्रश्नस्यापि सिद्धार्थत्वादिति भावः ।। अतिप्रसङ्ग इति ।। आत्मनो नित्यत्वे देहस्यापि नित्यत्वं स्यात् अविशेषादिति प्रतिकूलतर्करूप इत्यर्थः ।। विशेषणवैय्यर्थ्यमिति ।। तर्के प्रमाणबाधस्यालङ्कारत्वेन प्रमितानित्यत्वदेहव्यावर्तकस्य कस्यचिदित्यस्य देहविशेषणस्य वैय्यर्थ्यादित्यर्थः ।।

भावदीपः

प्रागुक्तमिति ।। ‘देहिनोऽस्मिन्’ (२.१३) इत्यत्र ।। प्रतिपक्षमिति ।। प्रतिबिम्बात्मा न नित्यः अनित्योपाधिकत्वात् दर्पणोपाधिकप्रतिबिम्बवत् इत्येवं प्रतिपक्षं वक्तुमित्यर्थः।। सिद्धार्थ-तेति ।। ‘अन्तवन्त इमे देहाः’ इत्युक्तेः सिद्धार्थत्वपरिहाराय कस्यचिदपि त्वया शङ्कितस्य नास्तीति वक्तुं प्रश्ने ‘कस्यचित्’ इति विशेषणोक्तिरित्यर्थः ।। नन्वात्मनो नित्यत्वे तदुपाधि-भूतदेहानामपि नित्यत्वं स्यादित्यतिप्रसङ्गोक्तिपरमिदं वाक्यम् । अन्यथा प्रश्नार्थकत्वे ‘भवतु’ इति न स्यात्; ‘भवति’ इत्येव स्यादिति शङ्कते– नन्विति ।। वाक्यवृत्तिः गीतावाक्यस्य वृत्तिरित्यर्थः ।। कुतो ‘नित्यस्य’ इत्यस्य विधेयपरता? इत्यत आह– अनुवाद इति ।। व्यक्ताकरिष्यत इति ।। ‘नित्यश्चोपाधिः’ इत्यादावेतदुपाधिद्वैविध्यमिति भावः ।।

भावरत्नकोशः

प्रागुक्तं ‘तथा देहान्तरप्राप्तिः’ इत्यत्र जीर्णादिदेहहानेन देहान्तरप्राप्तावपीति भाषणादुक्त-प्रायम् । प्रतिपक्षं वक्तुमिति ।। ‘अस्तु तर्हि दर्पणनाशात् प्रतिबिम्बनाशवदात्मनाशः’ इत्यत्रेति शेषः । नाऽत्मा नित्यः । अनित्यस्वभावदेहरूपोपाधिकत्वात् । यस्यानित्योपाधिकत्वं तस्या-नित्यत्वम् । यथा दर्पणोपाधिकप्रतिबिम्बस्येति । प्रतिपक्षे हेतोरसिद्धिरिति न शङ्कनीयम् । कश्चिद् देहोऽपि नित्यः किं तव मते । न हि न हि । किन्तु सर्वोऽप्यनित्य एवेति तवापि मतमिति सिद्धान्तिनाऽपि हेतोरभ्युपगतत्वं द्रढयन् पूर्वपक्षी पृच्छति– भवत्विति ।। ‘अन्त-वन्तः’ इत्यनेन नित्यत्वसम्मतमित्याह– भगवानिति शङ्कोत्तरभाष्याभ्यामुच्यत इति पुनरुक्ते-र्वैयर्थ्यशङ्केति भावः । ननु नायं प्रश्न उपपद्यते । सन्देहमूलत्वात् प्रश्नस्य न चात्र सन्देहो युक्तः । प्रसिद्धदेहेष्वनित्यत्वस्य निश्चितत्वेन तत्र नित्यत्वानित्यत्वकोटिकसन्देहस्योत्पत्त्यनुपपत्त्या प्रश्नस्य प्रसिद्धदेहेषु सिद्धार्थत्वलक्षणदोषप्रसङ्गात् । तदुक्तं ‘प्रश्नदोषा हि चत्वारः स्वव्याहतिर-सङ्गतिः । सिद्धार्थता च वैफल्यम्’ इतीत्याशङ्कयोक्तदोषं परिहर्तुं प्रसिद्धानित्यताकदेह-व्यावर्तकविशेषणमुपात्तं भाष्य इत्याह– सिद्धार्थतेति ।।

ननु नासौ प्रश्नः । तत्सूचककिमादिपदाभावात् । किन्त्वात्मनित्यत्वानुमाने यद्यात्मा नित्यः स्यात् तर्हि देहोऽपि नित्यः स्यात् । अविशेषात् । भवति चानित्यो देहः । तस्मादात्माऽपि न नित्य इति प्रतिकूलतर्कोऽनेनाऽशङ्क्यत इति किमिति न भाष्यं योजितमिति शङ्कते– नन्विति ।। तर्कत्वे तत्राऽपाद्ये प्रमाणबाधस्यालङ्कारत्वेन प्रमितानित्यताकदेहव्यावर्तकस्य कस्यचिदित्यस्य वैयर्थ्यापातात् प्रसङ्गो न भवतीत्याह– कस्यचिदिति विशेषणवैयर्थ्यादिति ।। किंशब्दाभावेऽपि योग्यतया तस्याध्याहारः कर्तव्यो भाष्य इति हृदयम् । ‘न चैव न भविष्यामः’ इति प्रागुक्तत्वात्– पुनरिति ।। कस्मा इति ।। प्रयोजनायेति शेषः । तर्हि देहस्यानित्यत्वे । प्रतिबिम्बस्य ईश्वरप्रतिबिम्बस्य । प्रतिपक्षे अनित्योपाधिकत्वरूपसत्प्रतिपक्षे । नित्यस्येत्यनेन कथं प्रतिपक्षप्रतिक्षेप इत्यत आह– अनेनेति ।।

यद्यपि परिदृश्यमाना देहा अनित्या इति ममापि सम्मतम् । तथाऽपि आत्मा नित्य इति वचनव्यक्तिः सूचितेत्यर्थः । प्रागुक्तत्वादनुवादः किं न स्यादित्यत आह– अनुवाद इति ।। विधानपक्षे सत्प्रतिपक्षप्रतिक्षेपः प्रयोजनम् । न चैवं प्रयोजनमनुवादपक्ष इत्यर्थः । अतः सप्रयोजनत्वाय विधानमेवेदमिति भावः । ननु प्रतिपक्षो न वाङ्मात्रेण प्रतिक्षेप्तुं शक्य इत्यतो हेतुदोषं वक्तुमाह– ये देहा इति ।। न तेषामुपाधित्वमिति ।। जीवे प्रतिबिम्बनाश-प्रयोजकत्वमित्यर्थः । तेन द्विविध उपाधिरात्मन इति भाविग्रन्थाविरोधः । नन्वेवमात्मनः प्रतिबिम्बत्वमपि न स्यात् । प्रतिबिम्बत्वस्योपाधिमत्त्वव्याप्यत्वात् । देहस्य चोपाधित्वानभ्युप-गमादिति चेन्न । वक्ष्यमाणरीत्याऽन्योपाध्यङ्गीकारेण प्रतिबिम्बत्वोपपत्तेः । तस्याप्यनित्यत्वे पुनरात्मनाशानुमानमप्रत्यूहमिति चेन्न । प्रतिबिम्बताप्रयोजकोपाधेरनित्यत्वाभावादित्याह– यस्य चेति ।। तथा च अनित्योपाधिकत्वादिति हेतोः देहस्यानुपाधित्वात् विशेष्यासिद्धिः, उपाधित्वेन सम्मतस्य चानित्यत्वाभावाद् विशेषणासिद्धिरिति दूषणाभावान्न तस्य प्रतिपक्षत्वमिति भावः । प्रतिबिम्बत्वघटक उपाधिरन्योऽस्ति, स च नित्य इत्येतद् गीताभिमतमित्याह– तदिदमिति ।। अन्यनित्योपाध्यभावे इम इति विशेषणं व्यर्थमिति भावः ।।

ननु कश्चिदुपाधिर्नित्योऽस्तीत्येतत् कुत इत्यतः, आत्मनो नित्योपाधिसद्भावे तस्य मोक्षो न स्यात् । उपाधिनिवृत्तिलक्षणत्वान्मोक्षस्येत्यतो वाऽह– व्यक्ताकरिष्यत इति ।। द्विविध उपाधिरात्मनो नित्योऽनित्यश्च । तत्र नित्यस्यावस्थानमन्यस्य निवृत्तिर्मुक्ताविति ‘नित्य-श्चोपाधिः’ इति भाष्ये व्यक्ताकरिष्यत इत्यर्थः ।।

ननु शरीरिण इति देहविशेषणं न युक्तम् । राज्ञः पुरुष इत्यादौ पुरुषस्येतरपुरुषव्यावर्तनाय राज्ञ इति विशेषणस्येवेह विशेषणस्य व्यभिचाराभावेनाव्यावर्तकत्वात् । ‘सम्भवव्यभिचाराभ्यां स्याद् विशेषणमर्थवत्’ इति वचनादिति भावेन शङ्कते– ननु शरीरिण इति ।। नित्यस्येत्येतद् विधेयसमर्पकतया सार्थकमित्युक्तम् । सहश्रुतनिखिलपदानां च सम्भूयकारित्वस्य व्युत्पन्नतया नित्यस्य देहा अन्तवन्त इत्यन्वये ईश्वरदेहस्याऽप्यनित्यत्वापत्त्या व्यभिचारादस्ति विशेषणस्य सार्थकत्वमित्याह– नित्यस्येत्यादि ।। ईश्वरस्यापि चिदानन्दशरीरशालित्वात् कथं तेन तद्व्यावृत्तिरित्यतो नात्र शरीरिशब्दो यौगिकः । येनेश्वरस्यापि समः स्यात् । किन्तु रूढ इति भवति तेन तद्व्युदास इत्याह– जन्तुजन्य्विति ।। ‘प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः’ इत्यभिधानाद् जीवे रूढेरित्यर्थः । न ह्यबाधे प्रसिद्धस्त्यक्तव्य इति भावः ।।

भावदीपिका

प्रतिपक्षं वक्तुमिति ।। प्रतिबिम्बभूत आत्मा न नित्यः । अनित्यदेहाख्योपाधिमत्त्वात् इति सत्प्रतिपक्षम्, ‘अस्तु तर्हि’ इत्यादिना वक्तुमित्यर्थः । ननु देहस्य नित्यत्वं भवत्वित्येव प्रश्नः क्रियतां कस्यचिदिति व्यर्थमित्यत आह– सिद्धार्थतेति ।। प्रश्नस्येति शेषः ।। तथा च देहो नित्यो भवत्वित्येव प्रश्नो न सम्भवति । प्रसिद्धदेहेष्वनित्यत्वस्य प्रमिततया एककोटिनिश्चयस्य विद्यमानत्वेन नित्यत्वानित्यत्वकोटिकसन्देहासम्भवात् । तदसम्भवे च तन्मूलकः प्रसिद्धदेह-नित्यत्वविषयकप्रश्नो न सम्भवति । अनित्यत्वेन सिद्धार्थो यो देहस्तद्विषयकत्वादित्यर्थतः कस्यचिदित्युक्तम् । प्रसिद्धदेहविलक्षणस्य कस्यचिद् देहस्य नित्यत्वं भवत्वित्यर्थ इति भावः । सिद्धार्थताया प्रश्नदोषत्वं च ‘प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च नैष्फल्यं ततः स्यात् तत्त्वनिर्णय’ इत्यनुव्याख्याने भगवत्पादैरेव प्रतिपादितमस्तीति द्रष्टव्यम् ।।

ननु भवत्विति वाक्यस्योक्त एवाभिप्रायः कुत इत्याशङ्कते– अतिप्रसङ्ग इति ।। यद्यात्मा नित्यः स्यात् तर्हि परिदृश्यमानो देहोऽपि नित्यः स्यात् । पदार्थत्वाविशेषादित्यतिप्रसङ्गरूपः प्रतिकूलतर्क एवास्तु । न च प्रसिद्धदेहेषु नाशस्यैव प्रमाणसिद्धत्वेन तदभावापादने प्रमाणबाधः स्यादिति वाच्यम् । आपादने तस्यालङ्कारत्वेन दोषत्वाभावादित्यर्थः ।। वैयर्थ्यादिति ।। अतिप्रसङ्गपक्षे कस्यचिदिति विशेषणवैयर्थ्यमित्यर्थः ।। प्रतिपक्ष इति ।। प्रतिबिम्बभूत आत्मा नित्यो न भवति । अनित्यदेहाख्योपाधिमत्त्वात् । दर्पणनाशेन नश्यमानमुखप्रतिबिम्बवदिति प्रतिपक्ष इत्यर्थः ।। अनेनेति ।। यद्यपीमे परिदृश्यमाना देहा अन्तवन्तस्तथाऽप्यात्मा नित्य इति वाक्यवृत्तिर्वाक्यव्याख्यानं सूचितमित्यर्थः । ननु नित्यस्याऽत्मनो देहा अन्तवन्त इत्यनुवादः कस्मान्न स्यादित्यत आह अनुवाद इति ।।

ननु कथमनेन शङ्कापरिहार इत्यत आह– ये देहा इति ।। देहाख्योपाधेरनित्यत्व-विशेषणमसिद्धमिति भावः । विशेषणासिद्धिर्गीतासूचितेत्याह तदिदमुक्तमिति ।। इम इतीति ।। तथा च इमे परिदृश्यमाना देहा अन्तवन्त इति तेषामन्तवत्त्वोक्त्या एतेषां प्रतिबिम्ब-घटकोपाधित्वं नास्तीत्युक्तमित्यर्थः । ननु यस्य चोपाधित्वं नासौ अनित्य इत्येतदयुक्तं तादृशोपाधेरभावादित्यत आह– व्यक्तीकरिष्यत इति ।। ‘स्वयमेवात्र प्रदर्शक’ इत्यादि-नेत्यर्थः ।। शरीरिणो देहा इति व्यर्थमिति ।। इति वाक्यविन्यासे शरीरिण इति पदं व्यर्थम् । नित्यस्य देहा इति वचनेनैव शरीरवत्त्वसिद्धेरिति भावः ।। ईश्वरस्यापीति ।। नित्यस्येत्युक्त्या ईश्वरस्यापि प्राप्तिरिति भावः । ननु कथमनेनेश्वरव्यावृत्तिस्तस्यापि शरीरवत्त्वादित्यत आह– जन्तुजन्य्विति ।। ‘प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिण’ इत्यभिधानात् शरीरिशब्दो जीवे रूढ इत्यर्थः ।। पुनरुक्तिरिति ।। नित्यस्येत्यनेनैव तल्लाभादिति भावः ।

भावप्रकाशः

प्रागुक्तमिति ।। तथा देहान्तरप्राप्तिरित्यत्रोक्तमित्यर्थः । सिद्धार्थतापरिहारायेति ।। देहस्य नित्यत्वमनित्यत्वं वेति प्रश्नस्यानित्यत्वेन सम्मतेषु अस्मदादिदेहेषु सिद्धार्थत्वपरिहारायेत्यर्थः । अतिप्रसङ्गे इति ।। आत्मनो नित्यत्वे देहस्यापि नित्यत्वं स्यादविशेषादिति प्रतिकूलतर्क इत्यर्थः । विशेषवैयर्थ्यादिति ।। तर्के प्रमाणबाधस्यालङ्कारत्वेन नित्यत्वेन प्रमितदेहव्यावर्तकस्य कस्यचिदिति विशेषणस्य वैयर्थ्यप्रसङ्गादित्यर्थः ।।

ननु उपाधेर्नित्यत्वे मोक्षो न स्यादुपाधिनिवृत्तिलक्षणत्वात् मुक्तेरित्यत आह– व्यक्ता-करिष्यत इति ।। द्विविध उपाधिरात्मनो नित्योऽनित्यश्च । तत्र नित्यस्यावस्थानमनित्यस्य निवृत्तिर्मुक्ताविति नित्यश्चोपाधिः कश्चिदस्तीत्यादिना व्यक्ताकरिष्यत इत्यर्थः ।

Load More