अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ।। १२ ।।

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ।। १२ ।।

भाष्यम्

तत्वज्ञानार्थदर्शनम् अपरोक्षज्ञानार्थं शास्त्रदर्शनम् ।। १२ ।।

भावप्रदीपिका

तत्त्वज्ञान... इत्याद्यप्रतीतिनिरासाय व्याचष्टे– तत्त्वेति

।। १२ ।।

प्रमेयदीपिका

ननु तत्त्वज्ञानार्थदर्शनं नाम ज्ञानमेव । तत्कथं ज्ञान-साधनेषूच्यते? इत्यत आह– तत्त्वेति ।। शास्त्रदर्शनं तत्पर्यालोचनम् । अत्र ‘शास्त्रस्य’ इत्यध्याहृत्य व्याख्यानमिति ज्ञातव्यम् ।। १२ ।।

भावबोधः

।। शास्त्रस्येति ।। अत्र शास्त्रेत्येवाध्याहारः । विग्रहप्रदर्शनार्थं शास्त्रस्येत्युक्तमिति ज्ञातव्यम् ।। १२ ।।

भावरत्नकोशः

अवलोकनश्रवणादिरूपस्य शास्त्रदर्शनस्य साक्षादपरोक्षज्ञान-साधनत्वाभावादाह– शास्त्रदर्शनं तत्पर्यालोचनमिति ।। ‘अथवा सततं शास्त्रविमर्शेन भविष्यति । अपरोक्षज्ञानम्’ इति तन्त्रसारसङ्ग्रहवचनात् निरन्तरशास्त्रावमर्शशब्दितं तत्पर्या-लोचनं भवत्येवापरोक्षज्ञानसाधनमिति भावः । ‘दर्शनं तत्पर्यालोचनम्’ इति क्वचित्पाठः । तत्रोपक्रमाद्यन्यतमप्रमाणकशक्तितात्पर्यावधारणम् उपासनाद्वारा अपरोक्षज्ञानसाधनमित्यर्थः । अत्र ‘तत्वज्ञानार्थदशनम्’ इति गीतायाम् । अध्याहृत्य ‘तत्वज्ञानार्थं शास्त्रदर्शनम् इति दर्शन-शब्दात् पूर्वम् अर्थशब्दात् परं शास्त्रशब्दं संयोज्येत्यर्थः । ‘शास्त्रस्य’ इति षष्ठ्युक्तिस्तु ‘शास्त्र-दर्शनम्’ इत्यत्र भाष्ये विग्रहदशायां ‘शास्त्रस्य दर्शनम्’ इति षष्ठ्यन्तं शास्त्रपदं ज्ञेयमित्यभिप्रेत्य ।।

 गीताक्षरार्थस्तु– अध्यात्मज्ञाननित्यत्वम् । अधिक आत्मा अध्यात्मा परमात्मा, तद्विषयकज्ञाने नित्यत्वं निष्ठावत्त्वम् । तत्त्वज्ञानार्थदर्शनं तत्त्वस्य अनारोपितस्वरूपस्य भगवतो ज्ञानम् अपरोक्षरूपम् अर्थः प्रयोजनं यस्य तत् तत्त्वज्ञानार्थम्, तच्च तद् दर्शनं च तत्तथा, भगवदपरोक्षनिष्पादनानुकूलशास्त्रपर्यालोचनमित्यर्थः । एतत् ‘अमानित्वम्’ इत्यादिनोक्तं तत्त्वज्ञानार्थदर्शनम् इत्येतदवसानकं विंशतिसङ्ख्याकधर्मजातं, ‘ज्ञायतेऽनेन’ इति करणे ल्युटि ज्ञानं ज्ञानसाधनं प्रोक्तं निरूपितम् । अतः एतस्माद् उक्ताद् अमानित्वादिकाद् अन्यथा विपर्ययेण विद्यमानं यत् मानित्वादिकं तदज्ञानं ज्ञानसाधनं न भवति । इतिशब्दः साधनवर्ग-निरूपणसमाप्तौ ।। १२ ।।

भावदीपिका

।। शास्त्रस्येति ।। अत्र ‘तत्त्वज्ञानार्थं शास्त्रदर्शनम् इति ‘शास्त्र इत्येवाध्याहारः, ‘शास्त्रस्य’ इति तु विग्रहप्रदर्शनार्थमिति ज्ञेयम् ।। १२ ।।

भावप्रकाशः

 शास्त्रश्रवणमात्रं नापरोक्षज्ञानसाधनमित्यत आह– तत्पर्या-लोचनमिति ।। ‘अथवा सततं शास्त्रविमर्शेन भविष्यति’ इत्युक्तेरिति भावः ।। १२ ।।